अध्याय 45: दशाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 45 (Dasha)

46 श्लोक

  1. श्लोक 1महर्षे ! त्वं समर्थोऽसि कृपया करुणानिधे ।दशाः कति विधाः सन्ति तन्मे कथय तत्वतः ॥ 1 ॥
  2. श्लोक 2अथातः सम्प्रवक्ष्यामि दशाभेदाननेकशः ।दशाः बहुविधास्तासु मुख्या विंशोत्तरी मता ॥ 2 ॥
  3. श्लोक 3अष्टोत्तरी दशा चाथ कथिता षोडशोत्तरी ।द्वादशाब्दोत्तरी चात्र दशा पंचोत्तरी तथा ॥ 3 ॥
  4. श्लोक 4दशाशतसमा तद्वत्‌ चतुरशीतिवत्सरा ।द्विसप्ततिसमा षष्टिसमा षट्त्रिंशद्‌ वत्सराः ॥ 4 ॥
  5. श्लोक 5नक्षत्राधारिकाश्चैताः कथिताः पूर्वसूरिभिः ।अथ कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः ॥ 5 ॥
  6. श्लोक 6कालचक्रदशा चान्या मान्या सर्वदशासु या ।दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज ॥ 6 ॥
  7. श्लोक 7केन्द्राद्या च दशा ज्ञेया कारकादिग्रहोद्भवा ।ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित्‌ ॥ 7 ॥
  8. श्लोक 8माण्डूकी च दशा नाम तथा शूलदशा स्मृता ।योगार्धजदशा विप्र! दृग्दशा च ततः परम्‌ ॥ 8 ॥
  9. श्लोक 9त्रिकोणाख्या दशा नाम तथा राशिदशा मता ।योगार्धजदशा विप्र ! विज्ञेया योगिनी दशा ॥ 9 ॥
  10. श्लोक 10पिण्डांशायुर्दशे विप्र ! नैसर्गिक दशा तथा ।अष्टवर्गदशा सन्ध्यापाचकाख्ये दशे तथा ।अन्यास्तारादशाद्याश्च न सर्वाः सर्वसम्मताः ॥ 10 ॥
  11. श्लोक 11कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः ।सूर्येन्दू भूमिपुत्रश्च तमो वाक्पति मन्दगौ ॥ 11 ॥
  12. श्लोक 12बुधकेतू कविश्चैते क्रमाज्ज्ञेया दशाधिपाः ।कलौ विंशोत्तरी ज्ञेया दशा मुख्या द्विजोत्तम ॥ 12 ॥
  13. श्लोक 13विंशोत्तरशतंपूर्णमायुःपूर्वमुदाहृतम्‌ ।दशा समाः क्रमादेषां षड्दशाश्वागजेन्दवः ।भूपतिर्नवचन्द्राश्च नगचन्द्रा नगा नखाः ॥ 13 ॥
  14. श्लोक 14दशामानं भयातघ्नं भभोगेन हृतं फलम् ।दशाया भुक्तवर्षादि भोग्यं मानाद् विशोधितम् ॥ 14 ॥
  15. श्लोक 15लग्नेशात्केन्द्रकोणस्थे राहौ लग्नं विना स्थिते ।अष्टोत्तरी द्विधा प्रोक्ता रौद्राद्याः कृत्तिकादितः ॥ 15 ॥
  16. श्लोक 16चतुष्कं त्रितयं तस्मात्‌ चतुष्कं त्रितयं पुनः ।एवं स्वजन्मभं यावद्‌ विगणय्य यथाक्रमम्‌ ॥ 16 ॥
  17. श्लोक 17लग्ने सग्रहे रौद्राद्‌ विग्रहे कृत्तिकादितः ।सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः ।एते दशाधिपा विप्र ! ज्ञेयाः केतुं विना ग्रहाः ॥ 17 ॥
  18. श्लोक 18रसाः पंचेन्दवो नागाः सप्त चन्द्राश्च खेन्दवः ।गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशा समाः ॥ 18 ॥
  19. श्लोक 19कृष्णपक्षे दिवा जन्म शुक्ल पक्षे तथा निशि ।अष्टोत्तरी तदा चिन्त्या फलार्थं च विशेषतः ॥ 19 ॥
  20. श्लोक 20विंशोत्तरीवदेवात्र भुक्तं भोग्यं च साधयेत्‌ ।एकैकभे चतुर्थांशं तृतीयांशं च कल्पयेत्‌ ॥ 20 ॥
  21. श्लोक 21कृष्णे चन्द्रस्य होरायां सूर्यहोरागते सिते ।लग्ने नृणां फलार्थं तु विचिन्त्या षोडशोत्तरी ॥ 21 ॥
  22. श्लोक 22पुष्यभाज्जन्मभं यावद्‌ गणयित्वा वसुतष्टिते ।रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥ 22 ॥
  23. श्लोक 23इति क्रमाद् दशेशाः स्यू राहुं हित्वा द्विजोत्तम ।रुद्रादेकोत्तराः संख्या धृत्यन्तं वत्सराः स्मृताः ॥ 23 ॥
  24. श्लोक 24नवमांशे तु शुक्रस्य जाते द्वादशोत्तरी ।विचिन्त्या जन्म नक्षत्रादापौष्णं वसुतष्टिता ॥ 24 ॥
