अध्याय 34: विविधयोगाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 34 (Vividh Yog)

53 श्लोक

  1. श्लोक 1कुंडली के 4 नियमलग्ने शुभयुते योगः शुभः पापयुतेऽशुभः ।व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाशुभौ ॥ 1 ॥
  2. श्लोक 2कुंडली के 4 नियमशुभयोगे भवेद्‌ वाग्मी रूपशीलगुणान्वितः ।पापयोगोद्भवः कामी पापकर्मा परार्थयुक्‌ ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमकेन्द्रस्थिते देवगुरौ शशांकाद्‌ योगस्तदाहुर्गजकेसरीति ।दृष्टे सितार्येन्दुसुते शशांके नीचास्तहीनैर्गजकेसरीति ॥ 3 ॥
  4. श्लोक 4कुंडली के 2 नियमगजकेसरिसंजातस्तेजस्वी धनवान्‌ भवेत्‌ ।मेधावी गुणसम्पन्नो राजप्रियकरो भवेत्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमलग्नाद्वा चन्द्रलग्नाद्वा दशमेशुभसंयुते ।योगोऽयममला नाम कीर्तिराचन्द्रतारकी ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमराजपूज्यो महाभोगी दाता बन्धुजनप्रियः ।परोपकारी धर्मात्मा गुणाढ्योऽमलकीर्तिजः ॥ 6 ॥
  7. श्लोक 7कुंडली के 2 नियमसौम्येषु केन्द्रगृहगेषु सपत्नरन्ध्रौ शुद्धेऽथवा शुभयुते यदि पर्वतः स्यात् ।लग्नान्त्यपौ यदि परस्परकेन्द्रयातौ ।मित्रेक्षितौ भवति पर्वतनामयोगः ॥ 7 ॥
  8. श्लोक 8कुंडली के 2 नियमभाग्यवान्‌ पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित्‌ ।हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ॥ 8 ॥
  9. श्लोक 9कुंडली के 2 नियमअन्योन्यकेन्द्रगृहगौ गुरुबन्धुनाथौ लग्नाधिपे बलयुते यदि काहलः स्यात् ।कर्मेश्वरेण सहिते तु विलोकिते वा ।स्वोच्चस्वके सुखपतौ यदि तादृशः स्यात् ॥ 9 ॥
  10. श्लोक 10कुंडली के 2 नियमओजस्वी साहसी मूर्खश्चतुरंग बलान्वितः ।यत्‌ किंचिद्ग्रामनाथस्तु जातः स्यात्‌ काहले नरः ॥ 10 ॥
  11. श्लोक 11कुंडली के 2 नियमलग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः ।शुभद्वये विलग्ने वा नवमे दशमे मदे ॥ 11 ॥
  12. श्लोक 12कुंडली के 2 नियमराजा वा राजपूज्यो वा विद्वान्‌ वाग्मी च पण्डितः ।चिरजीवी कलाभिज्ञः योगे चामरके जनः ॥ 12 ॥
  13. श्लोक 13कुंडली के 12 नियमसप्तराशिगतैः खेटैर्लग्नात्सप्तग्रहैरपि ।योगोऽयं मालिका नाम प्रोक्तो विप्र ! पुरातनैः ॥ 13 ॥
  14. श्लोक 14कुंडली के 4 नियमधनादिभावगैरेवंधनविक्रममालिके ।एवं रसातलाद्‌ बन्धु-माला मन्त्राच्च मन्त्रिणी ॥ 14 ॥
  15. श्लोक 15कुंडली के 4 नियमषष्ठभादिन्द्रमाला स्यात्‌ सप्तमात्‌ काममालिकाः ।रन्ध्रान्निधनमालाख्या नवमाच्छुभमालिका ॥ 15 ॥
  16. श्लोक 16कुंडली के 3 नियमदशमात्कीर्तिमाला स्याल्लाभाच्चेद्‌ विजयाभिधा ।रिःफात्पतनमाला स्यात्‌ फलं वक्ष्ये पृथक्‌ पृथक्‌ ॥ 16 ॥
  17. श्लोक 17कुंडली के 2 नियममालिकायां नरो राजा बहुवाहन नायकः ।धनमालोनिधिपतिः पितृभक्तोऽग्ररूपवान्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 2 नियमविक्रमाद्भूमिपालः स्याच्छूरो रोगी धनान्वितः ।सुखान्नरो दानपरः बहुदेशचरः सुखी ॥ 18 ॥
