अध्याय 48: अन्तर्दशाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 48 (Antardasha)

13 श्लोक

  1. श्लोक 1दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः ।पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥ 1 ॥
  2. श्लोक 2आदावन्तर्दशापाकपतेस्तत्क्रमतोऽपराः ।एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥ 2 ॥
  3. श्लोक 3कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद्वदेत्‌ ।एवं दशान्तर्दशादि कृत्वा तेन फलं वदेत्‌ ॥ 3 ॥
  4. श्लोक 4ओजे क्रमात्समे गण्याः दशा संहारमार्गतः ।दशाक्रमानुसारेण सर्वत्रैवं क्रमो मतः ॥ 4 ॥
  5. श्लोक 5चरस्थिरद्विस्वभावेषु ओजेषु प्राक् क्रमो मतः ।तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् ॥ 5 ॥
  6. श्लोक 6एवमालिखितो राशिः पाकराशिरुदीर्यते ।आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥ 6 ॥
  7. श्लोक 7तस्मात्‌ तावत्तिथो भोगः पर्याये तत्र गृह्यताम्‌ ।तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥ 7 ॥
  8. श्लोक 8त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् ।पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ 8 ॥
  9. श्लोक 9पिण्डांशनिसर्गेषु ब्रवीम्यन्तर्दशाविधिम् ।पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥ 9 ॥
  10. श्लोक 10त्रिकोणगस्तृतीयांशं तुर्यांशं चतुरस्रगः ।स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥ 10 ॥
  11. श्लोक 11एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः ।समच्छेदी कृताः प्राप्ता अंशाश्छेदविवर्जिताः ॥ 11 ॥
  12. श्लोक 12दशाब्दाः पृथगंशघ्ना अंशयोग विभाजिताः ।अन्तर्दशा भवत्येवं तत्प्रत्यन्तर्दशादिकाः ॥ 12 ॥
  13. श्लोक 13विंशोत्तरीदशारीत्याकालचक्रदशास्वपि ।दशादशाहतांकृत्वा भुक्तं भोग्यं च साधयेत्‌ ॥ 13 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।