अध्याय 33: नाभसयोगाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 33 (Nabhas Yog)

51 श्लोक

  1. श्लोक 1अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम ! ।द्वात्रिंशत्‌ तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः ॥ 1 ॥
  2. श्लोक 2आश्रयाख्यास्त्रयो योगा दलसंज्ञं द्वयं ततः ।आकृतिर्विंशतिः संख्या सप्तयोगाः प्रकीर्तिताः ॥ 2 ॥
  3. श्लोक 3रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः ।मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ॥ 3 ॥
  4. श्लोक 4गदाख्यः शकटश्चैव शृंगाटकविहंगमौ ।हलवज्रयवाश्चैव कमलं वापियूपकौ ॥ 4 ॥
  5. श्लोक 5शरशक्तिदण्डनौकाकूटच्छत्रधनूषि च ।अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ॥ 5 ॥
  6. श्लोक 6वल्लकीदामपाशास्तु केदारशूलकौ युगः ।गोल इत्याख्यया सप्तसंख्या द्वात्रिंशका इमे ॥ 6 ॥
  7. श्लोक 7कुंडली के 3 नियमसर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः ।नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे त्रयः ॥ 7 ॥
  8. श्लोक 8कुंडली के 2 नियमकेन्द्रत्रयगतैः पापैः सौम्यैर्वा दलसंज्ञकौ ।क्रमात्सर्पाख्यमालाख्यौ पापसौम्यफलप्रदौ ॥ 8 ॥
  9. श्लोक 9कुंडली के 3 नियमआसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः ।शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ॥ 9 ॥
  10. श्लोक 10कुंडली के 2 नियमयोगः शृंगाटकं नाम लग्नात्मजतपःस्थितैः ।अन्यस्थानात् त्रिकोणस्थैर्हलयोग इतीरितः ॥ 10 ॥
  11. श्लोक 11कुंडली के 2 नियमलग्नजायास्थितैः सौम्यैः पापाख्यैः खाम्बुसंस्थितैः ।योगो वज्राभिधः प्रोक्तः विपरीतस्थितैर्यवः ॥ 11 ॥
  12. श्लोक 12कुंडली के 2 नियमसर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः ।केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाख्यः ॥ 12 ॥
  13. श्लोक 13कुंडली के 4 नियमयूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः ।शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः ॥ 13 ॥
  14. श्लोक 14कुंडली के 4 नियमलग्नात्‌ सप्तर्क्षगैर्नौका क्रमात्तुर्याच्च सप्तमात्‌ ।मध्यात्सप्तर्क्षगैरेवं कूटच्छत्रशरासनाः ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमधनात्सप्तर्क्षगैः खेटैः सर्वैरर्धेन्दुरीरितः ॥ 15 ॥
  16. श्लोक 16कुंडली के 2 नियमलग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते ।धनादेकान्तरस्थैस्तु समुद्रः षड्गृहाश्रितैः ॥ 16 ॥
  17. श्लोक 17कुंडली के 7 नियमएकात्‌ सप्तर्क्षगैः खेटैः क्रमशो युगगोलकाः ।शूलकेदारपाशाश्च दामवल्लकिसंज्ञकाः ।सप्तसंख्याः भवन्त्येते विहायान्यानुदीरितात्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमअटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः ।क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियममानज्ञानधनाढ्यैर्युक्ताः भूपप्रियाः ख्याताः ।बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमन्यूनातिरिक्त देहा धनसंचयभागिनोऽतिनिपुणाश्च ।बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमनित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्नाः ।कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमविषमाः क्रूराः निःस्वाः नित्यं दुःखार्दिताः सुदीनाश्च ।परभक्षपाननिरताः सर्पभवा भवन्ति नराः ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमसततोद्युक्तार्थयशा यज्वानः शास्त्रयोगकुशलाश्च ।धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमरोगार्ताः कुनखाः मूर्खाः शकटानुजीविनो निःस्वाः ।मित्रस्वजनविहीनाः शकटे जाताः भवन्ति नराः ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमभ्रमणरुचयो विकृष्टा दूताः सुरतानुजीविनो धृष्टाः ।कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमप्रियकलहाः समरसहाः सुभगो नृपतेः प्रियाः शुभकलत्राः ।आढ्या युवतिद्वेष्याः शृंगाटकसम्भवा मनुजाः ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमबह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा ।बन्धुसुहृद्भिः सक्ताः प्रेष्या हलसंज्ञके सदा पुरुषाः ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमआद्यन्तवयः सुखिनः शूराः सुभगा विरोगदेहाश्च ।भाग्यविहीनाः मध्ये वज्रे जाताः खलैर्विरुद्धाश्च ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमव्रतनियममंगलपरा वयसो मध्ये सुखार्थपुत्रयुताः ।दातारः स्थिरवित्ता यवयोगभवाः सदा पुरुषाः ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमविभवगुणाढ्याः पुरुषाः स्थिरायुषो विपुलकीर्तयः शुद्धाः ।शुभयशसः पृथ्वीशाः कमलभवा मानवा नित्यम्‌ ॥ 30 ॥
  31. श्लोक 31कुंडली के 1 नियमनिधिकरणे निपुणधियः स्थिरार्थसंयुताः सुतृप्ताश्च ।नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ॥ 31 ॥
  32. श्लोक 32कुंडली के 1 नियमआत्मविदिज्यानिरतः स्त्रियायुतः सत्त्वसम्पन्नः ।व्रतनियमरतमनुष्यो यूपे जातो विशिष्टश्च ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमइषुकारा बन्धनपा मृगया वनसेविताश्च मांसादाः ।हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ॥ 33 ॥
  34. श्लोक 34कुंडली के 1 नियमधनरहितविकलदुःखितनीचालसाश्चिरायुषः पुरुषाः ।संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः सुभगाः ॥ 34 ॥
  35. श्लोक 35कुंडली के 1 नियमहतपुत्रदारनिःस्वाः सर्वत्र च निर्घृणाः स्वजनबाह्याः ।दुःखितनीचप्रेष्या दण्डप्रभवा भवन्ति नराः ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमसलिलोपजीविविभवा बह्वाशाः ख्यातकीर्तयो हृष्टाः ।कृपणा मलिना लुब्धा नौसम्भूताः खलाः पुरुषाः ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमअनृतकथनबन्धनपा निष्किंचनाः शठाः क्रूराः ।कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥ 37 ॥
  38. श्लोक 38कुंडली के 1 नियमस्वजनाश्रयो दयावान्‌ नानानृपवल्लभः प्रकृष्टमतिः ।प्रथमेऽन्त्ये वयसि नरः सुखवान्‌ दीर्घायुरातपत्री स्यात्‌ ॥ 38 ॥
  39. श्लोक 39कुंडली के 1 नियमआनृतिक गुप्तपालाश्चौराः कितवाश्च कानने निरताः ।कार्मुकयोगे जाता भाग्यविहीनाः शुभा वयोमध्ये ॥ 39 ॥
  40. श्लोक 40कुंडली के 1 नियमसेनापतयः सुभगाः कान्तशरीराः नृपप्रिया बलिनः ।मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥ 40 ॥
  41. श्लोक 41कुंडली के 1 नियमप्रणताशेषनराधिपकिरीटरत्नप्रभाच्छुरितपादः ।भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमबहुरत्नधनसमृद्धाः भोगैर्युताः जनप्रियाः ससुताः ।उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमप्रियगीत नृत्यवाद्याः शास्त्रपराः मित्रान्विताः सुवचनाः ।सुखभाजो बहुभृत्या वीणायां कीर्तिताः मनुजाः ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमदाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः ।बहुसुतरत्नसमृद्धो धीरो विद्वान्‌ प्रजातः स्यात्‌ ॥ 44 ॥
  45. श्लोक 45कुंडली के 1 नियमपाशे बन्धनभाजः कार्योद्युक्ताः प्रपंचकाराश्च ।बहुभाषिणो विशीलाः बहुभृत्याः सम्प्रसूताः स्युः ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमसुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिताः ।केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमतीक्ष्णा अलसा निर्धनाः हिंस्राः सुबहिष्कृताः महाशूराः ।संग्राम लब्धशब्दाः शूले रौद्राः प्रजायन्ते ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमपाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके ।सुतमानधर्मरहिता युगयोगे ये नरा जाताः ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमदारिद्र्यालस्ययुता विद्याज्ञानवर्जिता मलिनाः ।नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ 49 ॥
  50. श्लोक 50कुंडली के 3 नियमआश्रया विफला ज्ञेया यद्यन्यैरपि मिश्रिताः ।यैः संसृष्टाः सदा तेषाममिश्राः स्वफलप्रदाः ॥ 50 ॥
  51. श्लोक 51सर्वास्वपि दशास्वेते भवेयुः फलदायकाः ।प्राणिनामिति विज्ञेया प्रवदन्ति तवाग्रजाः ॥ 51 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।