अध्याय 31: कारकांशफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 31 (Karakamsha Phal)
76 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1कुंडली के 1 नियमगृहे मूषकमार्जारा मेषांशे ह्यात्मकारके ।सदा भयप्रदा विप्र ! पापयुक्ते विशेषतः ॥ 1 ॥
- श्लोक 2कुंडली के 2 नियमवृषांशकगते स्वांशे सुखदाश्च चतुष्पदाः ।मिथुनांशगते तस्मिन् कण्ड्वादि व्याधिसंयुतः ॥ 2 ॥
- श्लोक 3कुंडली के 3 नियमकर्कांशे च जलाद् भीतिः सिंहांशे श्वापदाद्भयम् ।कण्डूः स्थौल्यं च कन्यांशे तथा वह्निकणाद् भयम् ॥ 3 ॥
- श्लोक 4कुंडली के 2 नियमतुलांशे च वणिक्जातो वस्त्रादिनिर्मितौ पटुः ।अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ॥ 4 ॥
- श्लोक 5कुंडली के 2 नियमधनुरंशे क्रमादुच्चात् पतनं वाहनादपि ।मकरांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ॥ 5 ॥
- श्लोक 6कुंडली के 2 नियमशंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः ।कुम्भांशे च तडागादि कारको जायते जनः ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियममीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम ।नाशुभं शुभसंदृष्टे न शुभं पापवीक्षिते ॥ 7 ॥
- श्लोक 8कारकांशे शुभे विप्र ! लग्नांशे च शुभग्रहे ।शुभसंवीक्षितो राजा जातो भवति निश्चितः ॥ 8 ॥
- श्लोक 9कुंडली के 2 नियमस्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः ।धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेत् ॥ 9 ॥
- श्लोक 10उपग्रहे च विप्रेन्द्र ! स्वोच्चस्वर्क्षशुभर्क्षगे ।पापदृग्रहिते चान्त्ये कैवल्यं तस्य निर्दिशेत् ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमकारकांशे रवौ जातो राजकार्यपरो द्विज ! ।पूर्णेन्दौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमस्वांशे बलयुते भौमे जातः कुन्तायुधी भवेत् ।वह्निजीवी नरो वापि रसवादी च जायते ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमबुधे बलयुते स्वांशे कलाशिल्पविचक्षणः ।वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः ॥ 13 ॥
- श्लोक 14कुंडली के 2 नियमसुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ ।शुक्रे शतेन्द्रियः कामी राजकीयो भवेन्नरः ॥ 14 ॥
- श्लोक 15कुंडली के 2 नियमशनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् ।राहौ चौरश्च धानुष्को जातो वा लोहयन्त्रकृत् ॥ 15 ॥
- श्लोक 16कुंडली के 2 नियमविषवैद्योऽथवा विप्र ! जायते नात्र संशयः ।व्यवहारी गजादीनां केतौ चौरश्च जायते ॥ 16 ॥
- श्लोक 17कुंडली के 2 नियमरविराहू यदा स्वांशे सर्पाद्भीतिः प्रजायते ।शुभदृष्टौ भयं नैव पापदृष्टौ मृतिर्भवेत् ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमशुभषड्वर्गसंयुक्तौ विषवैद्यो भवेत् तदा ।भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥ 18 ॥
- श्लोक 19कुंडली के 2 नियमअन्ये यदा न पश्यन्ति स्ववेश्मपरदाहकः ।तस्मिन् बुधेक्षिते चापि वह्निदो नैव जायते ॥ 19 ॥
- श्लोक 20कुंडली के 2 नियमपापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः ।शुक्रदृष्टे तु विप्रेन्द्र ! गृहदाहो न जायते ॥ 20 ॥
- श्लोक 21गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते ।चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् ॥ 21 ॥
- श्लोक 22ग्रहादृष्टे सगुलिके विषदो वा विषैर्हतः ।बुधदृष्टे बृहद्बीजो जायते मानवो द्विज ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमसकेतौ कारकांशे च पापदृष्टे द्विजोत्तम ! ।जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते ॥ 23 ॥
- श्लोक 24कुंडली के 2 नियमभृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः ।बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् ॥ 24 ॥
