अध्याय 49: दशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 49 (Dasha Phal)
87 श्लोक
- श्लोक 1श्रुताश्च बहुधा भेदा दशानां च मया मुने ! ।फलं च कीदृशं तासां कृपया वद विभागशः ॥ 1 ॥
- श्लोक 2साधारणं विशिष्टं च दशानां द्विविधं फलम् ।ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥ 2 ॥
- श्लोक 3ग्रह वीर्यानुसारेण फलं ज्ञेयं दशासु च ।आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥ 3 ॥
- श्लोक 4दशामध्येफलं वाच्यं मध्यद्रेष्काणगे खगे ।अन्ते फलं तृतीयस्थे विपरीतं तु वक्रगे ॥ 4 ॥
- श्लोक 5दशारम्भे दशाधीशे लग्नगे शुभदृग्युते ।स्वोच्चे स्वभे स्वमित्रे वा शुभं तस्य दशाफलम् ॥ 5 ॥
- श्लोक 6षष्ठाष्टमव्ययगते नीचास्तरिपुभस्थिते ।अशुभं तत्फलं चाथ ब्रुवे सप्तदशाफलम् ॥ 6 ॥
- श्लोक 7मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे ।केन्द्रत्रिकोण लाभस्थे भाग्यकर्माधिपैर्युते ॥ 7 ॥
- श्लोक 8सूर्ये बलसमायुक्ते निजवर्गबलैर्युते ।तस्मिन्दाये महत्सौख्यं धनलाभादिकं सुखम् ॥ 8 ॥
- श्लोक 9अत्यन्तं राजसम्मानमश्वान्दोल्यादिकं सुखम् ।सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥ 9 ॥
- श्लोक 10धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् ।धनेशस्य च सम्बन्धे वाहनत्रय लाभकृत् ॥ 10 ॥
- श्लोक 11नृपालतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः ।बलवाहनलाभश्च दशायां बलिनो रवेः ॥ 11 ॥
- श्लोक 12नीचे षडष्टके रिःफे दुर्बले पापसंयुते ।राहुकेतुसमायुक्ते दुःस्थानाधिपसंयुते ॥ 12 ॥
- श्लोक 13तस्मिन्दाये महापीडा धनधान्यविनाशकृत् ।राजकोपः प्रवासश्च राजदण्डात् धनक्षयः ॥ 13 ॥
- श्लोक 14ज्वरपीडा यशो हानिर्बन्धुमित्रविरोधकृत् ।पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥ 14 ॥
- श्लोक 15पितृवर्गे मनस्तापं जनद्वेषं च विन्दति ।शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित् सुखम् ।पापग्रहेण संयुक्ते वदेत् पापफलं बुधः ॥ 15 ॥
- श्लोक 16स्वोच्चे स्वक्षेत्रगे चन्द्रे केन्द्रे लाभत्रिकोणगे ।शुभग्रहेण संयुक्ते पूर्णे चन्द्रे बलैर्युते ॥ 16 ॥
- श्लोक 17कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते ।आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत् ॥ 17 ॥
- श्लोक 18गृहे तु शुभकार्याणि वाहनं राजदर्शनम् ।यत्नकार्यार्थसिद्धिः स्यात् गृहे लक्ष्मी कटाक्षकृत् ॥ 18 ॥
- श्लोक 19मित्रप्रभुवशाद्भाग्यं राज्यलाभं महासुखम् ।अश्वान्दोल्यादि लाभश्च श्वेतवस्त्रादिकं लभेत् ॥ 19 ॥
- श्लोक 20पुत्र लाभादि सन्तोषं गृहगोधनसंकुलम् ।धनस्थानगते चन्द्रे तुंगे स्वक्षेत्रगेऽपि वा ॥ 20 ॥
- श्लोक 21अनेकधनलाभश्च भाग्यवृद्धिः महत्सुखम् ।निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥ 21 ॥
- श्लोक 22नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति ।दुश्चिक्ये बलसंयुक्ते क्वचित् सौख्यं क्वचिद्धनम् ॥ 22 ॥
- श्लोक 23दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् ।भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥ 23 ॥
- श्लोक 24षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते ।राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥ 24 ॥
- श्लोक 25मातृक्लेशं मनस्तापं देहजाड्यं मनोरुजम् ।दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् ।देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं भवेत् ॥ 25 ॥
- श्लोक 26स्वभोच्चादि गतस्यैवं नीचशत्रुभगस्य च ।ब्रवीमि भूमिपुत्रस्य शुभाशुभदशाफलम् ॥ 26 ॥
- श्लोक 27स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ।परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे ॥ 27 ॥
- श्लोक 28सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके ।राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥ 28 ॥
