अध्याय 29: अर्गलाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 29 (Argala Phal)

18 श्लोक

  1. श्लोक 1भगवन्‌ ! यार्गला प्रोक्ता शुभदा भवताधुना ।तामहं श्रोतुमिच्छामि सलक्षणफलां मुने ॥ 1 ॥
  2. श्लोक 2मैत्रेय सार्गला नाम यया भावफलं दृढम् ।स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमचतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला ।तद्बाधकाः क्रमात् खेटा व्योमरिःफतृतीयगाः ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमनिर्बला न्यून संख्या वा बाधका नैव सम्मताः ।तृतीये त्वधिकाः पापा यत्र मैत्रेय ! बाधकाः ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमतथापि चार्गला ज्ञेया विपरीता द्विजोत्तम ! ।तथापि खेटभावानां फलमर्गलितं विदुः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमपंचमं चार्गलास्थानं नवमं तद्विरोधकृत्‌ ।तमो ग्रहभवा सा च व्यत्ययाज्‌ ज्ञायते बुधैः ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमएकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा मता ।त्रयादिखेटकृता सा च कथिता सार्गलोत्तमा ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमराशितो ग्रहतश्चापि विज्ञेया द्विविधार्गला ।निर्बाधिका सुफलदा विफला बाधिता स्मृता ॥ 8 ॥
  9. श्लोक 9यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा ।तस्मिन्‌ काले फलं ज्ञेयं निश्चलं धीमता सदा ॥ 9 ॥
  10. श्लोक 10अर्गलां प्रतिबन्धं च प्रथमांघ्रिचतुर्थयोः ।द्वित्र्यंघ्र्योश्च मिथो विप्र ! चिन्तयेदिति मे मतिः ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमपदे लग्ने मदे वापि निराभासार्गला यदा ।तदाजातोऽतिविख्यातो बहुभाग्ययुतो भवेत्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमयस्य पापः शुभो वापि ग्रहस्तिष्ठेच्छुभार्गले ।तेन दृष्टेक्षितं लग्नं प्राबल्यायोपकल्प्यते ॥ 12 ॥
  13. श्लोक 13कुंडली के 2 नियमसार्गले च धने विप्र ! धनधान्य समन्वितः ।तृतीये सोदरादीनां सुखमुक्तं महर्षिभिः ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियमचतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः ।पंचमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः ॥ 14 ॥
  15. श्लोक 15कुंडली के 4 नियमषष्ठे रिपुभयं कामे धनदारसुखं बहु ।अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् ॥ 15 ॥
  16. श्लोक 16कुंडली के 3 नियमदशमे राजसम्मानं लाभे लाभसमन्वितः ।सार्गले च व्यये विप्र ! व्ययाधिक्यं प्रजायते ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमशुभार्गलायां विप्रेन्द्र ! सौख्यं बहुविधं भवेत्‌ ।मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमलग्न पंचम भाग्येषु सार्गलेषु द्विजोत्तम ! ।जातश्च जायते राजा भाग्यवान्‌ नात्र संशयः ॥ 18 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।