अध्याय 41: वृत्तिनिर्णयाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 41 (Vritti Nirnay)

59 श्लोक

  1. श्लोक 1कुंडली के 1 नियमलग्नादिन्दोश्च दशमं प्रबलं वृत्तिदायकम्‌ ।तदीशात्‌ तत्रगात्‌ खेटात्तदंशेशाच्च चिन्तयेत्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमतद्द्रष्टुश्च तद्राशेः स्वभावोत्थं वदेत्पुमान्‌ ।तेषां वृद्ध्या भवेद्‌ वृद्धिरन्यथान्यत्‌ फलं स्मृतम्‌ ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमकृष्युद्यानद्यूतादिसेवाव्यापारतोऽथवा ।रसासवादिवृत्या वा नरा जीवन्ति मेषगे ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमजांगलैः कर्मभिर्धान्यसंग्रहान्मृगपक्षिणः ।शकटेभ्यो वदेद्विप्र ! वृषे वृत्तिं तु प्राणिनाम्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियममिथुने जलव्यापाराज्जलजैर्वस्तुभाण्डकैः ।गणितैर्लिपिकार्यैर्वा रतिजैर्धनजैरपि ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमशस्त्राग्नियोनिपोषाच्च गणितैर्मृगयादिभिः ।मणीनां खनिजानां वा कुलीरे च वदेद्‌ धनम्‌ ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमस्वर्णाभूषणपाषाणरूप्यकूटैश्चतुष्पदैः ।कृषिगोरक्ष्यधान्यानां व्यापारो वा मृगाधिपे ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमशाकटाः मणिकारा वा हैरण्या गन्धिकास्तथा ।गान्धर्वशिल्पलेख्यैर्वा नराः जीवन्ति षष्ठभे ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमव्यापारैर्बहुभिः पृथुलैः पणिकर्मरताः सदा ।नानापण्यसमृद्धाश्च पशुजीवाः कृषीवलाः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमकलाशिल्पप्रयोगैर्वा हिरण्यपरिवर्तनैः ।न्यायाधिकरणाच्चैव तुलायां वृत्तिभागिनः ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमवृश्चिके सेवकाः पापाश्चौराः लौहकराः नराः ।नारी सम्पर्क विभवाः नित्योद्युक्ताः शठाः अपि ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमदेहचिकित्सकाः कूटप्रयोगेषु रताः खलाः ।वधबन्धनकार्यैर्वा वृत्तिं कुर्वन्ति प्राणिनः ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमसचिवा दुर्गपाला वा वैद्या वीराः धनुर्धराः ।यन्त्रोपस्करगणिताद्यैः शकुनैर्वाजिकाष्ठकैः ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियमधनुर्धरे शस्त्रविद्यारताः संग्रामिणो नराः ।मकरे जलपण्येन काष्ठशिल्परसायनैः ॥ 14 ॥
  15. श्लोक 15कुंडली के 2 नियमवृक्षारोहैरुपवनैः नराः कुर्वन्ति जीविकाम्‌ ।कुम्भे शस्त्रास्त्रभेदैश्च चौर्य बाहुबलैरपि ॥ 15 ॥
  16. श्लोक 16कुंडली के 2 नियमखननाद्दहनाच्चापि भाराद्वा वृत्तिभागिनः ।मीने मीनाच्च शस्त्राच्च रतिकार्याद्‌ विचक्षण ॥ 16 ॥
