अध्याय 42: ग्रहावस्थाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 42 (Grah Avastha)
261 श्लोक · 6 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1आदित्यादि ग्रहाणां च ह्यवस्थाया पृथक् पृथक् ।तासां भेदान् यथायोगं कथय त्वं कृपानिधे ॥ 1 ॥
- श्लोक 2अवस्था विविधाः सन्ति ग्रहाणां च द्विजोत्तम ! ।मुख्यास्तासां तु बालाद्याः सारभूताः वदाम्यहम् ॥ 2 ॥
- श्लोक 3क्रमाद्बालः कुमारोऽथयुवा वृद्धस्तथामृतः ।षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥ 3 ॥
- श्लोक 4कुंडली के 5 नियमफलं पादमितं बाले फलार्धं च कुमारके ।यूनिपूर्णफलं ज्ञेयं वृद्धे किंचित् मृते मृतम् ॥ 4 ॥
- श्लोक 5त्रिंशदंशे त्रिभागं च कल्पयित्वा पृथक् पृथक् ।विषमादि क्रमेणैव समे वै विपरीतकम् ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमविज्ञाय प्रथमं पुंसां जाग्रत्स्वप्नसुषुप्तिकाः ।विशेषेण परीक्षा स्याज्जाग्रतः कार्यसाधकः ॥ 6 ॥
- श्लोक 7कुंडली के 2 नियमस्वप्नावस्था मध्यफला विज्ञेया मुनिसत्तम ! ।निष्फला चरमावस्था फलमेवं हि कल्पितम् ॥ 7 ॥
- श्लोक 8कुंडली के 3 नियमस्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः ।जाग्रत्स्वप्न सुषुप्त्याख्या अवस्था नामवत्फलाः ॥ 8 ॥
- श्लोक 9दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः ।विकलश्च खलः कोपीत्यवस्था नवधापराः ॥ 9 ॥
- श्लोक 10उच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे ।मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥ 10 ॥
- श्लोक 11शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः ।खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ 11 ॥
- श्लोक 12अवस्थात्रितयेपूर्णं द्विके मध्यं ततोऽफलम् ।यद्भावगो भवेत्खेटस्तथा ज्ञेयं फलं बुधैः ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमपाके प्रदीप्तस्य धराधिपत्यमुत्साहशौर्य धनवाहनैश्च ।स्त्रीपुत्रलाभं शुभबन्धुपूजां क्षितीश्वरान्मानमुपैति विद्याम् ॥ 13 ॥
- श्लोक 15कुंडली के 2 नियममुदान्वितस्यापि दशाविपाके वस्त्रादिकं गन्धसुतार्थधैर्यम् ।पुराणधर्मश्रवणादिलाभं गजादियानाम्बरभूषणाप्तिम् ॥ 15 ॥
- श्लोक 16कुंडली के 1 नियमदशाविपाके सुखधर्ममेति शान्तस्यभूपुत्रकलत्रयानम् ।विद्याविनोदान्वितधर्मशास्त्रं बह्वर्थदेशाधिपपूज्यतां च ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमस्थानच्युतिर्बन्धुविरोधिता च दीनस्य खेटस्य दशाविपाके ।जीवत्यसौ कुत्सितहीनवृत्या त्यक्तो जने रोगनिपीडितः स्यात् ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमदुःखार्दितस्यापि दशाविपाके नानाविधं दुःखमुपैति नित्यम् ।विदेशगो बन्धुजनैर्विहीनश्चोराग्निभूपैर्भयमातनोति ॥ 18 ॥
- श्लोक 19कुंडली के 1 नियमवैकल्य खेटस्य दशाविपाके वैकल्यमायाति मनोविकारम् ।मित्रादिकानां मरणं विशेषात्स्त्रीपुत्रयानाम्बरचोरपीडाम् ॥ 19 ॥
- श्लोक 20कुंडली के 1 नियमदशाविपाके कलहं वियोगं खलस्य खेटस्य पितुर्वियोगम् ।शत्रोर्जनानां धनभूमिनाशमुपैति नित्यं स्वजनैश्च निन्दाम् ॥ 20 ॥
- श्लोक 21कुंडली के 1 नियमकोपान्वितस्यापि दशा विपाके पापाः समायान्ति बहुप्रकारैः ।विद्याधनस्त्रीसुतबन्धुनाशं पुत्रादि कृच्छ्रं त्वथ नेत्ररोगम् ॥ 21 ॥
- श्लोक 22लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा ।मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमपुत्रगेहगतः खेटो राहु केतुयुतोऽथवा ।रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमतुंगस्थानगतो वापि त्रिकोणेऽपि भवेत्पुनः ।गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमशत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदा ।क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमजलराशौ स्थितः खेटः शत्रुणा चावलोकितः ।शुभग्रहाः न पश्यन्ति तृषितः स उदाहृतः ॥ 26 ॥
- श्लोक 27कुंडली के 1 नियममित्रगेही मित्रयुक्तो मित्रेण च विलोकितः ।गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमरविणा सहितो यश्च पापाः पश्यन्ति सर्वथा ।क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमयेषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा ।क्षुधितः क्षोभितोवापि तद्भावस्य विनाशनम् ॥ 29 ॥