- श्लोक 29आधिक्याद् राजसम्मानं वाहनाम्बरभूषणम् ।विदेशे स्थानलाभश्च सोदराणां सुखं लभेत् ॥ 29 ॥
- श्लोक 30केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते ।पराक्रमाद् वित्तलाभो युद्धे शत्रुजयो भवेत् ॥ 30 ॥
- श्लोक 31कलत्रपुत्रविभवं राजसम्मानमेव च ।दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥ 31 ॥
- श्लोक 32नीचादि दुष्टभावस्थे भौमे बलविवर्जिते ।पापयुक्ते पापदृष्टे सा दशा नेष्टदायिनी ॥ 32 ॥
- श्लोक 33एवं राहोश्च केतोश्च कथयामि गृहादिकम् ।तयोर्दशाफलज्ञप्त्यै तवाग्रे द्विजनन्दन ॥ 33 ॥
- श्लोक 34राहोस्तु वृषभं केतोर्वृश्चिकं तुंगसंज्ञकम् ।मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥ 34 ॥
- श्लोक 35कुम्भाली च गृहे प्रोक्ते कन्या मीने च केनचित् ।तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥ 35 ॥
- श्लोक 36मित्रप्रभुवशादिष्टं वाहनं पुत्रसम्भवः ।नवीन गृहनिर्माणं धर्मचिन्ता महोत्सवः ॥ 36 ॥
- श्लोक 37विदेशे राजसम्मानं वस्त्रालंकरणभूषणम् ।शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥ 37 ॥
- श्लोक 38केन्द्रत्रिकोणलाभे वा दुश्चिक्ये शुभराशिगे ।महाराजप्रसादेन सर्वसम्पत्सुखावहम् ।यवनप्रभुसम्मानं गृहे कल्याणसम्भवम् ॥ 38 ॥
- श्लोक 39रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥ 39 ॥
- श्लोक 40पापग्रहेण सम्बन्धे मारकग्रहसंयुते ।नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥ 40 ॥
- श्लोक 41विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् ।दशादौ देशपीडा च धनधान्यपरिच्युतिः ॥ 41 ॥
- श्लोक 42दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् ।दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥ 42 ॥
- श्लोक 43यः सर्वेषु नभोगेषु बुधैरतिशुभः स्मृतः ।तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥ 43 ॥
- श्लोक 44स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रलाभत्रिकोणगे ।मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ 44 ॥
- श्लोक 45राज्यलाभं महत्सौख्यं राज्यसन्मानकीर्तनम् ।गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥ 45 ॥
- श्लोक 46दारपुत्रादिसौख्यं च वाहनाम्बरलाभजम् ।यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥ 46 ॥
- श्लोक 47महाराजप्रसादेनाभीष्टसिद्धिः सुखावहा ।आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥ 47 ॥
- श्लोक 48पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् ।नीचास्तपापसंयुते जीवेरिःफाष्टसंयुते ॥ 48 ॥
- श्लोक 49स्थानभ्रंशं मनस्तापं पुत्रपीडां महद्भयम् ।पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥ 49 ॥
- श्लोक 50आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् ।मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥ 50 ॥
- श्लोक 51स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथवा यदि ।मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥ 51 ॥
- श्लोक 52दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् ।सत्कीर्तिधनलाभश्च विद्यावादविनोदकृत् ॥ 52 ॥
- श्लोक 53महाराजप्रसादेन गजवाहनभूषणम् ।राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥ 53 ॥
- श्लोक 54लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च ।गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ 54 ॥
- श्लोक 55षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तंगतेऽपि वा ।विषशस्त्रादिपीडा च स्थानभ्रंशं महद्भयम् ॥ 55 ॥
- श्लोक 56पितृमातृवियोगं च दारपुत्रादिपीडनम् ।राज्यवैषम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥ 56 ॥
- श्लोक 57शुभयुक्तेक्षिते मन्दे योगकारकसंयुते ।केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥ 57 ॥
