अध्याय 25: भावेशफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 25 (Bhavesh Phal)
104 श्लोक · 3 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1कुंडली के 1 नियमलग्नेशे लग्नगे देहसुखभाक् शत्रु विक्रमी ।मनस्वी चंचलश्चैव द्विभार्यः परगोऽपि वा ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमलग्नेशे धनगे बालो लाभवान् पण्डितः सुखी ।सुशीलो धर्मविन्मानी बहुदारो गुणैर्युतः ॥ 2 ॥
- श्लोक 3कुंडली के 1 नियमलग्नेशे सहजे जातः सिंहतुल्यपराक्रमी ।सर्वसम्पद्युतोमानी द्विभार्यो मतिमान् सुखी ॥ 3 ॥
- श्लोक 4कुंडली के 1 नियमलग्नेशे सुखगे बालः पितृमातृसुखान्वितः ।बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥ 4 ॥
- श्लोक 5कुंडली के 1 नियमलग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् ।प्रथमापत्यनाशः स्यान् मानी क्रोधी नृपप्रियः ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमलग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः ।पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जितः ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमलग्नेशे सप्तमे पापे भार्या तस्य न जीवति ।शुभेऽटनो प्रसिद्धो वा विरक्तो वा नृपोऽपि वा ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमलग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः ।रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥ 8 ॥
- श्लोक 9कुंडली के 1 नियमलग्नेशे भाग्यगे जातो भाग्यवांजनवल्लभः ।विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमलग्नेशे दशमे जातः पितृसौख्यसमन्वितः ।नृपमान्यो जने ख्यातः स्वार्जित स्वो न संशयः ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमलग्नेशे लाभगे जातः सदा लाभसमन्वितः ।सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमलग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः ।व्यर्थव्ययी महाक्रोधी शुभेक्षितयुते नहि ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमधनेशे लग्नगे जातः स्वकुटुम्बस्य कण्टकः ।धनवान् निष्ठुरः कामी पुत्रवान् परकार्यकृत् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमधनेशे धनगे जातो धनवान् गर्वसंयुतः ।द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥ 14 ॥
- श्लोक 15कुंडली के 1 नियमधनेशे सहजे जातो विक्रमी मतिमान् गुणी ।कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥ 15 ॥
- श्लोक 16कुंडली के 1 नियमधनेशे सुखभावस्थे सर्वसम्पत् समन्वितः ।गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमधनेशे सुतभावस्थे जातो धनसमन्वितः ।धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमधनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् ।सपापे शत्रुतो हानिर्जङ्घावैकल्यवान् भवेत् ॥ 18 ॥
- श्लोक 19कुंडली के 1 नियमधनेशे सप्तमे वैद्यः परदाररतः पुमान् ।पापेक्षितयुते तस्य भार्या स्याद् व्यभिचारिणी ॥ 19 ॥
- श्लोक 20कुंडली के 1 नियमधनेशेऽष्टमगे जातो भूरि भूमिधनैर्युतः ।पत्नीसुखं भवेत्स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥ 20 ॥