- श्लोक 30कुंडली के 1 नियमएवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः ।बलाबल विचारेण वक्तव्यः फलनिर्णयः ॥ 30 ॥
- श्लोक 31कुंडली के 1 नियमअन्योन्यं च मुदायुक्तं फलं मिश्रं वदेत्पुनः ।बलहीने तदा हानिः सबले च महाफलम् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमकर्मस्थाने स्थितो यस्य लज्जितस्तृषितोऽथवा ।क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥ 32 ॥
- श्लोक 33कुंडली के 1 नियमसुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च ।सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वथा ॥ 33 ॥
- श्लोक 34कुंडली के 1 नियमक्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् ।म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ 34 ॥
- श्लोक 35कुंडली के 1 नियमनृपालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् ।सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥ 35 ॥
- श्लोक 36कुंडली के 1 नियमभवति मुदित योगे वासशाला विशाला, विमलवसनभूषा भूमियोषासु सौख्यम् ।स्वजनजनविलासो भूमिपागारवासो, ।रिपुनिवहविनाशो बुद्धिविद्याप्रकाशः ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमदिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् ।सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥ 37 ॥
- श्लोक 38कुंडली के 1 नियमसंक्षोभितस्यापि फलं विशेषाद् दरिद्रजातं कुमतिं च कष्टम् ।करोति वित्तक्षयमंघ्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमक्षुधितखगवशाद्वै शोकमोहादिपातः ।परिजनपरितापादाधिभीत्या कृशत्वम् ।कलिरपि रिपुलोकैरर्थबाधा नराणा- ।मखिलबलनिरोधो बुद्धिरोधो विषादात् ॥ 39 ॥
- श्लोक 40कुंडली के 1 नियमतृषितखगभवे स्वांगनासंगमध्ये, भवति गदविकारो दुष्टकार्याधिकारः ।निजजनपरिवादादर्थहानिः कृशत्वं ।खलकृतपरितापो मानहानिः सदैव ॥ 40 ॥
- श्लोक 41शयनं चोपवेशं च नेत्रपाणिः प्रकाशनम् ।गमनागमनं चाथ सभायां वसतिस्तथा ॥ 41 ॥
- श्लोक 42आगमं भोजनं चैव नृत्यलिप्सां च कौतुकम् ।निद्रा ग्रहाणां चेष्टादिं कथयामि तवाग्रतः ॥ 42 ॥
- श्लोक 43यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् ।पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥ 43 ॥
- श्लोक 44यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः ।रविभिस्तु हरेद्भागं शेषं कार्ये नियोजयेत् ॥ 44 ॥
- श्लोक 45नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् ।नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥ 45 ॥
- श्लोक 46रवौ पंच तथा देयाश्चन्द्रे दद्याद्द्वयं तथा ।कुजे द्वयं च संयुक्तं बुधे त्रीणि नियोजयेत् ॥ 46 ॥
- श्लोक 47गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे ।शनौ त्रयमथोदेयं राहौ दद्याच्चतुष्टयम् ॥ 47 ॥
- श्लोक 48त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिविधा मता ।दृष्टिश्चेष्टा विचेष्टा च तत्फलं कथयाम्यहम् ॥ 48 ॥
- श्लोक 49दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् ।विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥ 49 ॥
- श्लोक 50शुभाशुभं ग्रहाणां च समीक्ष्याथ बलाबलम् ।तुंगस्थाने विशेषेण बलं ज्ञेयं तथा बुधः ॥ 50 ॥
- श्लोक 51मन्दाग्नि पित्तशूली च श्लीपदी च न संशयः ।गुह्यस्थाने भवेद् रोगी जायते शयने रवौ ॥ 51 ॥
- श्लोक 52उपवेशेभवेच्छिल्पीदारिद्र्यामयसंयुतः ।विद्याविरहितो दुःखी परसेवासु तत्परः ॥ 52 ॥
- श्लोक 53पंचमे नवमे वापि दशमे सप्तमेऽपि वा ।नेत्रपाणौ यदासूर्यः सर्वसौख्यसमन्वितः ॥ 53 ॥
- श्लोक 54बली वित्ताधिपो विद्वान् जातः संजायते पुनः ।अन्यगृहे भवेत्क्रूरो जलदोषी भवेन्नरः ।चक्षुरोगी महाक्रोधी परद्वेषी पुमान् सदा ॥ 54 ॥
- श्लोक 55पुण्यवान् धार्मिकश्चैव धनवांश्च प्रकाशने ।दाता भोक्ता भवेन्मानी राजपुत्रो धनाधिपः ॥ 55 ॥
- श्लोक 56सप्तमे पंचमे वापि प्रकाशे च यदा रविः ।नाशयेत्प्रथमापत्यं कलत्रं च विशेषतः ॥ 56 ॥
- श्लोक 57प्रवासी गमने सूर्यो पादमूले रुजान्वितः ।निद्रालस्यभयक्रोधैः संयुतो जायते नरः ॥ 57 ॥
