अध्याय 37: धनयोगाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 37 (Dhan Yog)

46 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1अथातः सम्प्रवक्ष्यामि धनयोगं विशेषतः ।यस्मिन्‌ योगे समुत्पन्नो निश्चितो धनवान्‌ भवेत्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमपंचमे भृगुजक्षेत्रे तस्मिन्‌ शुक्रेण संयुते ।लाभे भौमेन संयुक्ते बहुद्रव्यस्यनायकः ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमपंचमे तु बुधक्षेत्रे तस्मिन्‌ बुधयुते सति ।चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमपंचमे च रविक्षेत्रे तस्मिन्‌ रवियुते सति ।लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमपंचमे तु शनिक्षेत्रे तस्मिन्‌ शनियुते सति ।लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमपंचमे तु कुजक्षेत्रे तस्मिन्‌ कुजयुते सति ।लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमपंचमे तु शशिक्षेत्रे तस्मिन्‌ शशियुते सति ।शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमभानुक्षेत्रगते लग्ने तस्मिन्‌ भानुयुते सति ।भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमचन्द्रक्षेत्रगते लग्ने तस्मिन्‌ भौमेन संयुते ।बुधेनगुरुणा दृष्टे युक्ते जातो धनी भवेत्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमभौमक्षेत्रगते लग्ने तस्मिन्‌ भौमेन संयुते ।सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत्‌ ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमबुधक्षेत्रगते लग्ने तस्मिन्‌ बुधयुते सति ।शनि जीवयुते दृष्टे जातो धनयुतो भवेत्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमगुरु क्षेत्रगते लग्ने तस्मिन्‌ गुरुयुते सति ।बुधभौमयुते दृष्टे जायते धनवान्नरः ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमभृगुक्षेत्रगते लग्ने तस्मिन्‌ भृगुयुते सति ।शनिसौम्ययुते दृष्टे जातः स धनिको भवेत्‌ ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमशनिक्षेत्रगते लग्ने तस्मिन्‌ शनियुतेसति ।भौमेन गुरुणा दृष्टे युते जातो धनैर्युतः ॥ 14 ॥
  15. श्लोक 15धनदौ धर्मधीनाथौ ताभ्यां ये वा युता ग्रहाः ।तेऽपि स्वस्वदशाकाले धनदा नात्र संशयः ॥ 15 ॥
  16. श्लोक 16रन्ध्रव्ययेशौ खेटाश्च ताभ्यां युक्तेक्षिताश्च ये ।शोकप्रदा भवेयुस्ते पुनः मारकनायकैः ॥ 16 ॥
  17. श्लोक 17ग्रहाणां स्थानभेदेन क्रूरसौम्य विभागतः ।बलाबल विवेकेन फलं वाच्यं विचक्षणैः ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमविष्णुस्थानं च केन्द्रं स्याल्लक्ष्मी स्थानं त्रिकोणकम्‌ ।तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमपारिजाते स्थितौ तौ चेन्‌ नृपो लोकानुरक्षकः ।उत्तमे चोत्तमो भूपो गजवाजिरथादिमान्‌ ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमगोपुरे नृपशार्दूलः पूजितांघ्रिर्नृपैर्भवेत् ।सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमअस्मिन्‌ योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा ।बलिर्वैश्वानरो राजा अन्ये चैवतु चक्रपाः ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमवर्तमानयुगे जातस्तथा राजा युधिष्ठिरः ।भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमनागार्जुनस्तथा भूपस्तदन्ये चैव गोपुरे ।पारावतांशकेऽन्ये च जाता मन्वादयस्तथा ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमदेवलोके च प्रथमे हरेश्चैवावतारणम् ।मत्स्यादि कल्किपर्यन्ताः सर्वे वर्गोद्भवा मताः ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमद्वितीये देवलोके तु ज्ञेया इन्द्रादयः परे ।ऐरावते च प्रथमे जातः स्वायम्भुवो मनुः ॥ 25 ॥