- श्लोक 21कुंडली के 1 नियमधनेशे धर्मगे तीर्थव्रतधर्मरतः पटुः ।बाल्ये रोगी सुखी पश्चाद् धनवानुद्यमी सदा ॥ 21 ॥
- श्लोक 22कुंडली के 1 नियमधनेशे कर्मगे जातः कामी मानी च पण्डितः ।बहुदारधनैर्युक्तः किंच पुत्रसुखोज्झितः ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमधनेशे लाभभावस्थे सर्वलाभसमन्वितः ।सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमव्ययगे धनभावेशे साहसी धनवर्जितः ।जीविका नृपसान्निध्याज्ज्येष्ठापत्यसुखं न हि ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमतृतीयेशे विलग्नस्थे स्वभुजार्जितवित्तवान् ।सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥ 25 ॥
- श्लोक 27कुंडली के 1 नियमतृतीयेशे तृतीयस्थे भ्रातृपुत्रसुखान्वितः ।धनयुक्तो महाहृष्टो भुनक्ति सुखमद्भुतम् ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमतृतीयेशे सुखे कर्मे पंचमे वा सुखी नरः ।क्रूरस्त्रीको धनाढ्यश्च मतिमान् पुत्रसंयुतः ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमषष्ठभावे तृतीयेशे भ्रातृशत्रुर्महाधनी ।मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥ 29 ॥
- श्लोक 31कुंडली के 1 नियमनवमे सहजाधीशे पितुः सुखविवर्जितः ।स्त्रीभिर्भाग्योदयस्तस्य पुत्रादि सुख संगतः ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमलाभगे सहजेशे तु व्यापारे लाभवान् सदा ।विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥ 32 ॥
- श्लोक 33कुंडली के 1 नियमव्ययस्थे सहजाधीशे कुकार्ये व्ययकृज्जनः ।पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयी सदा ॥ 33 ॥
- श्लोक 34कुंडली के 1 नियमसुखेशे लग्नगे जातो विद्यागुण विभूषितः ।भूमिवाहन संयुक्तो मातुः सुखसमन्वितः ॥ 34 ॥
- श्लोक 35कुंडली के 1 नियमसुखेशे धनभावस्थे भोगी सर्वधनान्वितः ।कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥ 35 ॥
- श्लोक 36कुंडली के 1 नियमसुखेशे सहजस्थे च विक्रमी भृत्यसंयुतः ।उदारो गुणवान्दाता धनवान् नित्यरोगवान् ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमसुखेशे सुखगे नित्यं मानी सर्वधनान्वितः ।चतुरः शीलवान् मन्त्री ज्ञानी सौख्यसमन्वितः ॥ 37 ॥
- श्लोक 38कुंडली के 1 नियमसुखेशे पंचमे भाग्ये सुखी सर्वजनप्रियः ।देवभक्तिरतोमानी सद्गुणवित्तसंयुतः ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमसुखेशे रिपुभावस्थे मातुः सौख्यविवर्जितः ।क्रोधी चौरोऽभिचारी च कामचारी च दुर्मनाः ॥ 39 ॥
- श्लोक 40कुंडली के 1 नियमसुखेशे सप्तमे बालो बहुविद्यासमन्वितः ।पित्रार्जित धन त्यागी सभायां मूकवद्भवेत् ॥ 40 ॥
- श्लोक 41कुंडली के 1 नियमसुखेशे व्ययरन्ध्रस्थे गृहादिसुखवर्जितः ।पित्रोः सुखं भवेत्स्वल्पं जातः क्लीबसमो भवेत् ॥ 41 ॥
- श्लोक 42कुंडली के 1 नियमसुखेशे कर्मभावस्थे राजमान्यः सुखी नरः ।रसायनी महाहृष्टो भोगी च विजितेन्द्रियः ॥ 42 ॥
- श्लोक 43कुंडली के 1 नियमसुखेशे लाभगे जातो नित्यरोगभयान्वितः ।उदारश्च गुणज्ञश्च दाता स्वार्जितवित्तवान् ॥ 43 ॥