- श्लोक 58क्रूरः कुबुद्धिः कुशलो दाम्भिकः कृपणस्तथा ।परदारेष्वभिरुचिर्नरस्यागमने रवौ ॥ 58 ॥
- श्लोक 59सप्तमे द्वादशे वापि यदि सूर्यो भवेत्क्वचित् ।अपत्यं नाशयेत्तस्य धनमल्पं प्रयच्छति ॥ 59 ॥
- श्लोक 60धार्मिको धनवांश्चापि नानाविद्यासमन्वितः ।प्रियदृष्टिः शुचिर्वक्ता सभायां तपने जने ॥ 60 ॥
- श्लोक 61क्षोभितो दुःखितश्चैव नानादुःखप्रदायकः ।आगमे च भवेन्मूर्खः कुरूपो धनवान् भवेत् ॥ 61 ॥
- श्लोक 62भोजने च यदा सूर्ये स्त्रीपुत्रधनैर्गतः ।सन्धिरोगी शिरःशूली, दुष्टोऽसत्कार्यतत्परः ॥ 62 ॥
- श्लोक 63नवमे च यदा सूर्यो भोजनस्थो यदा भवेत् ।तदा पुण्ये महाविघ्नं करोति च न संशयः ॥ 63 ॥
- श्लोक 64पण्डितः सुन्दरो वाग्मी नृत्यलिप्सा गते रवौ ।शूलरोगी भवेन्नित्यं धनवान् धार्मिको मतः ॥ 64 ॥
- श्लोक 65उत्साही च महापुत्री कौतुकस्थे रवौ जनः ।दाता भोक्ता महाभोगी द्विभार्यो बहुभाषकः ॥ 65 ॥
- श्लोक 66क्षतार्तस्तस्य देहः स्याद् दद्रुरोगी भवेच्च सः ।महादक्षो महाक्रोधी जायते च नरोत्तमः ॥ 66 ॥
- श्लोक 67सप्तमे पंचमे वापि यदि दैवाद् भवेत्पुनः ।कलत्रं नाशयेत्तस्य प्रथमापत्यं तु निश्चितम् ॥ 67 ॥
- श्लोक 68षष्ठस्थाने भवेद्वापि सर्वशत्रुविनाशनः ।जाड्यं च लभते जातः सभायां कौतुके रवौ ॥ 68 ॥
- श्लोक 69नित्यं प्रवासी दुःखी च दरिद्रो विकलो महान् ।लिंगान्तर्गुदरोगी स्यात्क्रोधेनारक्त लोचनः ।निद्रायां च भवेद् भानौ जायाहानिर्विशेषतः ॥ 69 ॥
- श्लोक 70जनुःकाले क्षपानाथे शयनं चेदुपागते ।मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥ 70 ॥
- श्लोक 71गुह्यस्थाने भवेद्रोगी विलग्ने चेद् विधुस्तदा ।अन्यभावे यदा जातो न तादृग्दोषभाग् भवेत् ॥ 71 ॥
- श्लोक 72कृष्णपक्षे भवेद् वापि कृपणो दाम्भिकस्तथा ।भक्षकश्च महाशूरो लम्पटः परनिन्दकः ॥ 72 ॥
- श्लोक 73उपवेशे च रोगी च धनहीनो भवेन्नरः ।कुटिलः कृपणश्चैव धीजडोऽकार्य तत्परः ॥ 73 ॥
- श्लोक 74नेत्रपाणौ क्षपानाथे महारोगी खलो भवेत् ।अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ 74 ॥
- श्लोक 75प्रकाशे खलु राकेशे धनवांश्च भवेन्नरः ।सिते प्रकाण्डदेहः स्यात्कृपणस्तीर्थरुचिस्ततः ॥ 75 ॥
- श्लोक 76प्रवासी वित्तहीनश्च क्रूरकर्मा सनेत्ररुक् ।गमने चन्द्रे शूलैः स्तब्धः कृष्णे शुक्ले भयातुरः ॥ 76 ॥
- श्लोक 77विधावागमने मानी पादरोगी नरो भवेत् ।गुप्तपापरतो दीनो मतितुष्टश्च मायिकः ॥ 77 ॥
- श्लोक 78दाता च धार्मिकश्चैव राजमान्यो भवेत्सदा ।सभायां च विधौ पुष्टे जायते पुरुषोत्तमः ॥ 78 ॥
- श्लोक 79विधावागमके मर्त्यो वाचालो धार्मिकः सदा ।कृष्णपक्षे द्विभार्यः स्यात् कन्यासन्तानवांस्तथा ॥ 79 ॥
- श्लोक 80भोजनस्थे विधौ जातः चारुबिम्बे सुखी धनी ।यानस्त्रीसुतसंयुक्तः क्षीणे सर्पाज्जलाद्भयम् ॥ 80 ॥
- श्लोक 81नृत्यलिप्सा गते चन्द्रे सबले बलवान्नरः ।दाता भोक्ता तथा मानी धनवांश्च भवेन्नरः ॥ 81 ॥
- श्लोक 82गीतज्ञो हि रसज्ञश्च कृष्णे रोगी महाकृशः ।क्रूरकर्मा प्रवासी च श्लीपदी जायते पुमान् ॥ 82 ॥
- श्लोक 83धनवान् बहुपुत्रश्च दाता च जायते नरः ।कौतुके च भवेद्भूपो नानाविद्यासु तत्परः ॥ 83 ॥
- श्लोक 84नवमे दशमे वापि सर्वसौख्यं प्रयच्छति ।तदा सर्वं शुभं विद्यात् न दरिद्री कदाचन ॥ 84 ॥
- श्लोक 85निद्रायां स्थिते चन्द्रे क्लेशी पापी रुजान्वितः ।पुत्रशोको महादुःखी कष्टं भ्रमति मेदिनीम् ॥ 85 ॥
- श्लोक 86कर्मस्थाने विशेषेण ज्ञेयमेवं सदा बुधैः ।अन्यभावे परद्वेषी प्रवासी शूलपीडितः ॥ 86 ॥
- श्लोक 87सुतस्थाने सप्तमे च भोजने भक्ष्यलुब्धकः ।विधौ निद्रागते तत्र सर्वभद्रं भवेन्नृणाम् ॥ 87 ॥
- श्लोक 88राहुणासहिते चन्द्रे यदि निद्रामुपागते ।तदा सर्वविनाशः स्यात् बहुदोषा विशेषतः ॥ 88 ॥
- श्लोक 89शयने वसुधापुत्रे व्रणयुक्तो भवेन्नरः ।लग्नस्थे बहुरोगी स्यात् दद्रुकुष्ठविचर्चकैः ॥ 89 ॥
- श्लोक 90पंचमे सप्तमे वापि शयनस्थो यदा कुजः ।नाशयेत्प्रथमापत्यं नारीं च प्रथमां पुनः ॥ 90 ॥
- श्लोक 91पंचमस्थो यदा भौमो रिपुणा चावलोकितः ।भुजच्छेदो भवेन्नूनं कर्णच्छेदोऽथवा पुनः ॥ 91 ॥
- श्लोक 92शनिराहुसमायुक्तः स च भौमो यदा भवेत् ।तदा तस्य शिरच्छेदो ज्ञेयं मुनिपुंगव ॥ 92 ॥
