अध्याय 46: कालचक्रदशाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 46 (Kalchakra Dasha)
100 श्लोक
- श्लोक 2तस्याः सारं समुद्धृत्य तवाऽग्रे द्विजनन्दन ।शुभाशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥ 2 ॥
- श्लोक 3द्वादशारं लिखेच्चक्रं तिर्यगूर्ध्वसमानकम् ।गृहा द्वादश जायन्ते सव्याऽसव्ये द्विधा द्विज ॥ 3 ॥
- श्लोक 4द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् ।एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥ 4 ॥
- श्लोक 5अश्विन्यादित्रयं सव्यमार्गे चैवं व्यवस्थितम् ।रोहिण्यादित्रयं चैवमपसव्ये व्यवस्थितम् ॥ 5 ॥
- श्लोक 6एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् ।अश्विन्यदिति हस्तर्क्षं मूलप्रोष्ठपदाभिधाः ॥ 6 ॥
- श्लोक 7वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः ।एतद्दशोडुपादानामश्विन्यादौ च वीक्षयेत् ॥ 7 ॥
- श्लोक 8देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च ।विशदं तत्प्रकारं च मैत्रेय, कथयाम्यहम् ॥ 8 ॥
- श्लोक 9देहजीवौ मेषचापौ दास्राद्यचरणस्य च ।मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥ 9 ॥
- श्लोक 10मृगयुग्मौ देहजीवौ द्वितीयचरणे स्मृतौ ।क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥ 10 ॥
- श्लोक 11दास्रादिदशताराणां तृतीयचरणे द्विज ।गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥ 11 ॥
- श्लोक 12क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् ।अश्विन्यादि दशोडूनां चतुर्थचरणे तथा ॥ 12 ॥
- श्लोक 13कर्कमीनौ देहजीवौ कर्कादि नवराशिपाः ।दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥ 13 ॥
- श्लोक 14यमेज्यचित्रातोयर्क्षाहिर्बुध्न्याः सव्यतारकाः ।एतत्पंचोडुपादानां भरण्यादौ विचिन्तयेत् ॥ 14 ॥
- श्लोक 15याम्यप्रथमपादस्य देहजीवावलिर्झषः ।नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥ 15 ॥
- श्लोक 16याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ।रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥ 16 ॥
- श्लोक 17याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने ।सप्ताष्टाङ्कदिगीशार्कगजाद्रिरसभेश्वराः ॥ 17 ॥
- श्लोक 18कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज ।वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥ 18 ॥
- श्लोक 19सव्यमेवं विजानीयादसव्यं कथयाम्यहम् ।द्वादशारं लिखेच्चक्रं पूर्ववद् द्विजसत्तम ॥ 19 ॥
- श्लोक 20द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेत् ।रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥ 20 ॥
- श्लोक 21उक्तं चाऽसव्यनक्षत्रं पूर्वाचार्यैर्द्विजोत्तम ।एतद् वेदोडुपादानां रोहिणीवन्निरीक्षयेत् ॥ 21 ॥
- श्लोक 22रोहिण्यादि पदे देहजीवौ कर्किधनुर्धरौ ।नवदिग्रुद्रसूर्येन्दुनेत्राग्नीष्वब्धिभेश्वराः ॥ 22 ॥
- श्लोक 23धातृद्वितीयचरणे देहजीवौ तुलस्त्रियौ ।अङ्गांगवसु-सूर्येश-दिगंके वसुजूकपाः ॥ 23 ॥
- श्लोक 24तृतीय चरणे ब्राह्मे देहजीवौ घटाङ्गने ।षड्बाणाब्धिगुणाक्षीन्दु-नन्द दिग्रुद्रभेश्वराः ॥ 24 ॥
- श्लोक 25रोहिण्यन्तपदे देह-जीवावलिझषौ स्मृतौ ।सूर्येन्दु-द्विगुणेष्वब्धि-तर्क-शैलाष्ट-भेश्वराः ॥ 25 ॥
- श्लोक 26चान्द्ररौद्र-भगार्यम्ण-मित्रैन्द्र-वसुवारुणम् ।एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥ 26 ॥
- श्लोक 27कर्को देहो झषो जीवो मृगाद्यचरणे मृगे ।त्रिद्व्येकाङ्क दिशीशार्क- चन्द्राक्षि भवनाधिपाः ॥ 27 ॥
- श्लोक 28देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे ।त्रिबाणाब्धि-रसागाष्ट-सूर्येश-दशमेश्वराः ॥ 28 ॥
- श्लोक 29मेषो देहो धनुर्जीवो चतुर्थ चरणे मृगे ।व्यस्ताच्चापादि-मेषान्त राशिपाश्च दशाधिपाः ॥ 29 ॥
- श्लोक 30अपसव्यगणे त्वेवं देहजीवदशादिकम् ।पार्वत्यै शम्भुना प्रोक्तमिदानीं कथितं मया ॥ 30 ॥
- श्लोक 31केषां च कति वर्षाणि दशेशानां महामुने ।दशाया भुक्तभोग्याद्यं तदारम्भं प्रचक्ष्व मे ॥ 31 ॥
- श्लोक 32भूतैकविंशगिरयो नवदिक्षोडशाब्धयः ।सूर्यादीनां दशाब्दाः स्यू राशीनां स्वामिनो वशात् ॥ 32 ॥
- श्लोक 33नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ।तदादि-नवराशीनामब्दास्तस्यायुरुच्यते ॥ 33 ॥
- श्लोक 34सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके ।अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥ 34 ॥
