अध्याय 36: राजयोगाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 36 (Raj Yog)

66 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1अथातः सम्प्रवक्ष्यामि राजयोगादिकं परम्‌ ।ग्रहाणां स्थानभेदेन दृष्टियोगवशात्‌ फलम्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमतपः स्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः ।उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक्‌ ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमयत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ ।राजवंशभवो बालो राजा भवति निश्चितम्‌ ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमवाहनेशस्तथा माने मानेशो वाहने स्थितः ।बुद्धिधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक्‌ ॥ 4 ॥
  5. श्लोक 5प्रथमः स्थानसम्बन्धो दृष्टिजस्तु ततः परम्‌ ।तृतीयस्त्वेकतो दृष्टिः तत एकत्रसुस्थितिः ॥ 5 ॥
  6. श्लोक 6अन्योन्यगौ तथा स्वे स्वे संयुतावन्यभे स्थितौ ।पूर्णेक्षितौ मिथो वापि चैकवर्गगतौ यदा ॥ 6 ॥
  7. श्लोक 7तदा योगो भवेत्तत्र विबलो नैव योऽसकृत्‌ ।शत्रुयुक्तेक्षितौ पापवीक्षितौ नैव योगकृत्‌ ॥ 7 ॥
  8. श्लोक 8व्ययमृत्युषडस्थौ च द्वावेव समसंयुतौ ।राजामात्यादि योगानां वक्रगौ नाशकारकौ ॥ 8 ॥
  9. श्लोक 10कुंडली के 1 नियमसुखकर्माधिपौ चैव मन्त्रिनाथेन संयुतौ ।धर्मेशेनाथवायुक्तौ जातश्चेदिह राज्यभाक्‌ ॥ 10 ॥
  10. श्लोक 11कुंडली के 1 नियमसुतेशे धर्मनाथेन युते लग्नेश्वरेण च ।लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ॥ 11 ॥
  11. श्लोक 12कुंडली के 1 नियमधर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते ।पंचमाधिपसंयुक्ते जातश्चेदिह राज्यभाक्‌ ॥ 12 ॥
  12. श्लोक 13दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका ।शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ॥ 13 ॥
  13. श्लोक 14कुंडली के 1 नियमचन्द्रः कविं कविश्चन्द्रमन्योन्यं त्रिभवस्थितः ।मिथः पश्यति वा क्वापि राजयोग उदाहृतः ॥ 14 ॥
  14. श्लोक 15चन्द्रे वर्गोत्तमांशस्थे सबलैश्चतुरादिभिः ।ग्रहैर्दृष्टे च यो बालः स राजा भवति ध्रुवम्‌ ॥ 15 ॥
  15. श्लोक 16कुंडली के 1 नियमत्रिभिरुच्चगतैः खेटैः राजा राजकुलोद्भवः ।अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ॥ 16 ॥
  16. श्लोक 17कुंडली के 1 नियमचतुर्भिः पंचभिर्वापि सखेटैरुच्चगतैर्नरः ।हीनवंशोद्भवश्चापि राजा भवति निश्चितम्‌ ॥ 17 ॥
  17. श्लोक 18कुंडली के 1 नियमषड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात्‌ ।एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ॥ 18 ॥
  18. श्लोक 19अथातः सम्प्रवक्ष्यामि राजयोगान् द्विजोत्तम ।येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् ॥ 19 ॥
  19. श्लोक 20ये योगाः शम्भुना प्रोक्ताः पुराशैलसुताग्रतः ।तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन ॥ 20 ॥
  20. श्लोक 21कुंडली के 1 नियमचिन्तयेत्कारके लग्ने जनुर्लग्नेऽथवा द्विज ! ।राजयोग प्रदातारौ द्वौ द्वौ खेटौ प्रयत्नतः ॥ 21 ॥