- श्लोक 93उपवेशगते भौमे जायते च नराधमः ।धनवान् निष्ठुरः पापी ज्ञानहीनश्च जायते ॥ 93 ॥
- श्लोक 94धर्महीनः पापशीलः सरोगो विकलो महान् ।यदि लग्ने विशेषेण फलमूह्यं द्विजर्षभ ॥ 94 ॥
- श्लोक 95नवमे दशमे भौमे तथाभूते तु जायते ।सर्वनाशो विशेषेण जायापुत्रादि सन्ततेः ॥ 95 ॥
- श्लोक 96शुभैर्यदि समायुक्तो मित्रयुक्तो भवेत्कुजः ।बलाबलानुसारेण विपरीतं फलं भवेत् ॥ 96 ॥
- श्लोक 97यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः ।चक्षुर्हीनः कुलत्यक्तः दारिद्र्येणैव दह्यते ॥ 97 ॥
- श्लोक 98अन्यस्थाने स्थिते भौमे सर्वसौख्यं वदेत्पुनः ।देहमान्द्यं भवेत् किंचिदौत्पातिकभयं भवेत् ॥ 98 ॥
- श्लोक 99द्वितीये सप्तमे वापि धनहीनो भवेन्नरः ।जाया च म्रियते तस्य भूमिजीवी भवेत्सदा ॥ 99 ॥
- श्लोक 100प्रकाशने कुजे जातः धनवान् क्षणिकः सुधीः ।क्षतादिर्वामनेत्रे च दारुणं पतनं भवेत् ॥ 100 ॥
- श्लोक 101यत्रतत्रस्थितो भौमः पापयुक्तो भवेद्यदि ।पतितं तं विजानीयाच्छनियुक्ते तु गोवधः ॥ 101 ॥
- श्लोक 102सुतस्थाने कलत्रे वा यदि भौमो भवेत्तथा ।तदा सर्वान् सुतान् हन्ति नारी चैव न संशयः ॥ 102 ॥
- श्लोक 103आगमने च संजातः प्रवासी नित्य दुःखितः ।क्षुद्रकर्मा महाधैर्यः स्त्रीवेषो बहुभाषकः ॥ 103 ॥
- श्लोक 104शरीरे च भवेद्रोगो दद्रुकुष्ठविचर्चिका ।चक्षुर्ज्वाला शिरोरोगी दन्तशूली भवेन्नरः ॥ 104 ॥
- श्लोक 105एतल्लग्ने भवेच्चैवमन्यभावेषु व्यत्ययात् ।नानाधनो महादक्षो राजपात्रो भवेन्नरः ॥ 105 ॥
- श्लोक 106किन्त्वस्य देहमान्द्यं स्याच्छरीरे सर्वदा पुनः ।दाता भोगी भवेच्चैव जायते च नरेश्वरः ॥ 106 ॥
- श्लोक 107गमने कुरुते भौमो व्रणघातं कलहं स्त्रिया ।गुदा रोगी धनैर्हीनः कुकर्मा जायते पुमान् ॥ 107 ॥
- श्लोक 108सभायां संस्थिते भौमे धार्मिको बहुसम्पदः ।तुङ्गे सत्त्वाधिको दाता गुणी धर्मध्वजो मतः ॥ 108 ॥
- श्लोक 109नवमे पंचमे भौमे सभायां समुपागते ।विद्याभाग्यविहीनः स्यात् कार्यविघ्नः पदे पदे ॥ 109 ॥
- श्लोक 110अन्यभावगते भौमे सभापूज्यो भवेज्जनः ।अन्ते पुत्रादिभिर्हीनो निर्बले सबलेऽन्यथा ॥ 110 ॥
- श्लोक 111आगमे संस्थिते भौमे दक्षश्च धनवान् भवेत् ।देहमान्द्यं सदा तस्य दाता भोगी यशोऽर्थभाक् ॥ 111 ॥
- श्लोक 112भोजने मिष्टभोजी च जनने सबले कुजे ।नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥ 112 ॥
- श्लोक 113स्वल्पाहारो महाक्रोधी नित्योत्साही धनान्वितः ।सुतस्थाने च रन्ध्रे च भोजने शयनेऽथवा ।तदा तस्यापमृत्युः स्यात् पशुभिर्हन्यते नरः ॥ 113 ॥
- श्लोक 114नृत्यलिप्सागते भौमे धनं तस्य नृपालयात् ।दाता भोक्ता सदा सौख्यं धनेशश्च भवेन्नरः ।द्वादशस्थे तु पुत्राणां नाशः स्याद् ब्रह्मणोदितम् ॥ 114 ॥
- श्लोक 115अष्टमे नवमे वापि नानादुःखप्रदायकः ।अपमृत्युभयं तस्य धर्महानिः प्रजायते ॥ 115 ॥
- श्लोक 116लग्ने द्वितीयगो वापि कर्मस्थाने स्थितोऽपि वा ।सप्तमेऽपि यदा भौमः सर्वसौख्यप्रदायकः ॥ 116 ॥
- श्लोक 117कौतुके क्षितिजे जातो मित्रपुत्रादिसंयुतः ।नानाधनसमायुक्तो द्विभार्यो बहुकन्यकः ॥ 117 ॥
- श्लोक 118पंचमे सप्तमे धर्मे तथा भूते कुजे पुनः ।सर्वं विलोमतो ज्ञेयमिति प्राग् ब्रह्मणोदितम् ॥ 118 ॥
- श्लोक 119निद्रावस्थां गते भौमे धनहीनः जडः पुमान् ।महाक्रोधी परिभ्रष्टः जायते च नराधमः ॥ 119 ॥
- श्लोक 120पंचमे सप्तमे वापि यस्य निद्रागतः कुजः ।तस्यापत्यस्य बाहुल्यं नानादुःखस्य वेदना ॥ 120 ॥
- श्लोक 121राहुणा सहितो भौमो यदि निद्रान्वितो भवेत् ।नाशयेत्प्रथमापत्यं दुःखभागी भवेन्नरः ॥ 121 ॥
- श्लोक 122धनवान् कलत्रबहुलो दाता बहुगुणान्वितः ।पादमूले सरोगः स्यादिति ज्ञेयं सदा बुधः ॥ 122 ॥
- श्लोक 123क्षुधातुरो भवेदंगे खंजो गुंजानिभेक्षणः ।अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥ 123 ॥
- श्लोक 124उपवेशे च यो जातो स वाग्मी गुणवान् भवेत् ।कविताशक्तिसम्पन्नो गौरवर्णो महा शुचिः ॥ 124 ॥
- श्लोक 125यदि पापसमायुक्तः शत्रुणा यदि वीक्षितः ।महापातक योगोऽयं विष्णुना परिकीर्तितः ॥ 125 ॥
- श्लोक 126स्वगृही मित्रसंयुक्तः नानासौख्यप्रदः ध्रुवम् ।पुण्यवान् धार्मिकश्चैव चक्षुरोगश्च केवलम् ॥ 126 ॥