- श्लोक 25बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते ।पुनर्भवासुतो वापि सर्वं द्विरभिभाषते ॥ 25 ॥
- श्लोक 26कुंडली के 2 नियमतपस्वी शनिना दृष्टे जातः प्रेष्योऽथवा भवेत् ।शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् ॥ 26 ॥
- श्लोक 27कुंडली के 1 नियमरविशुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् ।इति संक्षेपतः प्रोक्तं कारकांशफलं मया ॥ 27 ॥
- श्लोक 28स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः ।तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमकेतौ तत्प्रतिबन्धः स्याद् गुरौ तु स्त्रैण एव सः ।राहौ चार्थनिवृत्तिः स्यात्कारकांशात् द्वितीयगे ॥ 29 ॥
- श्लोक 30कुंडली के 2 नियमस्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् ।तस्मिन् शुभग्रहे जाते जातः कातरो भवेत् ॥ 30 ॥
- श्लोक 31कुंडली के 1 नियमस्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते ।तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ॥ 31 ॥
- श्लोक 32कुंडली के 3 नियमशनिराहुयुते तस्मिन् जातस्य च शिलागृहम् ।ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ॥ 32 ॥
- श्लोक 33कुंडली के 2 नियमतार्णं तु रविणा प्रोक्तं जातस्य भवनं द्विज ।चन्द्रे त्वनावृते देशे पत्नीयोगः प्रजायते ॥ 33 ॥
- श्लोक 34कुंडली के 2 नियमपंचमे कुजराहुभ्यां क्षयरोगस्य संभवः ।रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ॥ 34 ॥
- श्लोक 35कुंडली के 2 नियमकुजयोगे तु जातस्य पिटकादिगदो भवेत् ।केतुयोगे तु ग्रहणी जलरोगोऽथवा द्विज ॥ 35 ॥
- श्लोक 36कुंडली के 1 नियमसराहुगुलिके तत्र भयं क्षुद्रविषोद्भवम् ।बुधे परमहंसश्च लगुडी वा प्रजायते ॥ 36 ॥
- श्लोक 37कुंडली के 4 नियमरवौ खड्गधरो जातः कुजे कुन्तायुधी भवेत् ।शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ॥ 37 ॥
- श्लोक 38कुंडली के 2 नियमकेतौ च घटिकायन्त्री मानवो जायते द्विज ! ।भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ॥ 38 ॥
- श्लोक 39कुंडली के 3 नियमस्वांशे तत्पंचमे वापि चन्द्रेज्याभ्यां च ग्रन्थकृत् ।शुक्रेण किंचिदूनोऽसौ ततोऽप्यल्पो बुधेन तु ॥ 39 ॥
- श्लोक 40कुंडली के 1 नियमगुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा ।वेदवेदान्तविच्चापि न वाग्मी शाब्दिकोऽपि सन् ॥ 40 ॥
- श्लोक 41कुंडली के 4 नियमनैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा ।सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ॥ 41 ॥
- श्लोक 42कुंडली के 3 नियमचन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ।केतुना गणितज्ञोऽसौ राहुणाऽपि तथैव च ॥ 42 ॥
- श्लोक 43सम्प्रदायस्य सिद्धिः स्यात् गुरुसम्बन्धतो द्विज ।स्वांशाद् द्वितीये केचित् फलमेवं वदन्ति हि ॥ 43 ॥
- श्लोक 44कुंडली के 2 नियमस्वांशात् षष्ठगते पापे कर्षको जायते जनः ।शुभग्रहेऽलसश्चेति तृतीयेऽपि समं फलम् ॥ 44 ॥
- श्लोक 45कुंडली के 3 नियमद्यूने चन्द्रगुरू स्वांशात् भार्या तस्यातिसुन्दरी ।तत्र कामवती शुक्रे, बुधे चैव कलावती ॥ 45 ॥
- श्लोक 46कुंडली के 2 नियमरवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका ।तपस्विनी रुजाढ्या वा राहौ च विधवा स्मृता ॥ 46 ॥
- श्लोक 47कुंडली के 1 नियमएवमेव कुजे द्यूने विकलांगी भवेद् द्विज ! ।कारकांशाच्च नवमे शुभग्रहयुतेक्षिते ॥ 47 ॥
- श्लोक 48कुंडली के 2 नियमसत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ।स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते ॥ 48 ॥
- श्लोक 49कुंडली के 2 नियमस्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ।नवमे कारकांशाच्च शनिराहुयुतेक्षिते ॥ 49 ॥
