अध्याय 26: अप्रकाशग्रहफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 26 (Aprakash Grah Phal)

86 श्लोक

  1. श्लोक 1शूरो विमल नेत्रांशः सुस्तब्धो निर्घृणः खलः ।मूर्तिस्थे धूमसंज्ञे च गाढरोषो भवेन्नरः ॥ 1 ॥
  2. श्लोक 2रोगी धनी तु हीनांगो राज्यापहृतमानसः ।धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपुंसकः ॥ 2 ॥
  3. श्लोक 3मतिमान्‌ शौर्यसम्पन्न इष्टचित्तः प्रियंवदः ।धूमे सहज भावस्थे धनाढ्यो धनवान्‌ भवेत्‌ ॥ 3 ॥
  4. श्लोक 4कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः ।धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥ 4 ॥
  5. श्लोक 5स्वल्पापत्योधनैर्हीनो धूमे पंचमसंस्थिते ।गुरुता सर्वभक्षं च सुहृन्मन्त्र विवर्जितः ॥ 5 ॥
  6. श्लोक 6बलवांछत्रुवधको धूमे च रिपुभावगे ।बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ 6 ॥
  7. श्लोक 7निर्धनः सततं कामी परदारेषु कोविदः ।धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥ 7 ॥
  8. श्लोक 8विक्रमेण परित्यक्तः सोत्साहो सत्यसंगरः ।अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥ 8 ॥
  9. श्लोक 9सुतसौभाग्य सम्पन्नो धनी मानी दयान्वितः ।धर्मस्थाने स्थिते धूमे धर्मवान्‌ बन्धुवत्सलः ॥ 9 ॥
  10. श्लोक 10सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान्‌ सुखी ।कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ 10 ॥
  11. श्लोक 11धनधान्य हिरण्याढ्यो रूपवांश्च कलान्वितः ।धूमे लाभगते चैव विनीतो गीतकोविदः ॥ 11 ॥
  12. श्लोक 12पतितः पापकर्मा च धूमे द्वादश संगते ।परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ 12 ॥
  13. श्लोक 13लग्नगे व्यतिपाते तु जातो दुःखनिपीडितः ।क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥ 13 ॥
  14. श्लोक 14जिह्मोऽतिपित्तवान्‌ भोगी धनस्थे पातसंज्ञके ।निर्घृणश्चाकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥ 14 ॥
  15. श्लोक 15स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः ।सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः ॥ 15 ॥
  16. श्लोक 16बन्धव्याधिसमायुक्तः सुतसौभाग्य वर्जितः ।चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥ 16 ॥
  17. श्लोक 17दरिद्रो रूपसंयुक्तः पाते पंचमगे सति ।कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥ 17 ॥
  18. श्लोक 18शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च ग्राहकः ।कलासु निपुणः शान्तः पाते शत्रुगते सति ॥ 18 ॥
  19. श्लोक 19धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः ।पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥ 19 ॥
  20. श्लोक 20विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः ।मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥ 20 ॥
  21. श्लोक 21बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः ।धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥ 21 ॥
  22. श्लोक 22सश्रीको धर्मकृच्छान्तो धर्मकार्येषु कोविदः ।कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥ 22 ॥
  23. श्लोक 23प्रभूतधनवान्‌ मानी सत्यवादी दृढव्रतः ।अश्वाढ्यो गीतसंसक्तः पाते लाभगते सति ॥ 23 ॥
  24. श्लोक 24कोपी च बहुक्रियो व्यङ्गोधर्मस्य दूषकः ।व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥ 24 ॥
  25. श्लोक 25विद्वान्‌ सत्यरतः शान्तो धनवान्‌ पुत्रवान्‌ शुचिः ।परिधौ तनुगे दाता जायते गुरुवत्सलः ॥ 25 ॥
  26. श्लोक 26ईश्वरो रूपवान्‌ भोगी सुखी धर्मपरायणः ।धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥ 26 ॥
  27. श्लोक 27स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः ।तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥ 27 ॥
  28. श्लोक 28परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम्‌ ।अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम्‌ ॥ 28 ॥
