अध्याय 43: ग्रहभावबलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 43 (Grah Bhav Bal)

49 श्लोक

  1. श्लोक 1एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज ।अन्या खेटस्वभावोत्था स्फुटां तां कथयाम्यहम् ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमत्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे ।पादवृद्ध्या प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमपूर्णं च सप्तमं सर्वे शनिजीवकुजाः पुनः ।विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान्‌ ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमइति सामान्यतो दृष्टिः कथिता पूर्वसूरिभिः ।स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा मता ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमदृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् ।दिग्भ्यः संशोध्य तद्भागा द्वाभ्यां भक्ता दृगस्ति वै ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमपंचाधिके विना राशिं भागा द्विघ्नाश्च दृक्‌ स्फुटा ।वेदाधिके त्यजेद्‌ भूतात्‌ भागा दृष्टिस्त्रिभाधिके ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमविशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक्‌ ।द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमरूपाधिके विना राशिं भागा द्व्याप्ताश्च दृक् भवेत् ।एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमएकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः ।द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमत्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता ।सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमत्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् ।द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमशरवेदाःखरामाश्च तिथयो योजिताः क्रमात्‌ ।शनिदेवेज्य भौमानामादौ दृष्टिः स्फुटा भवेत्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमअथ स्पष्टबलं वक्ष्ये स्थानकालादि सम्भवम्‌ ।नीचोनं खचरं भार्धाधिकं चक्राद्‌ विशोधयेत्‌ ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमभागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत्‌ ।स्वत्रिकोणस्वगेहाधिमित्रमित्र समारिषु ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमअधिशत्रुगृहे चापि स्थितानां क्रमशो बलम्‌ ।भूताब्धयः खाग्निनखास्तिथ्यो दशयुगाः कराः ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमएवं होरा दृकाणाद्रिभागांक द्वादशांशजम्‌ ।त्रिंशांशजं तदैक्यं च सप्तवर्गसमुद्भवम्‌ ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमशुक्रेन्द्वोः समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम्‌ ।केन्द्रादिषु स्थिताः खेटाः पूर्णार्धाङ्घ्रिमितं क्रमात्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमआदिमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात्‌ ।पुंनपुंसक योषाख्या दद्युरङ्घ्रिमितं बलम्‌ ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमसूर्यात्‌ कुजात्‌ सुखं जीवात्‌ ज्ञाच्चास्तं लग्नमार्कितः ।दशमं च भृगोश्चन्द्रात्‌ प्रोज्झ्य षड्भाधिके सति ॥ 19 ॥
  20. श्लोक 20कुंडली के 2 नियमचक्राद्‌ विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम्‌ ।इष्टावधिनिशीथात्तूननतं त्रिंशच्च्युतं नतम्‌ ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमचन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम्‌ ।षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमअथ पक्षबलं वक्ष्ये सूर्यचन्द्राद् विशोध्य च ।षड्भाधिके विशोध्यार्काद् भागीकृत्य त्रिभिर्भजेत् ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमपक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः ।विशोध्य तद्बलं ज्ञेयं पापानां पक्षसम्भवम्‌ ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमदिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके ।चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥ 24 ॥
  25. श्लोक 25कुंडली के 2 नियमवर्षमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाः ।होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥ 25 ॥
  26. श्लोक 26कुंडली के 2 नियमतन्मानं सप्तहृत् षष्टिरेकाद्येकोत्तरैर्हताः ।शकुबुगुशुचंरादि खेटानां क्रमशो बलम् ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमपंचाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी ।सायनग्रहतोराशितुल्यखण्डयुतिश्च सा ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमभागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः ।स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमतथाऽऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम्‌ ।तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम्‌ ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमयद्रवेरायनं वीर्यं चेष्टाख्यं तावदेवहि ।विधोः पक्षबलं यावत्‌ तावच्चेष्टाबलं मतम्‌ ॥ 30 ॥
  31. श्लोक 31कुंडली के 1 नियममध्यमस्फुटयोगार्धं हीनं स्वस्व चलोच्चकम्‌ ।षड्भाधिकं च्युतं चक्राच्‌चेष्टाकेन्द्रं स्मृतं कुजात्‌ ॥ 31 ॥
  32. श्लोक 32कुंडली के 2 नियमभागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति ।स्थानदिक्काल दृक्‌ चेष्टा निसर्गोत्थं च षड्विधम्‌ ॥ 32 ॥
  33. श्लोक 33कुंडली के 2 नियमवक्रानुवक्रा विकला मन्दा मन्दतरा समा ।चराचातिचरेति च ग्रहाणामष्टधा गतिः ॥ 33 ॥
  34. श्लोक 34कुंडली के 2 नियमषष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् ।पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥ 34 ॥
  35. श्लोक 35कुंडली के 1 नियमपादो मन्दगतेस्तस्य दलं मन्दतरस्य च ।चरभुक्तेस्तु पादोनं दलं स्यादति चारिणः ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमपापदृक्पादहीनं तत्‌ शुभदृक्पादयुक्तथा ।बलैक्यं ज्ञेज्यदृग्युक्तमेवं खेटबलं भवेत्‌ ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमअथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः ।बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥ 37 ॥
  38. श्लोक 38कुंडली के 1 नियमएवं ग्रहबलं प्रोक्तमथ भावबलं शृणु ।कन्यायुग्मतुलाकुम्भचापाद्यार्धाच्च सप्तमम् ॥ 38 ॥
  39. श्लोक 39कुंडली के 1 नियमगोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् ।कर्कवृश्चिकतो लग्नं मृगान्त्यार्धाज्झषाच्च खम् ॥ 39 ॥
  40. श्लोक 40कुंडली के 2 नियमशोध्यमंगाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् ।सद्दृष्टिपादयुक् पापदृष्टिपादविवर्जितम् ॥ 40 ॥
  41. श्लोक 41कुंडली के 1 नियमज्ञेज्यदृष्टियुतं तच्च स्वस्वामिबलान्वितम्‌ ।इति भावबलं प्रोक्तं सामान्यं तु पुरोदितम्‌ ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमअंकाग्नयोऽङ्गरामाश्च खाग्नयो नेत्रसागराः ।नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमरव्यादीनां बलैक्यं चेत् तदा सुबलिनो मताः ।अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमगुरुसौम्यरवीणां च भूतषट्केन्दवो द्विज ! ।पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ 44 ॥
  45. श्लोक 45कुंडली के 1 नियमखाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने ।सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमचत्वारिंशत्‌ कला भौममन्दयोः षण्णवा क्रमात्‌ ।त्रिंशत्‌ खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमएवं कृत्वा बलैक्यं च ततश्चिन्त्यं फलं द्विज ! ।भावस्थानग्रहैः प्रोक्तयोगे ये योग हेतवः ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमतेषां मध्ये बली कर्ता स एवास्य फलप्रदः ।योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥ 48 ॥
  49. श्लोक 49गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः ।न्यायविद्बुद्धिदेशज्ञदिक्कालज्ञो जितेन्द्रियः ॥ 49 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।