- श्लोक 50कुंडली के 2 नियमगुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ।नवमे गुरु सूर्याभ्यां गुरुवाक्यं न मन्यते ॥ 50 ॥
- श्लोक 51कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते ।षड्वर्गादिकयोगे तु मरणं पारदारिकम् ॥ 51 ॥
- श्लोक 52ज्ञेन्दुयुक्तेक्षिते भावे परस्त्रीबन्धको भवेत् ।केवलेनैव गुरुणा जातः स्त्रैणो भवेद् ध्रुवम् ॥ 52 ॥
- श्लोक 53नवमे कारकांशाच्च राहोर्दृग्योगसंयुते ।परस्त्रीसंगमाद् बालः सर्वसम्पत्क्षयंकरः ॥ 53 ॥
- श्लोक 55कुंडली के 2 नियमव्यापारे बहुलाभश्च प्रसिद्धाजीविकः बुधे ।दशमे कारकांशाच्च पापखेटयुतेक्षिते ॥ 55 ॥
- श्लोक 56कुंडली के 1 नियमव्यापारे जायते हानिः पितृसौख्येन वर्जितः ॥ 56 ॥
- श्लोक 57कुंडली के 2 नियमअस्थिरधीस्ततो बालो रविचन्द्रयुतेक्षिते ।गुरुदृष्टयुते जातः राजयोगी भवेद् ध्रुवम् ॥ 57 ॥
- श्लोक 58कुंडली के 1 नियमकेवलेनैव सूर्येण गुरुमात्रेक्षितेन च ।गोपो बहुगवधनो भवेज्जातः सुनिश्चितम् ॥ 58 ॥
- श्लोक 59कुंडली के 1 नियमकारकांशात् सुते पुण्ये पापखेटद्वये द्विज ! ।मानवस्तन्त्रमन्त्रज्ञो जायते नात्र संशयः ॥ 59 ॥
- श्लोक 60कुंडली के 2 नियमपापेन वीक्षिते तत्र जातो निग्राहको भवेत् ।शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ॥ 60 ॥
- श्लोक 61कुंडली के 2 नियमशुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः ।बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ॥ 61 ॥
- श्लोक 62कुंडली के 2 नियमशुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः ।भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ॥ 62 ॥
- श्लोक 63कुंडली के 2 नियमकेतुदृष्टे सुखे चन्द्रे नीलकुष्ठी प्रजायते ।केतौ स्वांशाद् द्वितीये वा मूको वा स्तब्धवाग् भवेत् ॥ 63 ॥
- श्लोक 64कुंडली के 2 नियमपापदृष्टे विशेषेण मानवो वक्तुमक्षमः ।कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहैः ॥ 64 ॥
- श्लोक 65कुंडली के 2 नियमसद्गतिर्जायते तस्य शुभलोकमवाप्नुयात् ।कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते ॥ 65 ॥
- श्लोक 66कुंडली के 2 नियमतदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ।मीने कर्कटके केतौ शुभदृष्टे विशेषतः ॥ 66 ॥
- श्लोक 67कुंडली के 1 नियमव्यये च केवले केतौ पापयुक्तेक्षितेऽपि वा ।न तदा जायते मुक्तिः शुभलोकं न पश्यति ॥ 67 ॥
- श्लोक 68कुंडली के 1 नियमरविणा संयुते केतौ कारकांशाद् व्ययस्थिते ।शिवभक्तिर्भवेत्तस्य निर्विशंकं द्विजोत्तम ॥ 68 ॥
- श्लोक 69कुंडली के 2 नियमचन्द्रेण संयुते भावे गौर्यां भक्तिं वदेद् बुधः ।शुक्रेण चान्विते तत्र लक्ष्म्यां वै भक्तिमान्नरः ॥ 69 ॥
- श्लोक 70कुंडली के 3 नियमकुजे तत्रगते नूनं स्कन्दभक्तः प्रजायते ।वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ॥ 70 ॥
- श्लोक 71कुंडली के 2 नियमराहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् ।केतुना केवलेनैव स्कन्दे हेरम्बकेऽथवा ॥ 71 ॥
- श्लोक 72कुंडली के 1 नियमकारकांशाद्व्यये सौरिः पापराशौ यदा भवेत् ।तदापि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥ 72 ॥
- श्लोक 73कुंडली के 1 नियमशुक्रे पापगते चापि क्षुद्रदेवस्य सेवकः ।अमात्यकारकात् षष्ठेऽप्येवमेव फलं वदेत् ॥ 73 ॥
- श्लोक 74कुंडली के 1 नियमस्वांशाल्लग्नात्पदाद्वापि द्वितीयाष्टम भावयोः ।केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः ॥ 74 ॥
- श्लोक 75यथा स्वांशात्फलं प्रोक्तं तनुपंचमभावतः ।तथा द्वितीये सहजे योज्यमेके वदन्ति हि ॥ 75 ॥
- श्लोक 76अत्राध्याये च ये योगाः सफलाः कथिता मया ।योगकर्तृदशायां ते सर्वे ज्ञेयाः फलप्रदाः ॥ 76 ॥
- श्लोक 77एवं तन्वादिभावानां खेटानां च विपश्चिता ।फलं तत्तद्दशायां तु योज्यं सम्यक् बलाबलात् ॥ 77 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।