अध्याय 32: योगकारकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 32 (Yogkarak)

38 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1कारकांशवशादेवं फलं प्रोक्तं मया द्विज ।अथ भावाधिपत्येन ग्रहयोगफलं शृणु ॥ 1 ॥
  2. श्लोक 2केन्द्राधिपतयः सौम्या न दिशन्ति शुभं फलम्‌ ।क्रूरा नैवाशुभं कुर्युः शुभदाश्च त्रिकोणपाः ॥ 2 ॥
  3. श्लोक 3लग्नं केन्द्रत्रिकोणत्वाद्‌ विशेषेण शुभप्रदम्‌ ।पंचमं नवमं चैव विशेषधनमुच्यते ॥ 3 ॥
  4. श्लोक 4सप्तमं दशमं चैव विशेषसुखमुच्यते ।त्रिषडायाधिपाः सर्वे ग्रहाः पापफलप्रदाः ॥ 4 ॥
  5. श्लोक 5व्ययद्वितीयभावेशौ साहचर्यात्फलप्रदौ ।स्थानान्तरानुरोधाच्च प्रबला उत्तरोत्तरम्‌ ॥ 5 ॥
  6. श्लोक 6भाग्यव्ययाधिपत्येन रन्ध्रेशो न शुभप्रदः ।स्थानान्तरानुगुण्येन फलं प्रायः प्रयच्छति ॥ 6 ॥
  7. श्लोक 7न वा रन्ध्रेशदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ।गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते ॥ 7 ॥
  8. श्लोक 8उदासीनः शशिसुतः पापा रव्यार्किभूमिजाः ।पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् ॥ 8 ॥
  9. श्लोक 9क्षीणचन्द्रेनमन्दाराः प्रबलाश्च यथोत्तरम् ।इति स्वभावात् संप्रोक्ता शुभाः पापा ग्रहाः द्विज ॥ 9 ॥
  10. श्लोक 10केन्द्राधिपत्य दोषो यः शुभानां कथितं मया ।चन्द्रज्ञगुरुशुक्राणां स विज्ञेयः क्रमाद्बली ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमकेन्द्रत्रिकोणसम्बन्धः सदा योगकरः स्मृतः ।केन्द्रकोणपती स्यातां परस्परगृहोपगौ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमएकत्र संस्थितौ वापि स्वस्वस्थानगतौ तथा ।पूर्णदृष्ट्येक्षितौ वापि मिथो योगकरौ मतौ ॥ 12 ॥
  13. श्लोक 13कोणेशत्वे यदेकस्य केन्द्रेशत्वं च जायते ।केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः ॥ 13 ॥
  14. श्लोक 15कुंडली के 1 नियमकेन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् ।सम्बन्धमात्राद् बलिनौ तावुभौ योगकारकौ ॥ 15 ॥
  15. श्लोक 16कुंडली के 1 नियमकेन्द्रकोणाधिपौ पापस्थानपावपि संगतौ ।तयोः सम्बन्धमात्रेण न योगं लभते नरः ॥ 16 ॥
  16. श्लोक 17कुंडली के 1 नियमयद्यद्भावगतौ वापि यद्यद्भावेशसंयुतौ ।तत्तत्फलानि प्रबलौ प्रदिशेतां तमोग्रहौ ॥ 17 ॥
  17. श्लोक 18कुंडली के 1 नियमयदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।नाथेनान्यतरेणाढ्यौ भवेतां योगकारकौ ॥ 18 ॥
  18. श्लोक 19कुंडली के 1 नियममन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ ।न शुभं योगमात्रेण प्रभवेच्छनिजीवयोः ॥ 19 ॥
  19. श्लोक 20कुंडली के 1 नियमपारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम्‌ ।शुक्रः साक्षान्निहन्तास्यान्मारकत्वेन लक्षितः ॥ 20 ॥
  20. श्लोक 22कुंडली के 1 नियमजीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ ।राजयोगकरः साक्षादेक एव रवेः सुतः ॥ 22 ॥
  21. श्लोक 23कुंडली के 1 नियमजीवादयो ग्रहाः पापाः सन्ति मारकलक्षणाः ।वृष लग्नोद्भवस्यैवं फलमूह्यं विचक्षणैः ॥ 23 ॥
  22. श्लोक 24कुंडली के 1 नियमभौमजीवारुणाः पापाः एक एव कविः शुभः ।शनैश्चरेण जीवस्य योगो मेषभवो यथा ॥ 24 ॥
  23. श्लोक 25कुंडली के 1 नियमनायं शशी निहन्ता स्यात्‌ बुधः सौम्यस्तु युग्मके ।भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः ॥ 25 ॥
  24. श्लोक 27कुंडली के 1 नियमबुधशुक्रयमाः पापाः कुजेज्यार्काः शुभावहाः ।प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः ॥ 27 ॥
  25. श्लोक 28कुंडली के 1 नियममारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः ।एवं फलानि ज्ञेयानि बुधैः पञ्चमजन्मनः ॥ 28 ॥
  26. श्लोक 29कुंडली के 1 नियमकुजजीवेन्दवः पापा बुधशुक्रौ शुभावहौ ।भार्गवेन्दुसुतावेव भवेतां योगकारकौ ॥ 29 ॥
  27. श्लोक 30कुंडली के 2 नियममारकोऽपि कविः सूर्यः साहचर्यात्तु षष्ठभे ।जीवार्कमहिजाः पापाः शनैश्चरबुधौ शुभौ ॥ 30 ॥
  28. श्लोक 31कुंडली के 1 नियमभवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ।कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः ॥ 31 ॥
  29. श्लोक 32कुंडली के 2 नियमशुक्रः समः फलान्येवं तुलायां कल्पयेद्‌ द्विज ! ।सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ ॥ 32 ॥
  30. श्लोक 33कुंडली के 1 नियमसूर्याचन्द्रमसावेव भवेतां योगकारकौ ।कुजः शुभः सिताद्याश्च पापा मारकलक्षणाः ॥ 33 ॥
  31. श्लोक 34कुंडली के 2 नियमएवं फलं सुविज्ञेयं वृश्चिकोदय जन्मनः ।एक एव कविः पापः शुभौ भौमदिवाकरौ ॥ 34 ॥
  32. श्लोक 35कुंडली के 1 नियमयोगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ।गुरुः समफलः शुक्रः मारको नवमोदये ॥ 35 ॥
  33. श्लोक 36कुंडली के 1 नियमकुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ ।मन्दः स्वयं न हन्ता स्यान्मारका मंगलादयः ॥ 36 ॥
  34. श्लोक 37कुंडली के 2 नियमसूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् ।मृगलग्नोद्भवस्यैवमथ कुम्भोदये शृणु ॥ 37 ॥
  35. श्लोक 38कुंडली के 1 नियमजीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ ।राजयोगकरः शुक्रः सौम्यो मध्यफलः स्मृतः ॥ 38 ॥
  36. श्लोक 39कुंडली के 1 नियममन्दशुक्रांशुमत्‌ सौम्याः पापाः भौमविधू शुभौ ।महीसुतगुरू योगकारकौ च महीसुतः ॥ 39 ॥
  37. श्लोक 40कुंडली के 1 नियममन्दज्ञौ मारकौ ज्ञेयौ मीनलग्ने विचिन्तयेत्‌ ।एवं भावाधिपत्येन जन्मलग्नवशादिह ॥ 40 ॥
  38. श्लोक 41शुभाशुभं हि विज्ञेयं पुनः कारकलक्षणात्‌ ।बलाबलविचारेण भावर्क्षप्रभवं फलम्‌ ॥ 41 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।