  29. श्लोक 29लक्ष्मीवान्‌ शीलवान्‌ कान्तः प्रियवाक्‌ धर्मवत्सलः ।पंचमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥ 29 ॥
  30. श्लोक 30भक्तोऽर्थपुत्रवान्‌ भोगी सर्वसत्वहिते रतः ।परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥ 30 ॥
  31. श्लोक 31स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः ।परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥ 31 ॥
  32. श्लोक 32अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः ।धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥ 32 ॥
  33. श्लोक 33पुत्रान्वितः सुखी कान्तो धनाढ्यो लौल्यवर्जितः ।परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥ 33 ॥
  34. श्लोक 34कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः ।परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥ 34 ॥
  35. श्लोक 35स्त्रीभोगी गुणवांश्चैव मतिमान्‌ सर्वजनप्रियः ।लाभगे परिधौ जातो मन्दाग्निरुपपद्यते ॥ 35 ॥
  36. श्लोक 36व्ययस्थे परिधौ जातो व्ययकृत्‌ मानवः सदा ।दुःखभाग्‌ दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥ 36 ॥
  37. श्लोक 37धनधान्य हिरण्याढ्यः कृतज्ञः सम्मतः सताम्‌ ।सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥ 37 ॥
  38. श्लोक 38प्रियंवदः प्रगल्भाढ्यो विनीतो विद्ययान्वितः ।धनस्थे चापखेटे च रूपवान्‌ धर्मतत्परः ॥ 38 ॥
  39. श्लोक 39कृपणोऽति कलाभिज्ञश्चौर्यकर्मरतः सदा ।सहजे धनुषि प्राप्ते हीनांगो गतसौहृदः ॥ 39 ॥
  40. श्लोक 40सुखी गोधनधान्याद्यै राजसम्मानपूजितः ।कार्मुके सुखसंस्थे तु नीरोगो ननु जायते ॥ 40 ॥
  41. श्लोक 41रुचिमान् दीर्घदर्शी च देवभक्तः प्रियंवदः ।चापे पंचमगे जातो विवृद्धः सर्वकर्मसु ॥ 41 ॥
  42. श्लोक 42शत्रुहन्ताऽतिधूर्तश्च सुखी प्रीतिरुचिः शुचिः ।षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक्‌ ॥ 42 ॥
  43. श्लोक 43ईश्वरो गुणसम्पूर्णः शास्त्रविद्‌ धार्मिकः प्रियः ।चापे सप्तमभावस्थे भवतीति न संशयः ॥ 43 ॥
  44. श्लोक 44परकर्मरतः क्रूरः परदारपरायणः ।अष्टमस्थानगे चापे जायते विकलांगकः ॥ 44 ॥
  45. श्लोक 45तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः ।धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥ 45 ॥
  46. श्लोक 46बहुपुत्र धनैश्वर्यो गोमहिष्यादिमान्‌ भवेत्‌ ।कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥ 46 ॥
  47. श्लोक 47लाभगे चापखेटे च लाभयुक्तो भवेन्नरः ।नीरोगो दृढकोपाग्निर्मन्त्रस्त्री परमास्त्रवित्‌ ॥ 47 ॥
  48. श्लोक 48खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते ।चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥ 48 ॥
  49. श्लोक 49कुशलः सर्वविद्यासु सुखी वाङ्निपुणः प्रियः ।तनौ शिखिनिसंजातः सर्वकामान्वितो भवेत्‌ ॥ 49 ॥
  50. श्लोक 50वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे ।काव्यकृत्‌ पण्डितो मानी विनीतो वाहनान्वितः ॥ 50 ॥
  51. श्लोक 51कदर्यः क्रूरकर्ता च कृशांगो धनवर्जितः ।सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥ 51 ॥
  52. श्लोक 52रूपवान्‌ गुणसम्पन्नः सात्विकोऽपिश्रुतिप्रियः ।सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक्‌ ॥ 52 ॥
  53. श्लोक 53सुखीभोगी कलाविच्च पंचमस्थानगे ध्वजे ।युक्तिज्ञो मतिमान्‌ वाग्मी गुरुभक्तिसमन्वितः ॥ 53 ॥
  54. श्लोक 54मातृपक्षक्षयकरः शत्रुहा बहुबान्धवः ।रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥ 54 ॥
  55. श्लोक 55द्यूतक्रीडास्वभिरतः कामी भोगसमन्वितः ।ध्वजे तु सप्तमस्थाने वेश्यासु कृतसौहृदः ॥ 55 ॥
  56. श्लोक 56नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा ।मृत्युस्थाने ध्वजे प्राप्ते गतस्त्रीकः परैर्हतः ॥ 56 ॥
  57. श्लोक 57लिङ्गधारी प्रसन्नात्मा सर्वभूतहितेरतः ।धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ 57 ॥
  58. श्लोक 58सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः ।दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि नरः ॥ 58 ॥