  17. श्लोक 17कुंडली के 2 नियमसलिलाद्‌ वा तत्सम्पर्कात्‌ वाहाद्‌ वा जीविकां वदेत्‌ ।राश्यंशवर्गसंयोगात्‌ सर्वं ब्रूयाद्‌ बलाबलात्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 2 नियमकर्मेशस्थनवांशेशवशाद्वृत्तिं वदेत्पुनः ।सूर्यादौषधपण्येन स्वर्णपान रसायनात्‌ ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियममुक्तामणीनां सम्बन्धात्‌ तृणदूतोर्णसेवया ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियममन्त्रोपदेशरसवादविनोदमार्गै - वृत्तिं जगुः सकलशास्त्रपुराणमार्गैः-ज्ञानोपदेशपथिभिः क्षितिपालपूज्यो ।जीवत्यसौ खलु पुमान्‌ दिननायकांशे ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमक्रमाच्छृंगात्‌ कृषेः लिप्यात्‌ चामरादेश्च विक्रयात्‌ ।सेवापैशुन्यवादेभ्यः धनयोगाच्चिकित्सया ।प्रेतकार्याच्च दुष्कार्याद्‌ यात्रायाः पाणिपीडनात्‌ ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमजलोद्भवानां क्रयविक्रयेण कृषेश्च मृद्वादविनोद मार्गात्‌ ।राजांगनासंशयवृत्तिरूपान्निशाकरांशे वसनक्रयाद्‌ वा ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमसुरते स्त्रीषु मैत्रे वा राज्ञः पुरुषमित्रता ।वस्त्रादिधनसिद्धिश्च ब्राह्मणेन विरोधिता ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमशंखमाणिक्यमुक्तानां खनिजानां च विक्रयात्‌ ।देशत्यागात्तथा युद्धे पराभवबलक्षयात्‌ ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमधातोर्विवादेन रणप्रहारात्स्तब्धाग्निवादात्कलहप्रवृत्या ।जीवत्यसौ साहसमार्गरूपया धरासुतांशे यदि चोरवृत्या ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमस्वर्णताम्रादि संस्कारात्‌ नारीदासादियोगतः ।बन्धुवादाद्रिपुवर्गात्‌ चांचल्याद्‌ वा बलक्षयात्‌ ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमबलप्रयोगान्नृपतेः वस्त्रान्नाग्नि गृहक्षयात्‌ ।पारदशैलभूमेश्च रुधिरादतिसाहसात्‌ ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमवेदार्थवेदाध्ययनाज्जपाद्‌ वा पुरोहितव्याजवशात्‌ प्रवृत्तिः ।शिल्पादिकाव्यागमशास्त्रमार्गाज्ज्योतिर्गणज्ञानवशाद्‌ बुधांशे ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमदूतसाचिव्यहास्याद्वा वैद्यकाद्यमपक्षिणः ।वनस्पतीनां व्यापारात्‌ धनादीनां प्रयोगतः ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमजीवांशके भूसुरदेवतानामुपासकाध्यापनमार्गभेदात्‌ ।पुराणशास्त्रागमनीतिमार्गाद्‌ धर्मोपदेशेन कुसीदमाहुः ॥ 30 ॥
  31. श्लोक 31कुंडली के 1 नियमअधिकाराद्गुरुत्वाद्वा मानासनशयनायनात्‌ ।गर्भाधानाच्च मांगल्याद्‌ वृत्तिं कुर्वन्ति प्राणिनः ॥ 31 ॥
  32. श्लोक 32कुंडली के 1 नियमसुवर्णमाणिक्य गजाश्वमूलाद्‌ गवां क्रयाज्जीवनमाहुरार्याः ।गुडौदनक्षीरदधिक्रयेण स्त्रीणां प्रलोभन भृगोः सुतांशे ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमपाठको याजकश्चैव सेनानीस्तीर्थकृत्‌ धनैः ।अमात्यः सेवकश्चापि भारकः पूर्तकृत्‌ तथा ॥ 33 ॥
  34. श्लोक 34कुंडली के 1 नियमशन्यंशके कुत्सितमार्ग वृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ।विन्यस्तभाराज्जनविप्रलंभादन्योन्यवैरोद्भवमूलमार्गात्‌ ॥ 34 ॥
  35. श्लोक 35कुंडली के 1 नियमदासवृत्तिः कदन्नानां त्रपुसीसकविक्रयात्‌ ।नीचस्त्रीपण्यसंगादेः भिक्षाया हीनशिल्पतः ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमउच्चादि पंचके खेटः शुभां वृत्तिं करोत्यसौ ।तदन्यत्रगतो नूनं हीनामिति विनिर्णयः ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमदशान्तर्दशादीनां फलं ज्ञात्वा मनीषिणः ।तत्सम्बन्धिभुक्तौ तु तद्दशायां वदेत्‌ फलम्‌ ॥ 37 ॥