- श्लोक 128पंचमस्थे यदा सौम्ये नेत्रपाणौ गतस्तदा ।पुत्रस्त्रीसौख्यहीनः स्यात् कन्या च बहुला भवेत् ॥ 128 ॥
- श्लोक 129प्रकाशने गते सौम्ये दाता धर्मधनान्वितः ।नाना विद्यायुतो जातः जायते वेदपारगः ॥ 129 ॥
- श्लोक 130गमने संस्थिते भौमे जातो दक्षश्च लम्पटः ।स्त्रीवशो दुष्टभार्यश्च बहुरोगसमन्वितः ॥ 130 ॥
- श्लोक 131नाना दुःखं भवेत्तस्य कामुको बहुभाषकः ।दन्तघाती भवेच्चैव कलहो नित्यमेव च ॥ 131 ॥
- श्लोक 132आगमने च सौम्ये तु जलदोषी भवेन्नरः ।वाणिज्यात् धनलाभश्च स्त्रीनाशो बंधुनाशकः ।मूर्खोऽथविकलश्चैव सर्पाद्भीतिः जलाद्भयम् ॥ 132 ॥
- श्लोक 133सभायामपि यो जातः धनवान् धार्मिकस्तथा ।पुण्यवान् जन समृद्धः चिररोगी भवेच्च सः ॥ 133 ॥
- श्लोक 134पंचमे द्वादशे वापि कन्यापत्यं नरस्य च ।सप्तमे तु सुखं विद्यात् कृष्णवर्णो दुरासदः ॥ 134 ॥
- श्लोक 135आगमके भवेत्सौम्यः पापशीलो भवेन्नरः ।हीनानां सेवया द्रव्यं पुत्रयुग्मं भवेत्ततः ॥ 135 ॥
- श्लोक 136गुह्य स्थाने भवेद्रोगं मूत्रकृच्छ्रं सुदारुणम् ।भोजने च बुधे जातो धनहानिस्तु वादकः ॥ 136 ॥
- श्लोक 137राजभीतिः कृशत्वं च शिरोरोगी विशेषतः ।परद्वेषी प्रवासी च मतिः स्यात्तस्य चंचला ॥ 137 ॥
- श्लोक 138नृत्यलिप्सा गते सौम्यः धनवान् पंडितः कविः ।मानी यानव्रजी युक्तः महाहृष्टो सुखी सदा ।पापक्षेत्रे गते सौम्ये वेश्यागामी भवेन्नरः ॥ 138 ॥
- श्लोक 139कौतुके च यदा सौम्यः भवेत्सर्वजन प्रियः ।गीतविद्यानुगः स्यात् च त्वग्दोषी च न संशयः ॥ 139 ॥
- श्लोक 140पंचमे दशमे वापि पुत्रहानिः भवेत्सदा ।बहुला कन्यास्तस्य सप्तमे नैधने पुनः ॥ 140 ॥
- श्लोक 141वारवध्वा रतिस्तस्य पुण्यभे पुण्यशीलता ।कर्मस्थाने च धर्मे च नानासौख्यं भवेत्सदा ॥ 141 ॥
- श्लोक 142निद्रायां च यदा जातः व्याधि योगश्चदारुणम् ।अल्पायुश्च विवादी च धनहानिश्च जायते ॥ 142 ॥
- श्लोक 143न हि निद्रासुखं तस्य सर्वदुःखैक भाजकः ।धनमानविनाशः स्यात् बुधे निद्रागते सदा ॥ 143 ॥
- श्लोक 144विलग्ने दशमे वापि फलमेतत् सुदारुणम् ।अन्यस्थाने धनी जातः सर्वसौख्यं च निश्चितम् ॥ 144 ॥
- श्लोक 145जीवस्य शयने जातः हीनवाक् दुःखितः सदा ।गौरः दीर्घहनुस्तस्य भीतियुक्तो भवेन्नरः ॥ 145 ॥
- श्लोक 146लग्ने सप्तमे चैव नवमे दशमे तथा ।पंचमे च तथा जातः धनवान् पंडितः शुचिः ॥ 146 ॥
- श्लोक 147उपवेशे गुरौ दुःखी वाचालो रोगवान्भवेत् ।राजभीतिः शत्रुभीतिः पदहस्तमुखे व्रणः ॥ 147 ॥
- श्लोक 148द्वितीये द्वादशे वापि तृतीयैकादशे तथा ।सर्वैः गुणैः समायुक्तो नानाविद्यासुतत्परः ॥ 148 ॥
- श्लोक 149नेत्रपाणौ गुरौ जातः शिरोरोगी धनी भवेत् ।कार्यहानिर्भवेत्तस्य विवर्णोद्भव प्रीतियुक् ॥ 149 ॥
- श्लोक 150गीतिनृत्यप्रियः कामी वियुक्तश्च वरश्रिया ।नवषष्ठाष्टमे शत्रुनाशः तीर्थे मृतिर्भवेत् ॥ 150 ॥
- श्लोक 151गुरौ प्रकाशे सुगुणी तेजस्वी धनवान्नरः ।गुरुत्वं वा नृपत्वं वा स्यादुच्चस्थे बृहस्पतौ ॥ 151 ॥
- श्लोक 152लग्ने वा दशमे वापि सविशेषं फलं भवेत् ।अन्यस्थाने तु गुह्यांगे सरोगो जायते पुमान् ॥ 152 ॥
- श्लोक 153गमने लम्पटः पापी साहसी मित्रसंयुतः ।सेवाकर्मरतो विद्वान् प्रवासी धनवानपि ॥ 153 ॥
- श्लोक 154. द्वितीये पंचमे चैव सप्तमे दशमे तथा ।पूर्वोक्तं तद्विजानीयात् अन्यभे तु विलोमतः ॥ 154 ॥
- श्लोक 155आगमने च गुरौ जातः सुस्त्रीकः धनसंयुतः ।गुणवान् लोकप्रियो नूनं जायते मुनिपुंगव ॥ 155 ॥
- श्लोक 156सभायां तु गुरौ जातः राजसेवा परो नरः ।पण्डितः सुन्दरो वाग्मी धनी वाहनसंयुतः ॥ 156 ॥
- श्लोक 157केन्द्रे देवगुरौ जाते ज्ञेयं सर्व फलं मुनेः ।द्वादशे चाष्टमे नूनं दुःखी सर्वस्वनाशकः ॥ 157 ॥
- श्लोक 159भोजने देवपूज्ये तु मांस भुक्तौ महारुचिः ।धनी कामी भवेल्लग्ने नरो नूनं सुभोजनः ॥ 159 ॥
- श्लोक 160त्रिकोणे पुत्रधर्माद्यै युक्तो धनपतिर्भवेत् ।गृहान्तरे तु संजातः बहुरोगसमन्वितः ॥ 160 ॥
- श्लोक 161नृत्यलिप्सा गतो वाग्मी राजमानी धनी भवेत् ।धर्मवित्पण्डितोवाग्मी शब्दविद्या धरो नरः ॥ 161 ॥
- श्लोक 162लग्ने वा नवमे वापि दशमे पंचमे तथा ।एतत्सर्वं विजानीयात् नान्य गेहे कदाचन ॥ 162 ॥
- श्लोक 163कौतुके च गुरौ जातः धनवान् कुलभास्करः ।महैश्वर्यः सभाशूरः बलवान् पुत्रसंयुतः ॥ 163 ॥