  19. श्लोक 19कुंडली के 2 नियमपुत्रान्‌ नरपतिर्यज्वा कीर्तिभागथवा नरः ।ततः क्वचिद्धनसुखी क्वचिद्दीनस्ततः परम्‌ ॥ 19 ॥
  20. श्लोक 20कुंडली के 2 नियमकामे कान्तः धनी भूपो गुणी स्त्रीवल्लभस्तथा ।निधने दीर्घजीवी स्यान्निर्धनो वनिता जितः ॥ 20 ॥
  21. श्लोक 21कुंडली के 2 नियमधर्मादिग्रहमालायां यज्वा गुणनिधिर्विभुः ।कर्माद्यायां तु कर्मज्ञः सज्जनो जनपूजितः ॥ 21 ॥
  22. श्लोक 22कुंडली के 2 नियमलाभात्सर्वक्रियादक्षःप्रशस्तस्त्रीपतिर्नरः ।व्ययाद्‌ बहुव्ययो जातस्तथा सर्वत्र पूजितः ॥ 22 ॥
  23. श्लोक 23कुंडली के 2 नियमसबले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः ।शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे ॥ 23 ॥
  24. श्लोक 24कुंडली के 2 नियमधनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् बुधः ।चिरजीवी च भोगी च शंखयोगे भवेन्नरः ॥ 24 ॥
  25. श्लोक 26कुंडली के 1 नियमदीर्घायुषो विगतरोगभया नरेन्द्रा बह्वर्थभूमिसुतदारयुताः प्रसिद्धाः ।आचारभूरिसुखशौर्यमहानुभावा भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥ 26 ॥
  26. श्लोक 27उच्च ग्रहांशकपतौ यदि केन्द्र कोणे, तुंगस्वकीयभवनोपगते बलाढ्ये ।लग्नाधिपे बलयुते मृदंगयोगः कल्याणरूपनृपतुल्ययशःप्रदः स्यात्‌ ॥ 27 ॥
  27. श्लोक 28कुंडली के 1 नियमकामेशे कर्मगे तुंगे कर्मेशे भाग्यपान्विते ।योगः श्रीनाथ संज्ञोऽसौ जातः शक्रसमोनृपः ॥ 28 ॥
  28. श्लोक 29कुंडली के 1 नियमयोगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजेकेन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ।चन्द्रात् कोणगते पुरन्दरगुरौ सौम्ये त्रिकोणे कुजेलाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ 29 ॥
  29. श्लोक 30कुंडली के 1 नियमधनस्त्रीपुत्रसंयुक्तः कान्तो विद्वान्‌ गुणी गुरौ ।देवद्विजादिकेभक्तः तपोयुक्तश्च धार्मिकः ॥ 30 ॥
  30. श्लोक 31कुंडली के 1 नियमलग्नधर्मगते सौम्ये (पापे) पंचमे सदसद्युते ।चतुरष्टगते पापे योगोऽयं मत्स्यसंज्ञकः ॥ 31 ॥
  31. श्लोक 32कुंडली के 1 नियमकालज्ञः करुणासिन्धुर्गुणधीबल रूपवान्‌ ।यशोविद्यातपस्वी च मत्स्ययोग समुद्भवः ॥ 32 ॥
  32. श्लोक 33कुंडली के 1 नियमपुत्रारिमदने सौम्याः स्वोच्चर्क्षांशादिगाः खलाः ।त्रिलाभोदयगाः स्वोच्चभांशगाः कच्छपो मतः ॥ 33 ॥
  33. श्लोक 34कुंडली के 1 नियमविख्यातकीर्तिर्भुवि राज्यभोगी धर्माधिकः सत्त्वगुणप्रधानः ।धीरः सुखी वागुपकारकर्ता कूर्मोद्भवो मानवनायको वा ॥ 34 ॥
  34. श्लोक 35कुंडली के 1 नियमभाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।लग्नेशे केन्द्रकोणस्थे खड्गयोग इतीरितः ॥ 35 ॥