- श्लोक 35ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः ।अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥ 35 ॥
- श्लोक 36गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् ।वर्तमान पदेनाढ्यं राशीनामंशको भवेत् ॥ 36 ॥
- श्लोक 37मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समा ।कर्कटेऽङ्ग गजाः प्रोक्तास्तावन्तस्तत् त्रिकोणयोः ॥ 37 ॥
- श्लोक 38जनो यत्रांशके जातो गतनाडीपलादिभिः ।तदंशस्य हताः स्वाब्दाः पंचभूमिविभाजिताः ॥ 38 ॥
- श्लोक 39एवं महादशारम्भो भवेदंशाद्यथा क्रमात् ।गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥ 39 ॥
- श्लोक 40पदस्य भुक्त घट्याद्यैः स्वाब्दमानं हतं ततः ।भभोगाङ्घ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥ 40 ॥
- श्लोक 41चन्द्रांकांश कला भुक्ताः स्वाब्दमानहता हृताः ।द्विशत्या भुक्तवर्षाद्यं भोग्यं ज्ञेयं ततो बुधैः ॥ 41 ॥
- श्लोक 42सव्याख्ये प्रथमांशो यः स देह इति कथ्यते ।अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥ 42 ॥
- श्लोक 43देहादिं गणयेत् सव्ये जीवादिमपसव्यके ।एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥ 43 ॥
- श्लोक 44कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः ।मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञका परा ॥ 44 ॥
- श्लोक 45सिंहावलोकनाख्या तु तृतीया परिकीर्तिता ।उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥ 45 ॥
- श्लोक 46पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा ।बाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥ 46 ॥
- श्लोक 47कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूकी गतिः ।कर्किकेसरिणोरेवं कथ्यते मर्कटीगतिः ॥ 47 ॥
- श्लोक 48मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः ।इति संचिन्त्य विज्ञेयं कालचक्र दशाफलम् ॥ 48 ॥
- श्लोक 49मण्डूकगति काले हि सव्ये बन्धुजने भयम् ।पित्रोर्वा विष-शस्त्राग्नि ज्वर-चौरादिजं भयम् ॥ 49 ॥
- श्लोक 50केसरीयुग्ममण्डूके मातुर्मरणमादिशेत् ।स्वमृतिं राजभीतिं वा सन्निपातभयं वदेत् ॥ 50 ॥
- श्लोक 51मर्कटी गमने सव्ये धन-धान्य-पशुक्षयः ।पितुर्मरणमालस्यं तत्समानां च वा मृतिः ॥ 51 ॥
- श्लोक 52सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् ।सुहृत्स्नेहादिनाशश्च समानजन पीडनम् ॥ 52 ॥
- श्लोक 53पतनं वापि कूपादौ विषशस्त्राग्निजंभयम् ।वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥ 53 ॥
- श्लोक 54मण्डूकगमने वामे स्त्री-सुतादि-प्रपीडनम् ।ज्वरं च श्वापदाद् भीतिं वदेत् विज्ञः पदच्युतिम् ॥ 54 ॥
- श्लोक 55मर्कटीगमने वापि जलभीतिं पदच्युतिम् ।पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ 55 ॥
- श्लोक 56सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः ।तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥ 56 ॥
- श्लोक 57मीनात्तु वृश्चिके याते ज्वरो भवति निश्चितः ।कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥ 57 ॥
- श्लोक 58सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद्ध्रुवम् ।कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥ 58 ॥
- श्लोक 59पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः ।भयं पाप खगैर्युक्ते शुभखेटयुते शुभम् ॥ 59 ॥
- श्लोक 60शुभं वाऽप्यशुभं वापि, कालचक्रदशाफलम् ।राशिदिग्भागतो वापि पूर्वादिदिग्नभश्चरात् ॥ 60 ॥
- श्लोक 61तद्दिग्विभागे वक्तव्यं तद्दशासमये नृणाम् ।यथोपदेश मार्गेण सर्वेषां द्विजसत्तम ॥ 61 ॥
- श्लोक 62कन्यातः कर्कटे याते पूर्वभागे महत्फलम् ।उत्तरं दिशमाश्रित्य शुभा यात्रा भविष्यति ॥ 62 ॥
- श्लोक 63सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् ।कार्यान्तेऽपि च नैर्ऋत्यां सुखं यात्रा भविष्यति ॥ 63 ॥
- श्लोक 64कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे ।दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥ 64 ॥
- श्लोक 65मीनात्तु वृश्चिके याते उदग् गच्छति संकटम् ।चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥ 65 ॥
- श्लोक 66चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् ।वृश्चिके च सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥ 66 ॥
- श्लोक 67सिंहाच्च कर्कटे याते पश्चिमां वर्जयेद्दिशम् ।शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥ 67 ॥