- श्लोक 44कुंडली के 1 नियमसुतेशे लग्नगे जातो विद्वान् पुत्रसुखान्वितः ।कदर्योवक्रचित्तश्चद्रव्यसंग्रहतत्परः ॥ 44 ॥
- श्लोक 45कुंडली के 1 नियमसुतेशे धनभावस्थे बहुपुत्रो धनान्वितः ।कुटुम्बपोषको मानी लोकवल्लभ्यसंयुतः ॥ 45 ॥
- श्लोक 46कुंडली के 1 नियमसुतेशे सहजस्थे तु जायते सोदरप्रियः ।मायापरो द्विजिह्वश्च स्वकार्यनिरतः सदा ॥ 46 ॥
- श्लोक 47कुंडली के 1 नियमसुतेशे मातृभवने चिरमातृसुखी धनी ।लक्ष्मीयुक्तः सुबुद्धिश्च सचिवोऽप्यथवा गुरुः ॥ 47 ॥
- श्लोक 48कुंडली के 1 नियमसुतेशः पंचमे यस्य तस्य पुत्रा भवन्ति हि ।क्षणिकः क्रूरभाषी च धार्मिको मतिमान् भवेत् ॥ 48 ॥
- श्लोक 49कुंडली के 1 नियमसुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् ।मृतपुत्रो ग्राह्यपुत्रो धनपुत्रोऽथवा भवेत् ॥ 49 ॥
- श्लोक 50कुंडली के 1 नियमसुतेशे कामगे मानी सर्वधर्मसमन्वितः ।तुंगयष्टिः सुपुत्रश्च तेजस्वी भक्तिमान् नरः ॥ 50 ॥
- श्लोक 51कुंडली के 1 नियमसुतेशे रन्ध्रगे जातः स्वल्पपुत्रसुखान्वितः ।कासश्वासी च क्रोधी च विषवैद्यो धनान्वितः ॥ 51 ॥
- श्लोक 52कुंडली के 1 नियमसुतेशे नवमे पुत्रो भूपो वा भूपसन्निभः ।स्वयं वा ग्रन्थकर्ता च पुत्रः स्यात्कुलदीपकः ॥ 52 ॥
- श्लोक 53कुंडली के 1 नियमदशमस्थे सुतेशे च राजयोगी ससन्ततिः ।अनेक सुखभोगी स्यात् विख्यातो भुवि मानवः ॥ 53 ॥
- श्लोक 54कुंडली के 1 नियमसुतेशे भवभावस्थे पण्डितो जनवल्लभः ।ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥ 54 ॥
- श्लोक 55कुंडली के 1 नियमव्ययगे पंचमाधीशे जातः पुत्रसुखोज्झितः ।शुभे शुभश्च संयुक्ते भक्तिमान् अल्पपुत्रवान् ॥ 55 ॥
- श्लोक 56कुंडली के 1 नियमषष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुक्तः ।आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥ 56 ॥
- श्लोक 57कुंडली के 1 नियमषष्ठेशे धनभावस्थे साहसी कुलविश्रुतः ।परदेशी, सुखी, वक्ता स्वकर्मनिरतः सदा ॥ 57 ॥
- श्लोक 58कुंडली के 1 नियमषष्ठेशे सहजक्षेत्रस्थे क्रोधी संरक्तलोचनः ।भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥ 58 ॥
- श्लोक 59कुंडली के 1 नियमषष्ठेशे सुखभावस्थे मातुरल्पसुखं भवेत् ।मनस्वी पिशुन द्वेषी चलचित्तोऽतिवित्तवान् ॥ 59 ॥
- श्लोक 60कुंडली के 1 नियमसुतगः षष्ठभावेशः चलं तस्य धनादिकम् ।दयायुक्तः सुखी, सौम्यः स्वकार्ये चतुरो महान् ॥ 60 ॥
- श्लोक 62कुंडली के 1 नियमषष्ठेशे दारभावस्थे जातो दारसुखोज्झितः ।कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥ 62 ॥
- श्लोक 63कुंडली के 1 नियमषष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् ।परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥ 63 ॥
- श्लोक 64कुंडली के 1 नियमनवमे रिपुभावेशः काष्ठपाषाणविक्रयी ।व्यवहारे क्वचिद् हानिः क्वचिद् वृद्धिश्च जायते ॥ 64 ॥
- श्लोक 65कुंडली के 1 नियमषष्ठेशे दशमस्थे तु साहसी कुलविश्रुतः ।अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥ 65 ॥
