अध्याय 47: विभिन्नदशाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 47 (Vibhinn Dasha)

65 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1लग्नादि व्यय पर्यन्तं भानां चरदशां ब्रुवे ।तस्मात्‌ तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥ 1 ॥
  2. श्लोक 2मेषादि-त्रित्रिभिर्ज्ञेयं पदमोजपदे-क्रमात्‌ ।दशाब्दानयने कार्या गणना व्युत्क्रमात्‌ समे ॥ 2 ॥
  3. श्लोक 3वृश्चिकाधिपती द्वौ च केतु-भौमौ स्मृतौ द्विज ! ।शनि-राहू च कुम्भस्य स्वामिनौ परिकीर्तितौ ॥ 3 ॥
  4. श्लोक 4द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना ।द्वावेवाधिपती विप्र ! युक्तौ स्वर्क्षे स्थितौ यदि ॥ 4 ॥
  5. श्लोक 5वर्षद्वादशकं तत्र न चेदेकादि चिन्तयेत्‌ ।एकः स्वक्षेत्रगोऽन्यस्तु परत्र यदि संस्थितः ॥ 5 ॥
  6. श्लोक 6तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत्‌ ।द्वावप्यन्यर्क्षगतौ चेत्‌ तयोर्मध्ये च यो बली ॥ 6 ॥
  7. श्लोक 7तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विज ।बलस्यात्र विचारे स्यादग्रहात् सग्रहो बली ॥ 7 ॥
  8. श्लोक 8द्वावेव सग्रहौ तौ चेद् बली तत्राधिकग्रहः ।ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥ 8 ॥
  9. श्लोक 9ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः ।राशिसत्व समानत्वे बहुवर्षो बली भवेत्‌ ॥ 9 ॥
  10. श्लोक 10एकः स्वोच्चगतश्चान्यः परत्र यदि संस्थितः ।गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥ 10 ॥
  11. श्लोक 11उच्चखेटस्य सद्भावे वर्षमेकं विनिक्षिपेत् ।तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥ 11 ॥
  12. श्लोक 12क्रमाद् वृषे वृश्चिके च व्युत्क्रमात् कुम्भसिंहयोः ।एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥ 12 ॥
  13. श्लोक 13स्वर्क्षसंस्थितखेटस्य वर्षाणि द्वादशैव ।धनस्थे चैक वर्षं तु तृतीये वत्सरद्वयम्‌ ॥ 13 ॥
  14. श्लोक 14वर्ष त्रयं चतुर्थे च चतुर्वर्षाणि पंचमे ।षष्ठे स्युः पंचवर्षाणि षड्वर्षाणि सप्तमे ॥ 14 ॥
  15. श्लोक 15एवं क्रमात्‌ व्ययस्थे तु रुद्रवर्षात्मिका दशा ।एवं लग्नादि राशीनां भाधिपान्तं विकल्पयेत्‌ ॥ 15 ॥
  16. श्लोक 16क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात्‌ ।लग्नराशिं समारभ्य विज्ञश्चैवं दशां नयेत्‌ ॥ 16 ॥
  17. श्लोक 18उभये कण्टकाज्ज्ञेयाः लग्नपंचम भाग्यतः ।चरस्थिर द्विस्वभावेषु ओजेषु प्राक्‌ क्रमो मतः ॥ 18 ॥
  18. श्लोक 19तेष्वेव त्रिषु युग्मेषु ग्राह्यम्‌ व्युत्क्रमतोऽखिलम्‌ ।एवमालिखितो राशिः पाकराशिरुदीर्यते ॥ 19 ॥
  19. श्लोक 20तदिदं चरपर्याये स्थिरपर्याययोर्द्वयोः ।त्रिकोणाख्य दशायां च एवं पाकप्रकल्पनम्‌ ॥ 20 ॥
  20. श्लोक 21अथाहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज ।चरे सप्त स्थिरे चाष्टौ द्वन्द्वे नव समाः स्मृताः ॥ 21 ॥
  21. श्लोक 22स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ।ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥ 22 ॥
