अध्याय 44: इष्टकष्टाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 44 (Isht Kasht)

20 श्लोक

  1. श्लोक 1अथ चेष्टमनिष्टं च ग्रहाणां कथयाम्यहम्‌ ।यद्वशाच्च प्रयच्छन्ति शुभाशुभदशाफलम्‌ ॥ 1 ॥
  2. श्लोक 2नीचोनं तु ग्रहं भार्धाधिक्ये चक्राद्‌ विशोधयेत्‌ ।उच्चरश्मिर्भवेद्राशिः सैको द्विघ्नांशसंयुतः ॥ 2 ॥
  3. श्लोक 3चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत्‌ ।चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥ 3 ॥
  4. श्लोक 4सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा ।चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥ 4 ॥
  5. श्लोक 5चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते ।अष्टभ्यश्च विशुद्धोऽसावशुभाख्यश्च कथ्यते ॥ 5 ॥
  6. श्लोक 6उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् ।तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥ 6 ॥
  7. श्लोक 7स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदिष्टभे ।समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात्‌ ॥ 7 ॥
  8. श्लोक 8षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः ।चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥ 8 ॥
  9. श्लोक 9षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे ।तदर्धमन्यवर्गेषु ज्ञेयं विप्र ! शुभाशुभम्‌ ॥ 9 ॥
  10. श्लोक 10पंचस्विष्टफलं दद्यात्‌ समं षष्ठे ततः परम्‌ ।अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम्‌ ॥ 10 ॥
  11. श्लोक 11दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् ।तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥ 11 ॥
  12. श्लोक 12शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके ।दशाफलं नभोगस्य तथा भावफलं द्विज ॥ 12 ॥
  13. श्लोक 13बलैः षड्भिः समेधित्वा बलैक्येन भजेत्‌ पृथक्‌ ।तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥ 13 ॥
  14. श्लोक 14शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा ।दृष्टी ते शुभपापाख्ये बले स्यातां शुभाशुभे ॥ 14 ॥
  15. श्लोक 15भावानां च फले प्रोक्ते पतीनां च फले उभे ।राशौ शुभ नभोगश्चेद्‌ भावसाधनसम्भवम्‌ ॥ 15 ॥
  16. श्लोक 16फलं तस्य शुभे युंज्याद्‌ अशुभे वर्जयेत्‌ तथा ।पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥ 16 ॥
  17. श्लोक 17युंज्यादुच्चादिगे खेटे फलं नीचादिकं त्यजेत्‌ ।एवं शुभाशुभं ज्ञात्वा जातकस्य फलं वदेत्‌ ॥ 17 ॥
  18. श्लोक 18अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा ।राशिद्वयगतेभावेतद्राश्यधिपतेः क्रिया ॥ 18 ॥
  19. श्लोक 19स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः ।तत्समाने च तदभावे तदानीं स्थानदान्‌ ग्रहान्‌ ॥ 19 ॥
  20. श्लोक 20संयोज्यस्थानसंख्याया दलमेतत्समं फलम्‌ ।एवं सखेटभावानां फलं ज्ञेयं शुभाशुभम्‌ ॥ 20 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।