  25. श्लोक 25सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः ।शुक्रहीना दशाधीशा द्विचयात्सप्ततः समाः ॥ 25 ॥
  26. श्लोक 26कर्कलग्ने निजार्कांशे दशा पंचोत्तरी गुरौ ।मैत्रभात् जन्मभं यावत् संख्या सप्त विभाजिता ।शेषाद्दशेशा विज्ञेया राहुकेतू विना द्विज ॥ 26 ॥
  27. श्लोक 27रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो बृहस्पतिः ।एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः ॥ 27 ॥
  28. श्लोक 28वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका ।पौष्णभात्‌ जन्मपर्यन्तं गणयेत्‌ सप्तभिर्हरेत्‌ ।शेषांके रवितो ज्ञेया दशा शतसमाभिधा ॥ 28 ॥
  29. श्लोक 29रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ।क्रमादेते दशाधीशा बाणा बाणा दिशो दश ।नखा नखाः खरामाश्च समा ज्ञेया द्विजोत्तम ॥ 29 ॥
  30. श्लोक 30कर्मेशे कर्मगे ज्ञेया चतुरशीतिका दशा ।पवनाज्जन्मभं यावत् या संख्या सप्तभाजिता ॥ 30 ॥
  31. श्लोक 31शेषे रवीन्दु भौमज्ञा गुरु-शुक्र-शनैश्चराः ।दशाधीशा क्रमादेषां ज्ञेया द्वादशवत्सराः ॥ 31 ॥
  32. श्लोक 32लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ।चिन्तनीया दशा तस्य द्विसप्ततिसमाभिधाः ॥ 32 ॥
  33. श्लोक 33मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् ।शेषाद्दशाधिपाः ज्ञेया अष्टौ रव्यादयः क्रमात् ॥ 33 ॥
  34. श्लोक 34नववर्षाणि सर्वेषां विकेतूनां नभःसदाम्‌ ।विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत्‌ ॥ 34 ॥
  35. श्लोक 35यदार्को लग्नराशिस्थश्चिन्त्या षष्टि समा तदा ।दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥ 35 ॥
  36. श्लोक 36गुर्वर्क भूसुतानां च दशा दश दशाब्दकाः ।ततः शशिज्ञशुक्रार्क पुत्रागूनां रसाब्दकाः ॥ 36 ॥
  37. श्लोक 37लग्ने दिवार्कहोरायां चन्द्रहोरागते निशि ।षट्त्रिंशत्समा ज्ञेया दशा वै द्विज सत्तम ॥ 37 ॥
  38. श्लोक 38श्रवणाज्जन्मभं यावत्‌ संख्या वसुविभाजिता ।शेषे चन्द्र रवीज्यारबुधार्किभृगुराहवः ।क्रमशः दशेशाः विज्ञेया एकाद्येकोत्तराः समाः ॥ 38 ॥
  39. श्लोक 39सूर्यस्याऽर्धास्तितः पूर्वं परस्तादुदयादपि ।पंच पंच घटी सन्ध्या दश नाडी प्रकीर्तिता ॥ 39 ॥
  40. श्लोक 40सन्ध्याद्वयं च विंशत्या नाडिकाभिः प्रकीर्तितम्‌ ।दिनस्य विंशतिर्घट्यः पूर्णसंख्या उदाहृताः ॥ 40 ॥
  41. श्लोक 41निशाया मुग्धसंज्ञाश्च घटिका विंशतिश्च या ।सूर्योदये च या सन्ध्या खण्डाख्या दशनाडिका ॥ 41 ॥
  42. श्लोक 42अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका ।पूर्णमुग्ध घटीमाने द्विगुणे तिथिभिर्भजेत् ॥ 42 ॥
  43. श्लोक 43तदा खण्ड सुधा घट्योश्चतुर्घ्ने तिथिभिर्भजेत्‌ ।लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम्‌ ॥ 43 ॥
  44. श्लोक 44एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् ।राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥ 44 ॥
  45. श्लोक 45रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रितात्‌ ।सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥ 45 ॥
  46. श्लोक 46दशवर्षाणि राशीनामेकैकस्य दशामितिः ।क्रमाच्चक्रस्थितानां च विज्ञातव्या द्विजोत्तम ॥ 46 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।