  22. श्लोक 23योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने ! ।इति स्पष्टतरं ब्रूहि कृपया मुनिपुंगव ॥ 23 ॥
  23. श्लोक 24षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः ।पृष्ठस्थितो भवेद्वापि बलिनो लग्न जाययोः ॥ 24 ॥
  24. श्लोक 25कारकादष्टमेशो वा ब्रह्माप्यष्टमभावगः ।शनौ पाते च ब्रह्मत्वे ब्रह्मा तत्र षष्ठखेचरः ॥ 25 ॥
  25. श्लोक 26बहवो लक्षणाक्रान्ता ज्ञेयः तेष्वधिकांशकः ।अंशसाम्ये बलाधिक्यात्‌ विज्ञेयो ब्रह्मखेचरः ॥ 26 ॥
  26. श्लोक 27योगार्धं च दशामानं द्वयोर्योगार्धसम्मितम्‌ ।लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥ 27 ॥
  27. श्लोक 28लग्नसप्तमयोर्मध्ये यो राशिर्बलवान्‌ भवेत्‌ ।ततो दशा हि राशीनां क्रमव्युत्क्रमभेदतः ॥ 28 ॥
  28. श्लोक 29प्रतिभं नववर्षाणि चरेऽनुज्झितमार्गतः ।द्वितीये षष्ठतो ज्ञेया ततो राशेः क्रमोत्क्रमात्‌ ॥ 29 ॥
  29. श्लोक 30उभये कण्टकाज्ज्ञेया लग्नपंचमभाग्यतः ।चरस्थिरद्विस्वभावेषु ओजेषु प्राक्क्रमो मतः ।तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम्‌ ॥ 30 ॥
  30. श्लोक 31कारकादपि राशीनां खेटानां चैवमेव हि ।ततः केन्द्रादि संस्थानां राशीनां च बलक्रमात्‌ ॥ 31 ॥
  31. श्लोक 32लग्नात्कारकपर्यन्तं सप्तमाद्‌ वा दशां विदुः ।उभयोरधिका संख्या कारकस्य दशा समाः ॥ 32 ॥
  32. श्लोक 33आत्मकारकमारभ्य कारकाख्यदशां नयेत्‌ ।तद्युक्तानां च तत्तुल्यं प्रत्येकं स्युर्दशाक्रमात्‌ ॥ 33 ॥
  33. श्लोक 34ग्रहाः स्वराशिपर्यन्तं संख्यान्यस्य दशा भवेत्‌ ।कारकस्तद्युतश्चादौ तत्केन्द्रादि स्थिताः क्रमात्‌ ।दशा क्रमेण विज्ञेयाः शुभाशुभफलप्रदाः ॥ 34 ॥
  34. श्लोक 35मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज ! ।लग्नसप्तमयोर्मध्ये यो राशिर्बलवान्‌ भवेत्‌ ॥ 35 ॥
  35. श्लोक 36ततः क्रमेणौजराशौ समे नेया विलोमतः ।त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥ 36 ॥
  36. श्लोक 37निर्याणस्य विचारार्थं कैश्चिच्छूलदशा स्मृता ।लग्नसप्तमयोर्मध्ये यो राशिः बलवान् भवेत् ॥ 37 ॥
  37. श्लोक 38तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे ।दशाब्दाः स्थिरवत्तत्र बलवत्कोणभे मृतिः ॥ 38 ॥
  38. श्लोक 39लग्नत्रिकोणे यो राशिर्बलवानुक्तहेतुभिः ।तदारभ्योन्नयेद्धीमान् चरपर्यायवद् दशाम् ॥ 39 ॥
  39. श्लोक 40क्रमोत्क्रमाभ्यां गणयेदोजयुग्मेषु राशिषु ।क्रमाद्‌ वृषे वृश्चिके च व्युत्क्रमात्कुम्भसिंहयोः ॥ 40 ॥
  40. श्लोक 41त्रिकोणाख्या दशा प्रोक्ता नाथान्ताश्च समाः स्मृताः ।जन्मकालग्रहस्थित्या गोचरस्थैर्ग्रहैरपि ।विचारितैः प्रवक्तव्यं त्रिकोणाख्य दशाफलम्‌ ॥ 41 ॥
  41. श्लोक 42लग्नाद्‌ धर्मस्य तद्दृष्टराशीनां च दशास्ततः ।दशमस्य च तद्दृष्टराशीनां च नयेत्‌ पुनः ॥ 42 ॥
  42. श्लोक 43एकादशस्थतद्दृष्टराशीनां स्थिरवत्समाः ।प्रवृत्ता दृग्वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥ 43 ॥
  43. श्लोक 44चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात्‌ ।विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात्‌ समे ॥ 44 ॥