  59. श्लोक 59नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः ।धनाढ्यः सुभगः शूरः सुयज्ञश्चातिकोविदः ॥ 59 ॥
  60. श्लोक 60पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः ।परदाररतो रौद्रः शिखिनि व्ययगे सति ॥ 60 ॥
  61. श्लोक 61रोगार्तः सततं कामी पापात्माधिगतः शठः ।तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥ 61 ॥
  62. श्लोक 62विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः ।धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥ 62 ॥
  63. श्लोक 63चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जन प्रियः ।सहजे गुलिके जातो मानवो राजपूजितः ॥ 63 ॥
  64. श्लोक 64रोगी सुखपरित्यक्तः सदा भवति पापकृत्‌ ।गुलिके सुखभावस्थे वातपित्ताधिको भवेत्‌ ॥ 64 ॥
  65. श्लोक 65विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः ।गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत्‌ ॥ 65 ॥
  66. श्लोक 66वीतशत्रुः सुपुष्टांगो रिपुस्थाने यमात्मजे ।सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥ 66 ॥
  67. श्लोक 67स्त्रीजितः पापकृज्जारः कृशांगो गतसौहृदः ।जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥ 67 ॥
  68. श्लोक 68क्षुधालुर्दुःखितः क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः ।रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥ 68 ॥
  69. श्लोक 69बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः ।गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥ 69 ॥
  70. श्लोक 70पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः ।दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥ 70 ॥
  71. श्लोक 71सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः ।लाभस्थे गुलिके जातो नीचांगः सार्वभौमिकः ॥ 71 ॥
  72. श्लोक 72नीचकर्माश्रितः पापो हीनांगो दुर्भगोऽलसः ।व्ययगे गुलिके जातो नीचेषु कुरुते रतिम्‌ ॥ 72 ॥
  73. श्लोक 73लग्ने प्राणपदे क्षीणो रोगी भवति मानवः ।मूकोन्मत्तो जडाङ्गस्तु हीनांगो दुःखितः कृशः ॥ 73 ॥
  74. श्लोक 74बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः ।धनस्थानस्थिते प्राणे सुभगो जायते नरः ॥ 74 ॥
  75. श्लोक 75हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः ।तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥ 75 ॥
  76. श्लोक 76सुखस्थे तु सुखी कान्तः सुहृद्रामासु वल्लभः ।गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥ 76 ॥
  77. श्लोक 77सुखभाग्‌ सुक्रियोपेतस्त्वपचार दयान्वितः ।पंचमस्थे प्राणपदे सर्वकामसमन्वितः ॥ 77 ॥
  78. श्लोक 78बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः ।षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥ 78 ॥
  79. श्लोक 79ईर्ष्यालुः सततं कामी तीव्र रौद्रवपुर्नरः ।सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान्‌ ॥ 79 ॥
  80. श्लोक 80रोगसन्तापितांगश्च प्राणपदेऽष्टमे सति ।पीडितः पार्थिवैर्दुःखैर्भृत्यबन्धुसमुद्भवैः ॥ 80 ॥
  81. श्लोक 81पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः ।प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥ 81 ॥
  82. श्लोक 82वीर्यवान्‌ मतिमान्‌ दक्षो नृपकार्येषु कोविदः ।दशमे वै प्राणपदे देवार्चनपरायणः ॥ 82 ॥
  83. श्लोक 83विख्यातो गुणवान्‌ प्राज्ञो भोगी धनसमन्वितः ।लाभस्थाने स्थिते प्राणे गौरांगो मातृवत्सलः ॥ 83 ॥
  84. श्लोक 84क्षुद्रो दुष्टस्तु हीनांगो विद्वेषी द्विजबन्धुषु ।व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ 84 ॥
  85. श्लोक 85इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर ! ।तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम्‌ ॥ 85 ॥
  86. श्लोक 86तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात्तथा ।बलाबल विवेकेन वक्तव्यानि शरीरिणाम्‌ ॥ 86 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।