  35. श्लोक 36कुंडली के 1 नियमवेदार्थशास्त्रनिखिलागमतत्त्वयुक्ति-बुद्धिप्रतापबलवीर्यसुखानुरक्ताः ।निर्मत्सराश्च निजवीर्यमहानुभावाः ।खड्गे भवन्ति पुरुषाः कुशलाः कृतज्ञाः ॥ 36 ॥
  36. श्लोक 37कुंडली के 1 नियमकेन्द्रे मूल त्रिकोणस्थे भाग्येशे परमोच्चगे ।लग्नाधिपे बलाढ्ये च लक्ष्मीयोग इतीरितः ॥ 37 ॥
  37. श्लोक 38कुंडली के 1 नियमसुरूपो गुणवान्‌ भूपो बहुपुत्रधनान्वितः ।यशस्वी धर्मसम्पन्नो लक्ष्मी योगे जनो भवेत्‌ ॥ 38 ॥
  38. श्लोक 39कुंडली के 1 नियमस्थिरलग्ने भृगौ केन्द्रे त्रिकोणेन्दौ शुभेतरे ।मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ 39 ॥
  39. श्लोक 40कुंडली के 1 नियमदाता नरेश वन्द्यश्च भोगी विद्वान्‌ सुखी जनः ।लोके महाकीर्तियुतः मुख्यः कुसुमसम्भवः ॥ 40 ॥
  40. श्लोक 41कुंडली के 1 नियमविलग्ननाथस्थितराशिनाथ स्थानेश्वरो वापि तदंशनाथः ।केन्द्रत्रिकोणोपगतो यदि स्यात्स्वतुंगगो वा यदि पारिजातः ॥ 41 ॥
  41. श्लोक 42कुंडली के 1 नियमयुद्धप्रियो नृपवन्द्यो दयालुर्धर्मकर्मवित्‌ ।वाजियुक्तश्च मध्यान्तात्परं सौख्यं नृपोऽपि वा ॥ 42 ॥
  42. श्लोक 43कुंडली के 1 नियमद्वितीये पंचमे जीवे बुधशुक्रयुतेक्षिते ।क्षेत्रे तयोर्वा सम्प्राप्ते योगः स्यात्स कलानिधिः ॥ 43 ॥
  43. श्लोक 44कुंडली के 1 नियमकलानिधिसमुत्पन्नो गुणी भोगी सुखी धनी ।नृपवन्द्यश्च नीरोगो बलविद्यासमन्वितः ॥ 44 ॥
  44. श्लोक 45कुंडली के 1 नियमकेन्द्रगौ सितदेवेज्यौ स्वोच्चे केन्द्रगतेऽर्कजे ।चरलग्ने यदा जन्म योगोऽयमवतारजः ॥ 45 ॥
  45. श्लोक 46कुंडली के 1 नियमकालकर्ता जितात्मा च तीर्थकृत्‌ कीर्तिसंयुतः ।पुण्यश्लोकः कलाभिज्ञः श्रीधरोऽंशावतारजः ॥ 46 ॥
  46. श्लोक 47कुंडली के 2 नियमधनेशात्स्वान्त्यरन्ध्रस्थैः शुभैर्हरिरितीरितः ।कामेशाद्बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ॥ 47 ॥
  47. श्लोक 48कुंडली के 3 नियमलग्नेशाद्बन्धुकर्मायस्थितैर्ब्रह्माख्यकः स्मृतः ।एषु जातः सुखी विद्वान्‌ धनपुत्रादि संयुतः ॥ 48 ॥
  48. श्लोक 49कुंडली के 3 नियमवेदान्तज्ञः सूपकारी शत्रुहन्ता सुकर्मकृत्‌ ॥ 49 ॥
  49. श्लोक 50कुंडली के 2 नियमषट्सप्ताष्टगैः सौम्यैर्लग्नाच्चन्द्राच्च संस्थितैः ।पापदृग्योगहीनैश्च सुखे शुद्धेऽधियोगवान्‌ ॥ 50 ॥
  50. श्लोक 51कुंडली के 1 नियमशास्त्रकृद्‌ विबुधो वित्तविद्यागुणयशोऽधिकः ।बलाधिकारी मुख्यश्च जातो लग्नाधियोगके ॥ 51 ॥
  51. श्लोक 52कुंडली के 1 नियमचन्द्रादथाधियोगे तु राजामन्त्री चमूपतिः ।बलक्रमाद्भवेज्जातः सर्वसम्पद्युतः सुखी ॥ 52 ॥
  52. श्लोक 53लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् ।गोपुरे धनधान्याढ्यो भूपः सिंहासने स्थिते ॥ 53 ॥
  53. श्लोक 54पारावातके विद्वान्‌ देवलोके सवाहनः ।ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ॥ 54 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।