  44. श्लोक 45ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता ।भयातं रविभिर्निघ्नं भभोगविहृतं फलम्‌ ॥ 45 ॥
  45. श्लोक 46राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशोधितम् ।तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥ 46 ॥
  46. श्लोक 47पंचांकान्‌ प्रथमे दत्त्वा स्वरान्वर्णाश्च विन्यसेत्‌ ।कादिहान्तांल्लिखेद्‌ वर्णान्‌ स्वराधो ङञणोज्झितान्‌ ॥ 47 ॥
  47. श्लोक 48तिर्यक्‌ पंक्ति क्रमेणैव पंच पंच विभागतः ।न प्रोक्ता ङञणावर्णानामादौ सन्ति तेन हि ॥ 48 ॥
  48. श्लोक 49चेद्भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमम्‌ ।यत्रस्वरे स्वनामाद्यवर्णः स्यात्‌ तत्स्वरादयः ॥ 49 ॥
  49. श्लोक 50क्रमात्‌ पंचदशाधीशाः द्वादश द्वादशाब्दकाः ।स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥ 50 ॥
  50. श्लोक 51पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज ।इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥ 51 ॥
  51. श्लोक 52मंगला पिंगला धान्या भ्रामरी भद्रिका तथा ।उल्का सिद्धा संकटा च योगिन्यष्टौ प्रकीर्तिताः ॥ 52 ॥
  52. श्लोक 53मंगलातोऽभवत्सूर्यः पिंगलातो निशाकरः ।धान्यातो देवपूज्योऽभूद्‌ भ्रामरीतोऽभवत्कुजः ॥ 53 ॥
  53. श्लोक 54भद्रिकातो बुधोजातस्तथोल्कातः शनैश्चरः ।सिद्धातो भार्गवो जातः संकटातस्तमोऽभवत्‌ ॥ 54 ॥
  54. श्लोक 55जन्मर्क्षं च त्रिभिर्युक्तं वसुभिर्भागमाहरेत्‌ ।एकादि शेषे विज्ञेया योगिन्यो मंगलादितः ॥ 55 ॥
  55. श्लोक 56एकाद्येकोत्तरा ज्ञेयाः समाश्चासां क्रमादिह ।विंशोत्तरीवदेवात्र भुक्तं भोग्यं च साधयेत्‌ ॥ 56 ॥
  56. श्लोक 57येषां यदायुः संसिद्धं पैण्ड्यमंशनिसर्गजम्‌ ।तत्तत्‌ तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥ 57 ॥
  57. श्लोक 58बली लग्नार्कचन्द्राणां यस्तस्य प्रथमा दशा ।तत्केन्द्रादिगतानां च ज्ञेया बलक्रमात्ततः ॥ 58 ॥
  58. श्लोक 59अष्टवर्गबलेनैषां फलानि परिचिन्तयेत्‌ ।अष्टवर्गदशाश्चापि कथिताः पूर्वसत्तमैः ॥ 59 ॥
  59. श्लोक 60परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता ।तन्मिता लग्नभादीनां क्रमात्‌ सन्ध्यादशा स्मृता ॥ 60 ॥
  60. श्लोक 61सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम्‌ ।संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत्‌ ॥ 61 ॥
  61. श्लोक 62त्रिभागं वसु कोष्ठेषु विन्यस्य तत्फलं वदेत्‌ ।एवं द्वादशभावेषु पाचकानि विकल्पयेत्‌ ॥ 62 ॥
  62. श्लोक 63विंशोत्तरीदशेवात्र कैश्चित्‌ तारादशा मता ।आचकुराजीशबुकेश्वादिस्थानेषु तारकाः ॥ 63 ॥
  63. श्लोक 64जन्मसम्पद्विपत्क्षेम प्रत्यरिसाधको वधः ।मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात्‌ ॥ 64 ॥
  64. श्लोक 65ज्ञेया तारादशा विप्र ! नामतुल्य फलप्रदा ।यस्य केन्द्रे स्थितः खेटो दशेयं परिकीर्तिता ॥ 65 ॥
  65. श्लोक 66इति ते कथिता विप्र ! दशाभेदा अनेकधा ।एतदन्तर्दशाभेदान्‌ कथयिष्यामि चाग्रतः ॥ 66 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।