अध्याय 27: पदाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 27 (Arudha Pad)

33 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1कथयाम्यथ भावानां खेटानां च पदं द्विज ।तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥ 1 ॥
  2. श्लोक 2लग्नाद्यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात्‌ ।ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥ 2 ॥
  3. श्लोक 3सर्वेषामपि भावानां ज्ञेयमेवं पदं द्विज ! ।तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥ 3 ॥
  4. श्लोक 4स्वस्थानं सप्तमं नैव पदं भवितुमर्हति ।तस्मिन्‌ पदत्वे सम्प्राप्ते मध्यं तुर्यं क्रमात्‌ पदम्‌ ॥ 4 ॥
  5. श्लोक 5यस्माद्यावतिथे राशौ खेटात्‌ तद्भवनं द्विज ! ।ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥ 5 ॥
  6. श्लोक 6द्विनाथद्विभयोरेवं व्यवस्था सबलावधि ।विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमपदादेकादशस्थाने ग्रहयुक्तेऽथवेक्षिते ।धनवान्‌ जायते बालस्तथा सुखसमन्वितः ॥ 7 ॥
  8. श्लोक 8कुंडली के 4 नियमशुभयोगात्‌ सुमार्गेण धनाप्तिः पापतोऽन्यथा ।मिश्रैर्मिश्रफलं ज्ञेयं स्वोच्चमित्रादि गेहगैः ।बहुधा जायते लाभो बहुधा च सुखागमः ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमपदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः ।राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमपदाल्लाभगृहं पश्येद्‌ व्ययं कश्चिन्न पश्यति ।अविघ्नेन तदा लाभो जायते द्विजसत्तम ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमग्रहदृग्योग बाहुल्ये पदादेकादशे द्विज ।सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥ 11 ॥
  12. श्लोक 12कुंडली के 2 नियमशुभग्रहार्गले विप्र ! तत्राप्युच्चग्रहार्गले ।शुभेन स्वामिना दृष्टे लग्नभाग्याधिपेन वा ॥ 12 ॥
  13. श्लोक 13कुंडली के 3 नियमजातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् ।उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमपदस्थानाद्व्यये भावे शुभपापयुतेक्षिते ।व्ययबाहुल्यमित्येवं विशेषोपार्जनात्‌ सदा ॥ 14 ॥
  15. श्लोक 15कुंडली के 3 नियमलाभअन्याय्यमार्गेण कुमार्गेण शुभाशुभैः ।मिश्रैर्मिश्रफलं वाच्यं विशेषः प्रोच्यतेऽधुना ॥ 15 ॥
  16. श्लोक 16कुंडली के 4 नियमपदारूढाद्व्यये शुक्रभानुस्वर्भानुभिर्युते ।राजमूलाद्‌ व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥ 16 ॥
  17. श्लोक 18कुंडली के 2 नियमतथैव सूर्यपुत्रे वै धरापुत्रेण संयुते ।भ्रातृवर्गाद्भवेन्नूनं धनानां निर्गमो मुने ॥ 18 ॥
  18. श्लोक 19कुंडली के 5 नियमपदाद्‌ व्यये व्ययप्रदा ये योगाः परिकीर्तिताः ।ते एवैकादशे स्थाने लाभयोगकराः मताः ॥ 19 ॥
  19. श्लोक 20कुंडली के 2 नियमआरूढात्‌ सप्तमे राहुरथवा संस्थितः शिखी ।कुक्षिव्यथायुतो बालः शिखिना पीडितोऽथवा ॥ 20 ॥
  20. श्लोक 21कुंडली के 2 नियमआरूढात्‌ सप्तमे केतुः पापखेटयुतेक्षितः ।साहसी श्वेतकेशी च वृद्धलिंगी भवेन्नरः ॥ 21 ॥
  21. श्लोक 22कुंडली के 2 नियमपदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः ।त्रयो द्वयमथैकोऽपि लक्ष्मीवांजायते नरः ॥ 22 ॥
  22. श्लोक 23कुंडली के 2 नियमस्वतुंगे सप्तमे खेटः शुभो वाप्यशुभः पदात्‌ ।श्रीमान्‌ सोऽपि भवेन्नूनं सत्कीर्तिसहितो द्विज ॥ 23 ॥
  23. श्लोक 24कुंडली के 4 नियमये योगाः सप्तमे स्थाने पदाच्च कथिता मया ।चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥ 24 ॥
  24. श्लोक 25कुंडली के 1 नियमउच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा ।एको बली धनगतः श्रियं दिशति देहिनाम्‌ ॥ 25 ॥
  25. श्लोक 26ये योगाश्च पदे लग्ने यथावद्‌ गदिता मया ।ते योगाः कारकांशेऽपि विज्ञेया बाधवर्जिताः ॥ 26 ॥
  26. श्लोक 27कुंडली के 2 नियमआरूढात्‌ वित्तगे सौम्ये सर्वदेशाधिपो भवेत्‌ ।सर्वज्ञो यदि वा स स्यात्‌ कविर्वादी च भार्गवे ॥ 27 ॥
  27. श्लोक 28कुंडली के 1 नियमआरूढात् केन्द्रकोणेषु स्थिते दारपदे द्विज ।लग्नजायापदे वापि सबलग्रहसंयुते ॥ 28 ॥
  28. श्लोक 29कुंडली के 2 नियमश्रीमांश्च जायते नूनं देशे विख्यातिमान्‌ भवेत्‌ ।षष्ठेऽष्टमे व्ययस्थाने जातोदारपदेऽधनः ॥ 29 ॥
  29. श्लोक 30कुंडली के 1 नियमपदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके ।सुवीर्यः संस्थितः खेटः भार्याभर्तृसुखप्रदः ॥ 30 ॥
  30. श्लोक 31कुंडली के 2 नियमपदाद्‌ दारपदे चैवं केन्द्रे कोणे च संस्थिते ।द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥ 31 ॥
  31. श्लोक 32कुंडली के 2 नियमएवं लग्नपदाद्‌ विप्र ! तनयादि पदे स्थिते ।मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥ 32 ॥
  32. श्लोक 33कुंडली के 1 नियमलग्नदारपदे विप्र ! मिथः केन्द्रगते यदि ।त्रिलाभयोस्त्रिकोणे वा तदा राजा धराधिपः ॥ 33 ॥
  33. श्लोक 34एवं लग्नपदादेव धनादि पदतो द्विज ।स्थानद्वयं समालोच्य जातकस्य फलं वदेत्‌ ॥ 34 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।