- श्लोक 165गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि ।दरिद्रता परिक्रान्तः भवनं पुण्यवर्जितम् ।द्वादशे तु तथा भूतः धनवान् जायते नरः ॥ 165 ॥
- श्लोक 166शुक्रस्य शयने जातो महारोषसमन्वितः ।दन्तरोगी च दीनश्च विधनो बहुलम्पटः ॥ 166 ॥
- श्लोक 167सप्तमैकादशे वापि शयने च भृगोर्भवेत् ।तदा सर्वसुखं ज्ञेयं दारिद्रयं न कदाचन ॥ 167 ॥
- श्लोक 169उपवेशगते शुक्रे बलवान् धार्मिकः धनी ।दक्षिणांगे व्रणादिश्च सन्धौ भवति वेदना ॥ 169 ॥
- श्लोक 171नेत्रपाणौ भृगौ जातः नेत्रनाशो भवेद्ध्रुवम् ।सप्तमे वा नभे लग्ने फलमेतत् सुनिश्चितम् ॥ 171 ॥
- श्लोक 172कर्मस्थाने विशेषात्तु नेत्रपाणिं गते भृगौ ।तदा दारिद्रय दोषेण समुद्रानपि शोषयेत् ॥ 172 ॥
- श्लोक 173अन्यस्थानगते शुक्रे साहसी राजसेवकः ।नाना तीर्थकरो मानी विशालं भवनं भवेत् ॥ 173 ॥
- श्लोक 174प्रकाशनं गते शुक्रे काव्यगीतादि पारगः ।धनवान् धार्मिकश्चैव वाहनव्रजसंयुतः ॥ 174 ॥
- श्लोक 175मित्रगेहस्थितो वापि तुंगस्थानगतोऽपि वा ।स्वभे राज्यास्पदं भुङ्क्ते परमस्थाने विशेषतः ॥ 175 ॥
- श्लोक 176लग्ने सप्तमे वाऽथ द्वितीये नवमेऽपि वा ।तथाभूते कवौ नूनं राज्यभाक् जायते नरः ॥ 176 ॥
- श्लोक 177अन्यत्र संस्थिते शुक्रे सर्वरोगसमन्वितः ।नित्यं प्रवासी दुःखी च जायते नीच संस्थिते ॥ 177 ॥
- श्लोक 178गमने जनने शुक्रः तस्य माता न जीवति ।आधीनगो वियोगश्च शैशवे व्याधि संयुतः ॥ 178 ॥
- श्लोक 179आगमने भृगोः पुत्रे पादमूले रुजान्वितः ।नित्योत्साही महाशिल्पी धनी तीर्थेषु तत्परः ॥ 179 ॥
- श्लोक 180सभायां च भृगोः पुत्रे राज्यपात्रो धनाधिपः ।कुशलः सर्वकार्येषु केवलं शूलरोगवान् ॥ 180 ॥
- श्लोक 181शत्रुगेहे गते शुक्रे शत्रुयुक्तेऽथ वीक्षिते ।तदा सर्वस्व हानिः स्यात् व्याधयश्च पदे-पदे ॥ 181 ॥
- श्लोक 182आगमे भार्गवे जातो धननाशः भयं तथा ।पुत्रशोकः प्रियाभोगहानिस्तस्य ध्रुवं भवेत् ॥ 182 ॥
- श्लोक 183द्वितीये दशमे वापि चतुर्थे चाष्टमे तथा ।सर्वसौख्यं भवेत्तस्य नात्र कार्या विचारणा ॥ 183 ॥
- श्लोक 184शुक्रस्य भोजने जातः मन्दाग्निः परसेवकः ।महाधनीभवेन्नित्यं वाणिज्येनाथ सेनया ॥ 184 ॥
- श्लोक 185नृत्यलिप्सा गते शुक्रे स वाग्मी पण्डितः कविः ।धनी मानी च कामी च नाना योषितप्रियः सदा ॥ 185 ॥
- श्लोक 186यदि दैवाद्भवे नीचे मूर्खो भवति निश्चितम् ।तुंगस्थाने स्वगेहे च राजपात्रो महाबली ॥ 186 ॥
- श्लोक 187कौतुके भार्गवो जातो नाना सौख्यसमन्वितः ।महाहृष्टो महावक्ता पद्मा वसति तद्गृहे ॥ 187 ॥
- श्लोक 188बहुपुत्रकलत्रश्च कौतुकी सात्विको महान् ।नीचे तद्विपरीतं च दुःखशोकभयानकः ॥ 188 ॥
- श्लोक 189परसेवारतो नित्यं निद्रामुपगते कवौ ।परनिन्दापरो वीरो वाचालो विकलो महान् ॥ 189 ॥
- श्लोक 190सप्तमे चाष्टमे वापि यदि निद्रा भृगोरपि ।तदा सर्वविनाशः स्याद् विष्णुना परिकीर्तितः ॥ 190 ॥
- श्लोक 191क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ ।वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥ 191 ॥
- श्लोक 192उपवेशे यदा जातः श्लीपदी दद्रुसंयुतः ।धनहानिर्नरेन्द्राच्च पीडा भवति नित्यशः ॥ 192 ॥
- श्लोक 193नेत्रपाणौ यदा जातो मूर्खो भवति पण्डितः ।धनवान् धार्मिकश्चैव द्विभार्यो बहुसम्पदः ॥ 193 ॥
- श्लोक 194पित्तशूलीक्षणक्रोधीवह्निभीतिर्जलाद्भयम् ।शिरोरोगी गुदे रोगी सन्धौ भवति वेदना ।लग्नेऽथ दशमे चैतद्विपरीतं फलं वदेत् ॥ 194 ॥
- श्लोक 195प्रकाशने गते मन्दे राजपात्रो भवेच्च सः ।नानागुणेन गुणवान् धार्मिकः पण्डितः शुचिः ॥ 195 ॥
- श्लोक 196जायास्थाने च लग्ने च प्रकाशे च यदा शनिः ।तदा सर्वविनाशः स्याज्जातिध्वंसो भवेद् ध्रुवम् ॥ 196 ॥
- श्लोक 197गमनेच्छायां च यो जातो बहुपुत्रो महाधनः ।पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ 197 ॥
- श्लोक 198आगमने शनेर्जातः श्लीपदीरोगसंयुतः ।दन्ताघाती भवेत्क्रोधी कृपणः परनिन्दकः ॥ 198 ॥
- श्लोक 199सुतस्थाने कलत्रे वा पुत्रजायाविनाशनः ।कर्मस्थाने च धर्मे च द्वादशे वा स्थिते शनौ ।तदा सर्वसुखं प्रोक्तं पण्डितोऽपि धनेश्वरः ॥ 199 ॥
- श्लोक 200सभायां च शनौ जातः पुत्रदारधनैर्युतः ।सर्वदा लभते विद्यां नानारत्नसमन्वितः ॥ 200 ॥