- श्लोक 58राज्यलाभं महोत्साहं गजाश्वाम्बरसंकुलम् ॥ 58 ॥
- श्लोक 59अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः ।तस्य तारेशपुत्रस्य कथयामि दशाफलम् ॥ 59 ॥
- श्लोक 60स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे ।मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ 60 ॥
- श्लोक 61धनधान्यादि लाभं च सत्कीर्तिधनसम्पदाम् ।ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्धनम् ॥ 61 ॥
- श्लोक 62पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् ।क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥ 62 ॥
- श्लोक 63शुभदृष्टियुते सौम्ये भाग्यकर्माधिपे दशा ।आधिपत्ये बलवती सम्पूर्णफलदायिका ॥ 63 ॥
- श्लोक 64पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् ।बन्धुजनविरोधं च विदेशगमनं लभेत् ॥ 64 ॥
- श्लोक 65परप्रेष्यं च कलहं मूत्रकृच्छ्रान्महद्भयम् ।षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशकम् ॥ 65 ॥
- श्लोक 66वातपीडां धनं चैव पाण्डुरोगं विनिर्दिशेत् ।नृपचौराग्निभीतिं च कृषिगोभूमिविनाशनम् ॥ 66 ॥
- श्लोक 67दशादौ धनधान्यं च विद्यालाभं महत्सुखम् ।पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥ 67 ॥
- श्लोक 68मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥ 68 ॥
- श्लोक 69यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः ।तस्य केतोरिदानीं ते कथयामि दशाफलम् ॥ 69 ॥
- श्लोक 70केन्द्रे लाभे त्रिकोणे वा शुभराशौ शुभेक्षिते ।स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोरथान् ॥ 70 ॥
- श्लोक 71देशग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् ।देशान्तरप्रयाणं च निर्दिशेत् तत्सुखावहम् ॥ 71 ॥
- श्लोक 72पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् ।दुश्चिक्ये षष्ठलाभे वा केतुदाये सुखं दिशेत् ॥ 72 ॥
- श्लोक 73राज्यं करोति मित्रांशे गजवाजिसमन्वितम् ।दशादौ राजयोगाश्च दशामध्ये महद्भयम् ॥ 73 ॥
- श्लोक 74अन्ते दूराटनं चैव देहाविश्रमणं तथा ।धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥ 74 ॥
- श्लोक 75निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् ।शूद्रसंगादिलाभं च कुरुते रोगसंकुलम् ॥ 75 ॥
- श्लोक 76अथ भूतेषु यः शुक्रो मदरूपेण तिष्ठति ।तस्य दैत्यगुरोर्विप्र ! कथयामि दशाफलम् ॥ 76 ॥
- श्लोक 77परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।नृपाऽभिषेक-सम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥ 77 ॥
- श्लोक 78गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् ।अखण्डमण्डलाधीश राजसन्मानवैभवम् ॥ 78 ॥
- श्लोक 79मृदङ्गवाद्य घोषं च गृहे लक्ष्मीकटाक्षकृत् ।त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहसम्पदः ॥ 79 ॥
- श्लोक 80विवाहोत्सव कार्याणि पुत्रकल्याणवैभवम् ।सेनाधिपत्यं कुरुते इष्टबन्धुसमागमम् ॥ 80 ॥
- श्लोक 81नष्ट राज्याद्धनप्राप्तिं गृहे गोधनसंग्रहम् ।षष्ठाष्टमव्यये शुक्रे नीचे वा रिपु राशिगे ॥ 81 ॥
- श्लोक 82आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् ।व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ॥ 82 ॥
- श्लोक 83दारपुत्रादि पीडा वा आत्मबन्धुवियोगकृत् ।भाग्यकर्माधिपत्येन लग्नवाहन राशिगे ॥ 83 ॥
- श्लोक 84तद्दशायां महत्सौख्यं देशग्रामाधिपालता ।देवालय-तडागादि-पुण्यकर्मसु संग्रहः ॥ 84 ॥
- श्लोक 85अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ।उत्साहः कीर्तिसम्पत्तौ स्त्रीपुत्रधनसम्पदः ॥ 85 ॥
- श्लोक 86स्वभुक्तौ फलमेवं स्याद् फलान्यन्यानि भुक्तिषु ।द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ 86 ॥
- श्लोक 87तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् ।श्वेतां गां महिषीं दद्यादारोग्यं च ततो भवेत् ॥ 87 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।