  21. श्लोक 22कुंडली के 1 नियमआत्मकारकपुत्राभ्यां राजयोगं प्रकल्पयेत् ।तनुपंचमनाथाभ्यां तथैव द्विजसत्तम ॥ 22 ॥
  22. श्लोक 23कुंडली के 1 नियमविलग्नात् पंचमाधीशः पुत्रात्माकारकोद्वयोः ।सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ॥ 23 ॥
  23. श्लोक 24लग्नेऽथ सप्तमे वापि लग्नेशे सप्तमाधिपे ।पुत्रात्मकारकौ विप्र लग्ने वा सप्तमेऽपि वा ॥ 24 ॥
  24. श्लोक 25सम्बन्धे च तयोर्विप्र ! एवं पंचमाधिपे ।उच्चता च नवांशस्थे शुभदृग्योगभावतः ॥ 25 ॥
  25. श्लोक 26महाराजेति योगोऽयं सोऽत्रजातः सुखी नरः ।गजवाजिरथैर्युक्तः सेनासंगमने तथा ॥ 26 ॥
  26. श्लोक 27भाग्येशः कारको लग्ने पंचमे सप्तमेऽपि वा ।राजयोगप्रदातारौ शुभखेटयुतेक्षितौ ॥ 27 ॥
  27. श्लोक 28कारकादद्विचतुर्थ च पंचमे भावगे द्विज ! ।शुभखेटो न सन्देहो राजयोगं ददाति च ॥ 28 ॥
  28. श्लोक 29तृतीये षष्ठभे ताभ्यां पापग्रहयुते नरः ।राजवंशोद्भवो विप्र ! राजा भवति निश्चयात्‌ ॥ 29 ॥
  29. श्लोक 30कुंडली के 1 नियमलग्नेशात्सप्तमेशाद्वा धने तुर्ये च पंचमे ।शुभखेटयुते वापि राजा भवति ध्रुवम् ।तृतीये षष्ठभे पापे मिश्रे मिश्रफलं वदेत् ॥ 30 ॥
  30. श्लोक 31स्वांशे वा पंचमे शुक्रे जीवेन्दुयुतवीक्षिते ।लग्ने लग्नपदे वापि राजवर्गो भवेन्नरः ॥ 31 ॥
  31. श्लोक 32जन्मांगे कालहोरांगे लिप्तांगे येन केनचित्‌ ।एकग्रहेण संदृष्टे त्रितये राज्यभाग्‌ भवेत्‌ ॥ 32 ॥
  32. श्लोक 33लग्ने नवांश द्रेष्काणे वैकखेटयुतेक्षिते ।राजयोगो भवत्येव निर्विशंकं द्विजोत्तम ॥ 33 ॥
  33. श्लोक 34लग्नं च सप्तमं विप्र ! सममत्र विचारयेत्‌ ॥ 34 ॥
  34. श्लोक 35पूर्णदृष्टे पूर्णयोगमर्धे चार्धं विधीयते ।पादेन पादयोगं च राजयोगमिति क्रमात्‌ ॥ 35 ॥
  35. श्लोक 37क्रान्ते वा गुरुशुक्राभ्यां चन्द्राक्रान्ते विशेषतः ।दुष्टार्गलग्रहाभावे राजयोगो न संशयः ॥ 37 ॥
  36. श्लोक 38पदे शुभे सचन्द्रे च धने देवगुरौ तथा ।स्वोच्चखेटे युते दृष्टे राजयोगो न संशयः ॥ 38 ॥
  37. श्लोक 39कुंडली के 1 नियमशुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे ।चतुर्थे च शुभे प्राप्ते राजा वा तत्समो भवेत् ॥ 39 ॥
  38. श्लोक 40कुंडली के 1 नियमस्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा ।बुधो वा धनभावस्थः श्रियं दिशति देहिनाम् ॥ 40 ॥
  39. श्लोक 41लग्नं पश्यन्ति ये खेटास्ते सर्वे शुभदायिनः ।नीचखेटोऽपि सम्बन्धात्‌ लग्नं पश्येत्‌ भवेन्नृपः ॥ 41 ॥
  40. श्लोक 42कुंडली के 1 नियमषष्ठाष्टमे तृतीये च यदा नीचगता ग्रहाः ।लग्नं पश्येत्‌ स्वभोच्चस्थो लग्नपो राज्ययोगदः ॥ 42 ॥
  41. श्लोक 43कुंडली के 1 नियमषष्ठाष्टमव्ययाधीशा नीचस्था रिपुभेऽस्तगाः ।उच्चादिगो विलग्नेशः लग्नं पश्येत्तु राज्यदः ॥ 43 ॥
  42. श्लोक 44कुंडली के 1 नियमकेन्द्रत्रिकोणगैः सौम्यैः पापैश्च त्रिषडायगैः ।विलग्नेशे बलयुते हीनवंशोऽपि राज्यभाक्‌ ॥ 44 ॥
  43. श्लोक 45कुंडली के 2 नियमस्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः ।यदि लग्नेशसम्बन्धस्तेन स्यात् किमतः परम् ॥ 45 ॥