- श्लोक 201शत्रुस्थाने गतः सौरिः शत्रुणा यदि वीक्षितः ।तदा सर्वविनाशः स्याद् ब्रह्मणा परिकीर्तितम् ॥ 201 ॥
- श्लोक 203द्वितीये वा तृतीये वा पंचमे सप्तमे तथा ।वित्तपुत्रकलत्रैश्च भ्रातृभिः सह मोदते ॥ 203 ॥
- श्लोक 204नवमस्थो यदा सौरिः भवेदागमके पुनः ।तदा पुण्ये भवेद्धानिर्विघ्नं स्याच्च पदे पदे ॥ 204 ॥
- श्लोक 205भोजने च यदा जातो मन्दाग्निश्च महान् भवेत् ।अर्शोरोगी च शूली च चक्षु रोगी भवेच्च सः ॥ 205 ॥
- श्लोक 206तुंगस्थाने स्वगेहे वा भोजने च यदा शनिः ।तदा सर्वं शुभं ज्ञेयं सर्वरोगविवर्जितम् ॥ 206 ॥
- श्लोक 207नृत्यलिप्सागते मन्दे धनवान् धार्मिको भवेत् ।नानाधनैर्धनी मानी सर्वसौख्यं न संशयः ॥ 207 ॥
- श्लोक 208राजपूज्यो नरो धीरो महावीरो रणांगणे ।पंचमे तु सुतान् सर्वान् हन्ति प्राह दिगम्बरः ॥ 208 ॥
- श्लोक 209कौतुके च यदा मन्दः राजपात्रो महाधनी ।दाता भोक्ता महादक्षो धार्मिकः पण्डितः शुचिः ॥ 209 ॥
- श्लोक 210पंचमे सप्तमे वापि नवमे दशमेऽथवा ।तदा सर्वविनाशः स्यात् सर्वरोगसमन्वितः ॥ 210 ॥
- श्लोक 211निद्रायां च शनिर्जातो धनवान् पण्डितः शुचिः ।चक्षुरोगी पित्तशूली द्विभार्यो बहुपुत्रकः ॥ 211 ॥
- श्लोक 212कर्मस्थाने यदा सौरिः निद्रायां तद्विनाशकः ।कार्यनाशो धर्मनाशः क्षुधितो दुःखितः सदा ॥ 212 ॥
- श्लोक 213यदि तुंगे त्रिकोणे स्यात् केन्द्रे स्वर्क्षे यदा तदा ।वैपरीत्येन सर्व हि विचार्यमिति निश्चयः ॥ 213 ॥
- श्लोक 214सुतस्थाने च जायायां यदि निद्राभवेत्पुनः ।तदा सर्वं शुभं विद्याद् द्विभार्यो बहुपुत्रकः ॥ 214. 1 ।
- श्लोक 215शयने च यदा राहुः यस्य जन्मनि स्यात्पुनः ।तस्य क्लेशो महादुःखं जायते न च संशयः ॥ 215 ॥
- श्लोक 216मिथुने च तथा सिंहे कन्यायां वृषभे तथा ।सर्वसौख्यसमायुक्तः शयने च विधुन्तुदः ॥ 216 ॥
- श्लोक 217उपवेशे च यो जातः श्लीपदी दद्रुसंयुतः ।धनहानिर्भवेत्तस्य बहुमानी च पीडितः ॥ 217 ॥
- श्लोक 218नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते ।दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥ 218 ॥
- श्लोक 219अधर्मेषु च चित्तं स्यात्स्त्रीवशो धनवानपि ।अन्तः क्रूरो महाधैर्यः क्षणिको बहुभाषकः ॥ 219 ॥
- श्लोक 220कोशपार्श्वे भवेद् विघ्नं शैशवे च रुजान्वितः ।निजबन्धोर्महाद्वेषी बाह्य बन्धोर्महानपि ॥ 220 ॥
- श्लोक 221नेत्रपाणौ यदा राहुर्लग्ने वा सप्तमेऽपि वा ।तदा सर्वविनाशः स्यात् बहुदुःखप्रदायकः ॥ 221 ॥
- श्लोक 222गुह्यस्थाने भवेद् रोगी जले चैव भवेद्भयम् ।नवमे दशमे वापि गमनेच्छा भवेत्सदा ॥ 222 ॥
- श्लोक 223प्रकाशने च यो जातो धनवान् धार्मिको मतः ।नित्यं प्रवासी चोत्साही सात्विको राजसेवकः ॥ 223 ॥
- श्लोक 224सिंहे वा कर्कटे वापि यदि राहुः प्रकाशने ।शिरच्छेदकरो योगो शार्ङ्गिणा परिकीर्तितः 11.224: ।
- श्लोक 225गमने च यदा राहुः बहुसन्तानवान् नरः ।पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥ 225 ॥
- श्लोक 226राहावागमने क्रोधी सदा धीधनवर्जितः ।कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ 226 ॥
- श्लोक 227सभागतो यदा राहुः कृपणः पण्डितो नरः ।नानागुणेन गुणवान् धार्मिको धनसंयुतः ॥ 227 ॥
- श्लोक 228लग्ने वा दशमे वापि पंचमे च यदा भवेत् ।भार्यापुत्रविनाशः स्यात् वित्तनाशोऽति चंचलः ॥ 228 ॥
- श्लोक 229आगमने च नरो जातः सर्वदुःखप्रदायकः ।सुहृद्बन्धुविनाशः स्यान् नानाक्लेशसमन्वितः ॥ 229 ॥
- श्लोक 230भोजने भोजनेनालं विकलो मनुजो भवेत् ।मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥ 230 ॥
- श्लोक 231यदि दैवाद् भवेद्राहुः लग्ने वापि धनेऽथवा ।पतितं तं विजानीयाद् द्विजवंशोद्भवोऽपि चेत् ॥ 231 ॥
- श्लोक 232सप्तमे दशमे वापि भोजने च यदा तमी ।नारीं ना नियतं हन्ति पुण्ये विघ्नं करोति च ॥ 232 ॥
- श्लोक 233नृत्यलिप्सागते राहौ महाव्याधिविवर्धनम् ।लग्ने चेन्नेत्ररोगी धनधर्मक्षयो नृणाम् ॥ 233 ॥
- श्लोक 234अन्यग्रहे यदा जातो धनवान् बहुसम्पदः ।गुणी सुखी द्विभार्यश्च बहुपुत्रो भवेन्नरः ॥ 234 ॥
- श्लोक 235कौतुके च यदा राहुः सर्वगुणसमन्वितः ।नानाधनेन धनवान् पित्तशूली भवेन्नरः ॥ 235 ॥
