अध्याय 30: कारकाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 30 (Karak)
34 श्लोक
- श्लोक 1अथाहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् ।सप्त रव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥ 1 ॥
- श्लोक 2अंशैः समौ ग्रहौ द्वौ चेत् राह्वन्तान् गणयेद् द्विज ! ।सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥ 2 ॥
- श्लोक 3आत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः ।अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥ 3 ॥
- श्लोक 4अंशाधिकः कारकः स्यादल्पांशो ह्यन्त्यकारकः ।मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि ॥ 4 ॥
- श्लोक 5विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ।अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति ॥ 5 ॥
- श्लोक 6आत्मकारकस्तेषु प्रधानं कथ्यते बुधैः ।स एव जातकाधीशो बन्धकृन्मोक्षकृत्तथा ॥ 6 ॥
- श्लोक 7यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ।सर्ववार्ताधिकारी स विज्ञेयो द्विजसत्तम ॥ 7 ॥
- श्लोक 8यथा राजाज्ञया विप्र ! पुत्रामात्यादयो जनाः ।प्रवृत्ताः निजकार्येषु तथैवान्येऽपि कारकाः ॥ 8 ॥
- श्लोक 9आत्मानुकूलमेवात्र भवन्ति फलदायकाः ।प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥ 9 ॥
- श्लोक 10कार्यं कर्तुं मनुष्याणां न समर्था तथैव हि ।प्रधानकारके क्रूरे नान्ये स्वशुभदायकाः ॥ 10 ॥
- श्लोक 11अनुकूले नृपे तद्वत् सर्वेऽमात्यादयो द्विज ! ।नाशुभं कुर्वते नृणां न ते पापफलप्रदाः ॥ 11 ॥
- श्लोक 12आत्मकारकभागेभ्यो न्यूनांशोऽमात्यकारकः ।तस्मान्न्यूनांशको भ्राता तन्न्यूनो मातृसंज्ञकः ॥ 12 ॥
- श्लोक 13तन्न्यूनांशः पिता तस्मादल्पांशः पुत्रकारकः ।पुत्रन्यूनांशको ज्ञातिस्तन्न्यूनो दारकारकः ॥ 13 ॥
- श्लोक 14चराख्यकारका एते ब्रह्मणा कथिताः पुरा ।मातृकारकमेवान्ये वदन्ति सुतकारकम् ॥ 14 ॥
- श्लोक 15द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ।तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम ॥ 15 ॥
- श्लोक 16स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाशुभम् ।अधुना सम्प्रवक्ष्यामि स्थिरान् कारकान् मुने ॥ 16 ॥
- श्लोक 17स पितृकारको ज्ञेयः बली यो रविशुक्रयोः ।चन्द्रारयोर्बलीखेटो मातृकारक उच्यते ॥ 17 ॥
- श्लोक 18भौमतो भगिनीश्यालः कनीयान् जननी तथा ।बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः ॥ 18 ॥
- श्लोक 19गुरोः पितामहः शुक्रात् पतिः पुत्रः शनैश्चरात् ।विप्रान्तेवासिनः पत्नी पितरौ श्वसुरौ तथा ॥ 19 ॥
- श्लोक 20मातामहादयश्चिन्त्या एते च स्थिरकारकाः ।अथाहं कारकान् वक्ष्ये खेटभाववशाद् द्विज ॥ 20 ॥
- श्लोक 21रवितः पुण्यभे तातश्चन्द्रान्माता चतुर्थके ।कुजात् तृतीयतो भ्राता बुधात्षष्ठे च मातुलः ॥ 21 ॥
- श्लोक 22देवेज्यात् पंचमात् पुत्रो दाराः शुक्राच्च सप्तमे ।मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् ॥ 22 ॥
- श्लोक 23अथाहं सम्प्रवक्ष्यामि प्रसंगाद्योगकारकान् ।खेटान् जन्मनि जातस्य मिथः स्थितिवशाद् द्विज ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमस्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः ।ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमयथा लग्ने सुखे कामे स्वर्क्षोच्चस्था ग्रहा द्विज ।भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमस्वोच्चमित्रर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः ।सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥ 26 ॥
- श्लोक 27कुंडली के 2 नियमनीचान्वयेऽपि यो जातः विद्यमाने च कारके ।सोऽपि राजसमो विप्र ! धनवान् सुखसंयुतः ॥ 27 ॥
- श्लोक 28कुंडली के 2 नियमराजवंशसमुत्पन्नो राजा भवति निश्चयात् ।एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥ 28 ॥
- श्लोक 29अथाहं सम्प्रवक्ष्यामि विशेषान् भावकारकान् ।जातस्य जन्मलग्नं यत् तद् विन्द्यादात्मकारकम् ॥ 29 ॥
- श्लोक 30धनभावं विजानीयाद् दारकारकमेव हि ।एकादशेऽग्रजातस्य तृतीये च कनीयसः ॥ 30 ॥
- श्लोक 31सुते सुतं विजानीयात् तथा सप्तमभावतः ।सुतभावे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥ 31 ॥
- श्लोक 33पुनस्तन्वादयो भावाः स्थाप्यास्तेषां शुभाऽशुभम् ।लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञकधनव्ययाः ॥ 33 ॥
- श्लोक 34एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम ! ।एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥ 34 ॥
- श्लोक 35भावा भद्राश्च केन्द्राख्या कोणाख्यौ द्विजसत्तम ! ।एषां संयोगमात्रेण ह्यशुभोऽपि शुभो भवेत् ॥ 35 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।