  38. श्लोक 38विशेषं तु प्रवक्ष्यामि विप्र ! उत्तरखण्डके ।कर्मेशाध्युषितांशेश ग्रहैर्वा खस्थितैः पुनः ॥ 38 ॥
  39. श्लोक 39कारकत्ववशात्‌ पितृमातृभ्रातृकलत्रतः ।रिपुबन्धुतनूजादेर्धनं वाच्यं यथाविधि ॥ 39 ॥
  40. श्लोक 40स्वांशे वर्गोत्तमे केन्द्रे, पुण्येशे कारकेऽथवा ।राज्यारूढपदे वापि तदा सिद्ध्ये रसायनम्‌ ॥ 40 ॥
  41. श्लोक 41कारके कारकारूढे धने स्वोच्चर्क्षगे खगे ।ऋद्धिसिद्धियुतं नूनं भवेत्तन्त्ररसायनम्‌ ॥ 41 ॥
  42. श्लोक 42धर्मकर्माधिपौ स्वोच्चे तथा वर्गोत्तमे यदि ।नवमे पंचमे लाभे राज्याप्तिर्वा रसायनम्‌ ॥ 42 ॥
  43. श्लोक 43मूलत्रिकोणगे लग्ने कारकेशो द्विजोत्तम ! ।मन्त्रनाथेन संयुक्तः कीर्तियुक्तरसायनम्‌ ॥ 43 ॥
  44. श्लोक 44धर्मेशो धर्मलाभस्थः पंचमेशोऽपि पंचमे ।कारकेन्द्रयुते दृष्टे स्वेच्छापूर्णधनानि च ॥ 44 ॥
  45. श्लोक 45स्वोच्चादि पदसंयुक्ते कारकांशः शुभालये ।सततं सुखमाप्नोति धातुभस्मरसायनात्‌ ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमसुखेशे मानभावस्थे मानेशे सुखसंयुते ।लग्नकारकयोर्दृष्टे भिषग्योगोऽति सम्मतः ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमकर्मेशो नवमे यस्य सुखेशः पंचमेऽपि वा ।परस्परं तदीशो वा स्वर्णाप्तिस्तत्र कर्मतः ॥ 47 ॥
  48. श्लोक 48स्वोच्चादि संस्थितः खेटः षड्वर्गबलवांश्च यः ।तस्याब्दे परतो नृणां सुखं भाग्योदयं तथा ॥ 48 ॥
  49. श्लोक 49जातयो जिनका हस्ती हस्ताः नेत्राग्नयः कलाः ।सिद्धा अंगगुणादस्र वेदाः सूर्यात्क्रमात्समाः ॥ 49 ॥
  50. श्लोक 50भाग्यं कर्म च वक्ष्यामि मैत्रेय ! शृणु सुव्रत ! ।भाग्यादेव नृणां सिद्धिर्भाग्यादेव धनागमः ॥ 50 ॥
  51. श्लोक 51यशांसि भाग्यतो भाग्यविपर्यासाद्‌ विपर्ययः ।करिष्यमाण कर्माणि ज्ञातव्यानि प्रयत्नतः ॥ 51 ॥
  52. श्लोक 52लग्नादिन्दोश्च नवमं भाग्यं बलवशाद्‌ भवेत्‌ ।शुभपापारिमित्राख्यैर्ग्रहैरेवं शुभाशुभैः ॥ 52 ॥
  53. श्लोक 53उच्चादिपंचकाद्‌ वृद्धिरन्यस्माद्‌ हानिरिष्यते ।स्वस्मिन्नन्यत्रविषये स्वदेशेतरदेशयोः ॥ 53 ॥
  54. श्लोक 54भाग्यत्रिकोणोपगतैः शुभं स्याद्‌ भाग्यं तु केन्द्रोपगतैः शुभैश्च ।पापैस्तथा स्यादशुभं च भाग्यं मित्रादिभिः स्यान्नियमो विशेषात्‌ ॥ 54 ॥
  55. श्लोक 55तत्तत्‌ खेटवशान्नित्यं कर्मभाग्यानुकूलता ।यथोक्तविधिना विप्र ! सम्यक्संचिन्तयेत्सदा ॥ 55 ॥
  56. श्लोक 56भावानां चैव सर्वेषां चन्द्र लग्नात्तु लग्नतः ।अंशदायोक्तवत्कृत्वा शुभपापदृगाहतम्‌ ॥ 56 ॥
  57. श्लोक 57षष्ट्याप्तं तद्बलाप्तं स्याद्‌ भ्रात्रादीनां च संख्यकाः ।रश्मिघ्नं च बलाप्तं च त्वनिष्टमपवादनम्‌ ॥ 57 ॥
  58. श्लोक 58गुरोरष्टकवर्गे तु गुरोः पंचमभावगान्‌ ।शुभबिन्दून्‌ ततो विप्र ! नीचास्तशत्रुगान्‌ त्यजेत्‌ ॥ 58 ॥
  59. श्लोक 59शेषा पुत्रादि संख्या स्यादेवं भ्रातृन्‌ वदेत्कुजात्‌ ।उच्चादिगे त्रिगुणितान्‌ स्वर्क्षे द्विगुणितान्‌ वदेत्‌ ॥ 59 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।