- श्लोक 66कुंडली के 1 नियमषष्ठेशे लाभभावस्थे नरः कीर्तियुतो भवेत् ।गुणवान् मानवान् वीरः किन्तु पुत्रसुखोज्झितः ॥ 66 ॥
- श्लोक 67कुंडली के 1 नियमद्वादशे रिपुभावेशे व्यसनी हिंसको नरः ।अथवा शुभ युते दृष्टे सुखी भोगी न संशयः ॥ 67 ॥
- श्लोक 68कुंडली के 1 नियमदारेशे तनुभावस्थे परदारेषु लम्पटः ।दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥ 68 ॥
- श्लोक 69कुंडली के 1 नियमदारेशे धनभावस्थे बहुस्त्रीभिः समादृतः ।दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥ 69 ॥
- श्लोक 70कुंडली के 1 नियमसप्तमेशे तृतीयस्थे दारसौख्यविवर्जितः ।यत्नात् पुत्रवान् जातो मृतापत्योऽल्पसन्ततिः ॥ 70 ॥
- श्लोक 71कुंडली के 1 नियमदारेशे सुखभावस्थे जाया तस्य न वशे सदा ।स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥ 71 ॥
- श्लोक 72कुंडली के 1 नियमदारेशे पंचमे जातो मानी सर्वगुणान्वितः ।सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥ 72 ॥
- श्लोक 73कुंडली के 1 नियमरिपुभावगते स्त्रीशे भार्या तस्य रुजान्विता ।स्त्रिया सहाथवा वैरं स्वयं क्रोधी सुखोज्झितः ॥ 73 ॥
- श्लोक 74कुंडली के 1 नियमदारेशे सप्तमे भावे जातो दारसुखान्वितः ।धीरो विचक्षणो धीमान् केवलं हृदि रोगवान् ॥ 74 ॥
- श्लोक 75कुंडली के 1 नियमसप्तमेशे तु रन्ध्रस्थे नरो दारसुखोज्झितः ।नारी रोगयुता वापि दुःशीला न वशानुगा ॥ 75 ॥
- श्लोक 76कुंडली के 1 नियमदारेशे धर्मभावस्थे नानास्त्रीभिः समन्वितः ।जायाहृतमना जातो बह्वारम्भकरो नरः ॥ 76 ॥
- श्लोक 77कुंडली के 1 नियमदारेशे कर्मभावस्थे नास्य जायावशानुगा ।स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥ 77 ॥
- श्लोक 78कुंडली के 1 नियमसप्तमेशे भवस्थे तु दारैरर्थसमागमः ।पुत्रादिसुखमल्पं च जनः कन्याप्रजो भवेत् ॥ 78 ॥
- श्लोक 79कुंडली के 1 नियमद्वादशे सप्तमाधीशे दरिद्रः कृपणो महान् ।वस्त्राजीवी भवेज्जातः भार्या रम्या व्ययप्रिया ॥ 79 ॥
- श्लोक 80कुंडली के 1 नियमअष्टमेशे तनौ याते तनुसौख्यविवर्जितः ।देवनिन्दापरो नित्यं व्रणरोगी भवेत्पुमान् ॥ 80 ॥
- श्लोक 81कुंडली के 1 नियमअष्टमेशे धने बाहुबलहीनः प्रजायते ।धनं तस्य भवेत्स्वल्पं नष्टं वित्तं न लभ्यते ॥ 81 ॥
- श्लोक 82कुंडली के 1 नियमसहजे रन्ध्रभावेशे भ्रातृसौख्यं न जायते ।सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥ 82 ॥
- श्लोक 83कुंडली के 1 नियमरन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः ।गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥ 83 ॥
- श्लोक 84कुंडली के 1 नियमरन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते ।स्वल्पप्रज्ञोभवेज्जातो दीर्घायुश्च धनान्वितः ॥ 84 ॥
- श्लोक 85कुंडली के 1 नियमरन्ध्रेशे रिपुभावस्थे शत्रुजेता प्रभंजनः ।रोगी सर्प जलाद्घातो बाल्ये तस्य प्रजायते ॥ 85 ॥
- श्लोक 86कुंडली के 1 नियमरन्ध्रेशे सप्तमस्थे तु तस्य भार्याद्वयं भवेत् ।व्यापारे च भवेद्धानिस्तस्मिन् पापयुते ध्रुवम् ॥ 86 ॥
- श्लोक 87कुंडली के 1 नियमरन्ध्रेशे मृत्युभावस्थे जातो दीर्घायुषा युतः ।द्यूती चौरोऽन्यथावादी पापी चेद् गुरुनिन्दकः ॥ 87 ॥