- श्लोक 236विहत्य पंचमं स्थानं सप्तमं दशमं तथा ।नानादुःखं भवेत्तस्य पुत्रदारविवर्जितः ॥ 236 ॥
- श्लोक 237युग्मे धनुषि .कन्यायां मीने वा वृषभे यदि ।तदा सर्वं शुभं ज्ञेयं नात्र कार्या विचारणा ॥ 237 ॥
- श्लोक 238निद्रावस्थां गते राहौ जातः शोकरुजान्वितः ।कान्ता सन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥ 238 ॥
- श्लोक 239नवमे दशमे वापि यदि निद्रा भवेत्पुनः ।तदा दारिद्रयदोषेण कृत्स्नां भ्रमति मेदिनीम् ॥ 239 ॥
- श्लोक 240मेषे वृषेऽथवा युग्मे कन्यायां शयनं गते ।केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥ 240 ॥
- श्लोक 241उपवेशं गते केतौ दद्रुरोगविवर्धनम् ।अरिवातनृपव्यालचौरशंका समन्ततः ॥ 241 ॥
- श्लोक 242नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते ।दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥ 242 ॥
- श्लोक 243केतौ प्रकाशने जातः धनवान् धार्मिकः सदा ।नित्यं प्रवासी चोत्साही सात्विको राजसेवकः ॥ 243 ॥
- श्लोक 244गमने च यदा केतुर्बहुपुत्रो महाधनः ।पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ 244 ॥
- श्लोक 245आगमने च यदा केतुर्नानारोगो धनक्षयः ।दन्तघाती महारोगी पिशुनः परनिन्दकः ॥ 245 ॥
- श्लोक 246सभावस्थांगते केतौ वाचालो बहुगर्वितः ।कृपणो लम्पटश्चैव धूर्तविद्याविशारदः ॥ 246 ॥
- श्लोक 247यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् ।बन्धुवादरतो दुष्टो रिपुरोग निपीडितः ॥ 247 ॥
- श्लोक 248भोजने च जनो नित्यं क्षुधयापरिपीडितः ।दरिद्रो रोगसन्तप्तः केतौ भ्रमति मेदिनीम् ॥ 248 ॥
- श्लोक 249नृत्यलिप्सां गते केतौ व्याधिना विकलो भवेत् ।बुद्बुदाक्षो दुराधर्षो धूर्तोऽनर्थकरो नरः ॥ 249 ॥
- श्लोक 250कौतुकी कौतुके केतौ नटवामारतिप्रियः ।स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ 250 ॥
- श्लोक 251निद्रावस्थां गते केतौ धनधान्यसुखं महत् ।नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥ 251 ॥
- श्लोक 252शयने यत्र भावेषु यस्य तिष्ठन्ति सद्ग्रहाः ।नित्यं तस्य शुभं ज्ञेयं निर्विशंकं वदेद्बुधः ॥ 252 ॥
- श्लोक 253भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वदा ।तदा सर्वविनाशः स्यात् नात्र कार्या विचारणा ॥ 253 ॥
- श्लोक 254निद्रायां च यदा पापो जाया स्थाने शुभं वदेत् ।यदि पाप ग्रहे दृष्टौ न शुभं च कदाचन ॥ 254 ॥
- श्लोक 255शुभ ग्रहेण यदा दृष्टः शुभ ग्रह समन्वितः ।नारी च म्रियते तस्य प्रथमा च विशेषतः ॥ 255 ॥
- श्लोक 256शत्रु दृष्टयुते कान्ताः म्रियन्ते सकला अपि ।सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।तदा शुभं भवेत्तस्य नात्र कार्या विचारणा ॥ 256 ॥
- श्लोक 257तुंगस्थाने स्वगेहे वा त्रिकोणे वा यदा भवेत् ।अपत्यस्य तदा नाशो जायते नात्र संशयः ॥ 257 ॥
- श्लोक 258शुभग्रहो यदा तत्र शुभो वा पापवीक्षितः ।तदापि प्रथमापत्यः नाशो भवति निश्चितम् ॥ 258 ॥
- श्लोक 259मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा ।तदा तस्यापमृत्युः स्यात् राजतः परतस्तथा ॥ 259 ॥
- श्लोक 260शुभ ग्रहे यदा युक्तः शुभैर्वा यदि वीक्षितः ।तदा च मरणं तस्य गंगादौ च विशेषतः ॥ 260 ॥
- श्लोक 261अन्ये पापग्रहे दृष्टः अष्टमः पापसंयुतः ।तदा तस्य शिरच्छेदो ब्रह्मणा परिकीर्तितः ॥ 261 ॥
- श्लोक 262अष्टमस्थो शनिकुजौ तमो वा तत्र निद्रितः ।शयनेऽपि शिरच्छेदः अपमृत्युर्वा भविष्यति ॥ 262. ।
- श्लोक 263कर्मस्थाने यदा पापः शयने भोजनेऽपि वा ।तदा दारिद्रय दोषेण सर्वान् भ्रमति मेदिनीम् ॥ 263 ॥
- श्लोक 264कर्मस्थाने शुभः खेटो निद्रायां गमनेऽपि वा ।तदा कर्मविपाकः स्यात् नाना दुःखप्रदायकः ॥ 264 ॥
- श्लोक 265दशमस्थो निशानाथः कौतुके च प्रकाशने ।तदैव राजयोगः स्यात् निर्विशंकं द्विजोत्तम ॥ 265 ॥
- श्लोक 266शयनाद्येकभावेषु यस्य तिष्ठन्ति सद्ग्रहाः ।नित्यं तस्य शुभज्ञानं ब्रह्मणा परिकीर्तितम् ॥ 266 ॥
- श्लोक 267भोजनाद्येकभावेषु पापास्तिष्ठन्ति सर्वदा ।तदा भावविनाशः स्याद् नात्र कार्या विचारणा ॥ 267 ॥
- श्लोक 268एवं क्रमेण बोद्धव्यं सर्वभावेषु बुद्धिमन् ।बलाबलविचारेण ज्ञातव्यं च शुभाशुभम् ॥ 268 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।