अध्याय 28: उपपदाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 28 (Upapad)
42 श्लोक
- श्लोक 1अथोपपदमाश्रित्य कथयामि फलं द्विज ! ।यच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥ 1 ॥
- श्लोक 2तनुभावपदं विप्र ! प्रधानं पदमुच्यते ।तनोरनुचराद्यत् स्यादुपारूढं प्रचक्षते ॥ 2 ॥
- श्लोक 3कुंडली के 1 नियमतदेवोपपदं नाम तथा गौणपदं मतम् ।शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥ 3 ॥
- श्लोक 4कुंडली के 1 नियमपुत्रदारसुखं पूर्णं जायते जातकस्य वै ।पापग्रहयुते तत्र पापभे पापवीक्षिते ॥ 4 ॥
- श्लोक 5प्रव्राजको भवेज्जातो दारहीनोऽथवा नरः ।शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥ 5 ॥
- श्लोक 6रविर्नैवात्रपापः स्यात् स्वोच्चमित्रस्वभस्थितः ।नीचशत्रुगृहस्थश्चेत्तदा ऽसौपाप एव हि ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमशुभग्रहाणां दृष्टिश्चेदुपारूढाद्द्वितीयके ।शुभर्क्षे शुभसंयुक्ते पूर्वोक्तं हि फलं मतम् ॥ 7 ॥
- श्लोक 8उपारूढाद् द्वितीये च नीचांशे नीचखेटयुक् ।क्रूरग्रहसमायुक्ते जातको दारहा भवेत् ॥ 8 ॥
- श्लोक 9स्वोच्चांशे स्वोच्चसंस्थे वा तुंगदृष्टिवशात् तथा ।भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥ 9 ॥
- श्लोक 10उपारूढे द्वितीये वा मिथुने संस्थिते सति ।तत्र जातनरो विप्र ! बहुदारयुतो भवेत् ॥ 10 ॥
- श्लोक 11उपारूढे द्वितीयेऽपि स्वस्वामिग्रह संयुते ।स्वर्क्षगे तत्पतौ वापि यत्रकुत्रापि संस्थिते ॥ 11 ॥
- श्लोक 12यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम ! ।उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमउपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथवा ।सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमउपारूढे द्वितीये वा शुभसम्बन्धतो द्विज ! ।जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥ 14 ॥
- श्लोक 15उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि ।अपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥ 15 ॥
- श्लोक 16उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ ।रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ 16 ॥
- श्लोक 17बुधकेतू स्थितौ तत्र तदास्थिस्रावसंयुता ।तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥ 17 ॥
- श्लोक 18स्थूलांगी बुधराहुभ्यां तत्रस्थाभ्यां द्विजोत्तम ! ।बुधक्षेत्रे कुजार्की चेन्नासिकारोगपीडिता ॥ 18 ॥
- श्लोक 19कुजक्षेत्रेप्येवमेव फलं ज्ञेयं स्त्रियां द्विज ! ।बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥ 19 ॥
- श्लोक 20तत्रान्यगेहगौ विप्र ! बुधभौमौ स्थितौ यदा ।यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥ 20 ॥
- श्लोक 21शनिराहू शनिक्षेत्रे पंगुर्वातरुजान्विता ।शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥ 21 ॥
- श्लोक 22लग्नात् पदादुपारूढाद् यो राशिः सप्तमो भवेत् ।तत्स्वामिनस्तदंशाच्च तदृक्षाच्च बुधैः सदा ॥ 22 ॥
- श्लोक 23एवमेव फलं ज्ञेयमित्याहुर्नारदादयः ।उक्तेभ्यो नवमे विप्र ! शनि चन्द्रबुधा यदि ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमअपुत्रता तथार्केज्यराहुभिर्बहुपुत्रता ।चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमरवीज्यराहुयोगेन पुत्रो वीर्यप्रतापवान् ।प्रचण्डविजयी विप्र ! रिपुनिग्रहकारकः ॥ 25 ॥
- श्लोक 26उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते ।दत्तपुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥ 26 ॥
- श्लोक 27तत्रस्थे विषमे राशौ बहुपुत्रयुतो भवेत् ।स्वल्पापत्यः समेराशौ जायते द्विजसत्तम ॥ 27 ॥
- श्लोक 28सिंहे चोपपदे विप्र ! निशानाथयुतेक्षिते ।अल्पप्रजोऽथ कन्यायां जातः कन्या प्रजो भवेत् ॥ 28 ॥
- श्लोक 29सुतभावनवांशाच्च स्थिरसन्ततिकारकात् ।एवं त्रिंशांश कुण्डल्यामपियोगं विचिन्तयेत् ॥ 29 ॥
- श्लोक 30शनिराहू त्रिलाभस्थौ पदाद् भ्रातृविनाशकौ ।ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥ 30 ॥
- श्लोक 31दैत्येज्ये तत्र गर्भस्य नाशो व्यवहितस्य च ।लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥ 31 ॥
- श्लोक 32तथैव फलमित्याहुर्निर्विशंकं मुनीश्वराः ।तृतीयलाभयोर्विप्र ! चन्द्रेज्यबुधमंगलाः ॥ 32 ॥
- श्लोक 33बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः ।शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥ 33 ॥
- श्लोक 34कनिष्ठज्येष्ठयोर्नाशो विज्ञेयो द्विजसत्तम ! ।शनिरेको यदा तत्र लाभगो वा तृतीयगः ॥ 34 ॥
- श्लोक 35तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः ।तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥ 35 ॥
- श्लोक 36आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते ।शुभसम्बन्धरहिते चौरो भवति जातकः ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमसप्तमे द्वादशे स्थाने सैंहिकेययुतेक्षिते ।ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतस्तथा ॥ 37 ॥
- श्लोक 38कुंडली के 3 नियमआरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् ।सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमउपारूढात् पदाद् वापि धनस्थे शुभखेचरे ।सर्वद्रव्याधिपो धीमांजायते मानवः सदा ॥ 39 ॥
- श्लोक 40उपारूढाद्धनाधीशे द्वितीयभवनस्थिते ।पापखेचरसंयुक्ते चौरो भवति जातकः ॥ 40 ॥
- श्लोक 41कुंडली के 2 नियमतत्सप्तमगृहाधीशाद् राहौ धनगते द्विज ! ।दंष्ट्रावान् जायते जातः स्तब्धवाक् केतु खेचरे ॥ 41 ॥
- श्लोक 42कुंडली के 1 नियमशनैश्चरे कुरूपः स्यात् सप्तमेशाद् द्वितीयगे ।मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥ 42 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।