  44. श्लोक 46शुभराशौ शुभांशे च कारको धनवान्‌ भवेत्‌ ।तदंश केन्द्रेषु शुभे नूनं राजा प्रजायते ॥ 46 ॥
  45. श्लोक 47लग्नारूढं दारपदं मिथः केन्द्र गतं यदि ।त्रिलाभे वा त्रिकोणे वा राजा भवति मानवः ॥ 47 ॥
  46. श्लोक 48भावहोराघटीलग्नसंज्ञानि च प्रपश्यति ।स्वोच्च ग्रहो राजयोगो लग्नद्वयमथापि वा ॥ 48 ॥
  47. श्लोक 49राशेर्द्रेष्काणतोंऽशाच्च राशेरंशादथापि वा ।यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः ॥ 49 ॥
  48. श्लोक 50तृतीय लाभगे नीचे लग्नं पश्यति लग्नपे ।लग्नांश केन्द्रेषु शुभे निग्रहानुग्रहक्षमः ॥ 50 ॥
  49. श्लोक 51राज्येशेऽपि जनुर्लग्नाऽमात्येशयुतेक्षिते ।अमात्यकारकेणापि प्रधानत्वं नृपालये ॥ 51 ॥
  50. श्लोक 52कुंडली के 1 नियमलाभेशेनेक्षिते लाभे पापदृग्योगवर्जिते ।राज्यभावेऽथवा विप्र ! प्रधानत्वं नृपालये ॥ 52 ॥
  51. श्लोक 53अमात्यकारकेणापि कारकेन्द्रेण संयुते ।तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ॥ 53 ॥
  52. श्लोक 54अमात्यकारके विप्र ! सबले शुभसंयुते ।स्वक्षेत्रे स्वोच्चगे वापि राजमन्त्री भवेद्ध्रुवम् ॥ 54 ॥
  53. श्लोक 55अमात्यकारके लग्ने पंचमे नवमेऽपि वा ।राजमन्त्री भवेद्‌ बालो विख्यातो विजयी भवेत्‌ ॥ 55 ॥
  54. श्लोक 56आत्मकारकतः केन्द्रे कोणे वाऽमात्य कारके ।तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ॥ 56 ॥
  55. श्लोक 57कारके केन्द्रकोणेषु स्वतुंगे वा स्वभे स्थिते ।भाग्यपेन युते दृष्टे राजमन्त्री भवेज्जनः ॥ 57 ॥
  56. श्लोक 58कारके जन्मराशीशे लग्नगे शुभसंयुते ।मन्त्रित्वे मुख्ययोगोऽयं वार्धके नात्र संशयः ॥ 58 ॥
  57. श्लोक 59क्रमेण भाग्यवृद्धिः स्यान्नृपवेशोऽथवा भवेत् ।भाग्यारूढपदे लग्ने कारकान्नवमेऽपि वा ।राजयोग इति प्रोक्तो विख्यातो विजयी भवेत् ॥ 59 ॥
  58. श्लोक 60कारकाच्च तथा रूढात्‌ लग्नाच्च द्विजसत्तम ! ।तृतीये षष्ठभे पापाः सेनाधीशो भवेन्नरः ॥ 60 ॥
  59. श्लोक 62कारके शुभसंयुक्ते पंचमे सप्तमेऽपि वा ।दशमे नवमे वापि धनं राजाश्रयाद्‌ भवेत्‌ ॥ 62 ॥
  60. श्लोक 63लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते ।कारके शुभसंयुक्ते लाभस्तस्य नृपालयात्‌ ॥ 63 ॥
  61. श्लोक 64कारकात् तुर्यभावस्थौ सितेन्दू द्विजसत्तम ! ।यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः ॥ 64 ॥
  62. श्लोक 65कुंडली के 1 नियमलग्नेशे कारके वापि पंचमेशेन संयुते ।केन्द्रे कोणे स्थिते तस्मिन्‌ राजमित्रं भवेन्नरः ॥ 65 ॥
  63. श्लोक 66कुबेरश्च पतंगश्च हालांशश्च किरीटिकः ।विह्वलांशः समायांशो मोहनः किन्नरांशकः ॥ 66 ॥
  64. श्लोक 67भुजंगेन्द्रांशकौ लीलाकोकिलांशोत्तमः स्मृतः ।राशीनां द्वादशांशेषु ग्रहस्थित्या फलं वदेत्‌ ॥ 67 ॥
  65. श्लोक 68केन्द्रांशाश्चैषु शुभदाः राजयोगफलप्रदाः ।द्विषडष्टैकादशांशा मध्यमाः परिकीर्तिताः ॥ 68 ॥
  66. श्लोक 69अन्येंऽशास्त्वधमा ज्ञेया एवमंशविनिर्णयः ।ग्रहाणां चैव लग्नानामंशस्थित्या फलं वदेत्‌ ॥ 69 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।