- श्लोक 88कुंडली के 1 नियमअष्टमेशे तपःस्थाने महापापी च नास्तिकः ।दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥ 88 ॥
- श्लोक 89कुंडली के 1 नियमरन्ध्रेशे तु दशमस्थे पितृसौख्यविवर्जितः ।पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥ 89 ॥
- श्लोक 90कुंडली के 1 नियमरन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः ।बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥ 90 ॥
- श्लोक 91कुंडली के 1 नियमव्ययस्थेऽष्टमभावेशे कुकार्ये व्ययकृत् सदा ।अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥ 91 ॥
- श्लोक 92कुंडली के 1 नियमभाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः ।सुशीलः सौम्यरूपश्च विद्यावान् जनपूजितः ॥ 92 ॥
- श्लोक 93कुंडली के 1 नियमभाग्येशे धनभावस्थे पण्डितो जनवल्लभः ।जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥ 93 ॥
- श्लोक 94कुंडली के 1 नियमभाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः ।धनवान् विक्रमी रूपगुणशीलसमन्वितः ॥ 94 ॥
- श्लोक 95कुंडली के 1 नियमभाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः ।पुण्यवान् सुयशो वाग्मी साहसी जनपूजितः ॥ 95 ॥
- श्लोक 96कुंडली के 1 नियमभाग्येशे पंचमस्थे तु भाग्यवान् पुत्रवान् नरः ।गुरुभक्तिरतो मानी धर्मात्मा पण्डितो गुणी ॥ 96 ॥
- श्लोक 97कुंडली के 1 नियमभाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः ।मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥ 97 ॥
- श्लोक 98कुंडली के 1 नियमभाग्येशे मदभावस्थे दारयोगात् सुखोदयः ।गुणवान् कीर्तिमान् कामी कार्यबाधा क्वचिद् भवेत् ॥ 98 ॥
- श्लोक 99कुंडली के 1 नियमभाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् ।ज्येष्ठभ्रातृ सुखैर्हीनः पीडितो भाग्यलीलया ॥ 99 ॥
- श्लोक 100कुंडली के 1 नियमभाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः ।गुणसौन्दर्यसम्पन्नः भ्रातृसौख्यं भवेद्बहु ॥ 100 ॥
- श्लोक 101कुंडली के 1 नियमभाग्येशे कर्मभावस्थे मन्त्री सेनापतिर्नृपः ।बलाबलविवेकेन गुणवान् अथ पूजितः ॥ 101 ॥
- श्लोक 102कुंडली के 1 नियमभाग्येशे लाभभावस्थे धनलाभो दिने दिने ।गुरुभक्तिरतः मानी गुणवान् पुण्यसंचयी ॥ 102 ॥
- श्लोक 103कुंडली के 1 नियमधर्मेशे व्ययभावस्थे भाग्यहानिर्भवेद् ध्रुवम् ।सविशेषात्तुलायां तु व्ययी ह्यतिथि संगमात् ॥ 103 ॥
- श्लोक 104कुंडली के 1 नियमइति ते कथितं विप्र ! भावेशानां च यत्फलम् ।बलाबलविवेकेन सर्वेषां तत् समादिशेत् ॥ 104 ॥
- श्लोक 105कुंडली के 1 नियमद्विराशीशस्य खेटस्य विदित्वोभयथा फलम् ।विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥ 105 ॥
- श्लोक 106कुंडली के 1 नियमविभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद् ध्रुवम् ।ग्रहे पूर्णबले पूर्णमर्धमर्धबले फलम् ॥ 106 ॥
- श्लोक 107कुंडली के 1 नियमपादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति ।उक्तं भावस्थितानां ते भावेशानां फलं मया ॥ 107 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।