- श्लोक 68शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके ।मिथुनांशे भवेज्ज्ञानी कर्क्यंशे नृपतिर्भवेत् ॥ 68 ॥
- श्लोक 69सिंहांशे राज्यमान्यश्च कन्यांशे पण्डितो भवेत् ।तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥ 69 ॥
- श्लोक 70चापांशे ज्ञान सम्पन्नो मकरांशे च पापकृत् ।कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥ 70 ॥
- श्लोक 72क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद्भयम् ।आधी रोगो भवेद् द्वाभ्यामपमृत्युस्त्रिभिर्भवेत् ॥ 72 ॥
- श्लोक 73चतुर्भिर्मृतिमापन्नो देहे जीवे शुभयुते ।युगपद् देहजीवौ च क्रूरग्रहयुतौ तदा ॥ 73 ॥
- श्लोक 74राजचौरादिभीतिश्च मृतिश्चापि न संशयः ।वह्निबाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद्भयम् ॥ 74 ॥
- श्लोक 75कुजे शस्त्रकृतापीडा वायुबाधा बुधे भवेत् ।गुल्मबाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥ 75 ॥
- श्लोक 76देह जीव गृहे यातो बुधो जीवोऽथवा भृगुः ।सुखसम्पत्कराः सर्वे रोगशोकविनाशनाः ॥ 76 ॥
- श्लोक 77मिश्रग्रहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् ।पापक्षेत्रदशा काले देहजीवौ तु दुःखितौ ।शुभ क्षेत्र दशाकाले शुभं भवति निश्चितम् ॥ 77 ॥
- श्लोक 78शुभयुक्ता शुभक्षेत्रदशा मिश्रफला स्मृता ।क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥ 78 ॥
- श्लोक 79जनानां जन्मकाले तु यो राशिस्तनुभावगः ।तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥ 79 ॥
- श्लोक 80शुभे पूर्णसुखं, पापे देहे रोगादि सम्भवः ।स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥ 80 ॥
- श्लोक 81धनभावे च यो राशिस्तस्य चक्रदशा यदि ।तदा सुभोजनपुत्रस्त्रीसुखं च धनाप्तयः ॥ 81 ॥
- श्लोक 82विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् ।शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥ 82 ॥
- श्लोक 83तृतीयभावराशेस्तु कालचक्रदशा यदा ।तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥ 83 ॥
- श्लोक 84स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंपदि ।शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥ 84 ॥
- श्लोक 85सुख भावगतर्क्षस्य कालचक्रदशा यदा ।तदा बन्धुसुखं भूमि-गृहराज्य-सुखाप्तयः ॥ 85 ॥
- श्लोक 86आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् ।शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥ 86 ॥
- श्लोक 87सुतभावगतर्क्षस्य कालचक्रदशा यदा ।सुतस्त्रीराज्यसौख्याप्तिरारोग्यमित्रसंगतः ॥ 87 ॥
- श्लोक 88विद्या बुद्धि यशो लाभो धैर्यं च विक्रमोदयः ।शुभ राशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥ 88 ॥
- श्लोक 89रिपुभावगतर्क्षस्य कालचक्रदशा यदा ।तदा चौरादिभूपाग्निविषशस्त्रभयं महत् ॥ 89 ॥
- श्लोक 90प्रमेहगुल्मपाण्ड्वादिरोगाणामपि संभवः ।पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥ 90 ॥
- श्लोक 91जायाभावगतर्क्षस्य कालचक्र दशा यदा ।तदा पाणिग्रहः पत्नी-पुत्रलाभादिकं शुभम् ॥ 91 ॥
- श्लोक 92कृषि-गो-धन-वस्त्राप्तिर्नृपपूजा महद्यशः ।शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥ 92 ॥
- श्लोक 93मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा ।स्थाननाशं महद्दुःखं बन्धुनाशं धनक्षयम् ॥ 93 ॥
- श्लोक 94दारिद्र्यमानविद्वेषमरिभीतिं च निर्दिशेत् ।पापराशौ फलं पूर्णं शुभ राशौ च तद्दलम् ॥ 94 ॥
- श्लोक 95धर्मभावगतर्क्षस्य कालचक्रदशा यदा ।तदा पुत्रकलत्रार्थ-कृषिगेहसुखं वदेत् ॥ 95 ॥
- श्लोक 96सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥ 96 ॥
- श्लोक 97कर्मभावगतर्क्षस्य कालचक्रदशा यदा ।राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥ 97 ॥
- श्लोक 98सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् ।शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥ 98 ॥
- श्लोक 99लाभभावस्थितर्क्षस्य कालचक्र दशा यदा ।पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥ 99 ॥
- श्लोक 100धनवस्त्राप्तिरारोग्यं सतां संगश्च जायते ।शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥ 100 ॥
- श्लोक 101व्ययभावस्थितर्क्षस्य कालचक्रदशा यदा ।उद्योगभंगमालस्यं देहपीडां पदच्युतिम् ॥ 101 ॥
- श्लोक 102दारिद्र्यं कर्मवैकल्यं तथा व्यर्थ व्ययं वदेत् ।पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥ 102 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।