  26. श्लोक 27कुंडली के 1 नियमऐरावतादिसंस्थेषु जाता लोकोत्तराः समे ।अनेनैव प्रकारेण वेत्ति सर्वत्र बुद्धिमान् ॥ 27 ॥
  27. श्लोक 28केन्द्रेशः पारिजातस्थस्तदा दाताभवेन्नरः ।उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक्‌ ॥ 28 ॥
  28. श्लोक 29सिंहासने भवेन्मान्यः शूरः पारावतांशके ।सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मतः ॥ 29 ॥
  29. श्लोक 30ऐरावतांशके तुष्टो दिग्योगो नैव जायते ।पारिजाते सुताधीशे विद्या चैव कुलोचिता ॥ 30 ॥
  30. श्लोक 31उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ।सिंहासने तथा वाच्या साचिव्येन समन्विता ॥ 31 ॥
  31. श्लोक 32पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ! ।सुतेशे देवलोकस्थे कर्मयोगी च जायते ॥ 32 ॥
  32. श्लोक 33उपासना ब्रह्मलोके भक्तिस्त्वैरावतांशके ।धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि ॥ 33 ॥
  33. श्लोक 34पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ।गोपुरे मखकर्ता च परे चैवात्र जन्मनि ॥ 34 ॥
  34. श्लोक 35सिंहासने भवेद्‌ वीरः, सत्यवादी जितेन्द्रियः ।सर्वधर्मान्‌ परित्यज्य ब्रह्मैकपदमाश्रितः ॥ 35 ॥
  35. श्लोक 36पारावते च परमो हंसश्चैवात्र जन्मनि ।लगुडी वा त्रिदण्डी वा देवलोके न संशयः ॥ 36 ॥
  36. श्लोक 37ब्रह्मलोके शक्रपदं याति कृत्वाश्वमेधकम् ।ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति ।यथा रामः कुन्तिपुत्रस्तथा जातो द्विजोत्तम ॥ 37 ॥
  37. श्लोक 38त्रिषडायाष्टरिःफेशाः पारिजाते व्यवस्थिताः ।फलदास्ते ह्यन्य भवे भावे यत्र व्यवस्थिताः ॥ 38 ॥
  38. श्लोक 39इहस्वे चोत्तमास्ते ते तृतीये मध्यमा मताः ।चतुर्थे ते च राजानः पंचमे गुरवो मताः ॥ 39 ॥
  39. श्लोक 40भूदेवाश्च तथा षष्ठे देवाज्ञेयाश्च सप्तमे ।अष्टमे पशवो ज्ञेया दुःखदाश्चात्र जन्मनि ॥ 40 ॥
  40. श्लोक 41दुःस्थाश्चैव भवन्त्येते तदा तेनैव बाधकाः ।केन्द्रकोणस्थिताश्चैव बाधकाः नात्र जन्मनि ॥ 41 ॥
  41. श्लोक 42समे भवेन्नराणां च विषमे स्यान्मृगीदृशाम्‌ ।षष्ठे वै चोरितं द्रव्यं ह्यष्टमे हननं कृतम्‌ ॥ 42 ॥
  42. श्लोक 43हननं हरणं रिःफे तृतीये कैतवं कृतम्‌ ।पौश्चल्यं बन्धने प्रोक्तं कृतघ्नत्वं च सम्मतम्‌ ॥ 43 ॥
  43. श्लोक 44कुंडली के 12 नियमलग्नवित्तौ, स्वदुश्चिक्यौ त्रितुर्यौ तुर्यपंचमौ ।द्विषात्मजौ षष्ठमारौ स्त्रीरन्ध्रौ मृतिभाग्यकौ ॥ 44 ॥
  44. श्लोक 45कुंडली के 12 नियमधर्मकर्म खलाभौ च रिःफलाभौ तनुव्ययौ ।सम्बन्धस्तु द्वयोरेवं कथंचित्फलमुच्यते ॥ 45 ॥
  45. श्लोक 46कुंडली के 12 नियमलाभयोगो राजभृत्यं चमूपत्वं च मन्त्रिता ।दारुणं कर्मराजत्वं क्रमात्‌ प्रिया मृतिं तथा ॥ 46 ॥
  46. श्लोक 47कुंडली के 12 नियमभाग्यव्ययं राजयोगो भूमिद्रव्यमृणं व्ययम्‌ ।वित्तहानिर्द्वादशैते योगा वै सर्वदा मताः ॥ 47 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।