अध्याय 50: भावेशदशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 50 (Bhavesh Dasha Phal)
20 श्लोक
- श्लोक 1स्थानस्थिति वशेनैवं फलं प्रोक्तं पुरातनैः ।मिथो भावेशसम्बन्धात् फलानि कथयाम्यहम् ॥ 1 ॥
- श्लोक 2लग्नेशस्य दशाकाले सत्कीर्तिं देहजं सुखम् ।धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥ 2 ॥
- श्लोक 3सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् ।सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥ 3 ॥
- श्लोक 4पंचमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् ।रोगेशस्य दशाकाले देहपीडारिपोर्भयम् ॥ 4 ॥
- श्लोक 5सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् ।अष्टमेश दशाकाले मृत्युभीतिर्धनक्षयम् ॥ 5 ॥
- श्लोक 6धर्मेशस्य दशायां च भूरिलाभो, यशः सुखम् ।दशमेशदशाकाले सम्मानं नृपसंसदि ॥ 6 ॥
- श्लोक 7लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् ।व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज 11 7 ।
- श्लोक 8दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् ।अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥ 8 ॥
- श्लोक 9पंचमेशेन युक्तस्य कर्मेशस्य दशा शुभा ।नवमेशेन युक्तस्य कर्मेशस्याति शोभना ॥ 9 ॥
- श्लोक 10पंचमेशेन युक्तस्य ग्रहस्यापि दशा शुभा ।तथा धर्मपयुक्तस्य दशा परमशोभना ॥ 10 ॥
- श्लोक 11सुखेश सहितस्यापि धर्मेशस्य दशा शुभा ।पंचमस्थानगस्यापि भवेशस्य दशा शुभा ॥ 11 ॥
- श्लोक 12एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः ।तथा त्रिकोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥ 12 ॥
- श्लोक 13केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि ।तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥ 13 ॥
- श्लोक 14षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुताः ।तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥ 14 ॥
- श्लोक 15कोणेशो यदि केन्द्रस्थः केन्द्रेशो यदि कोणगः ।ताभ्यां युक्तस्य खेटस्य दृष्टि युक्तस्य चैतयोः ॥ 15 ॥
- श्लोक 16दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः ।लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥ 16 ॥
- श्लोक 17एतयोस्तु दशाकाले सुख धर्म समुद्भवः ।कर्मेशो लग्न राशिस्थो लग्नेशः कर्मभावगः ॥ 17 ॥
- श्लोक 18तयोर्दशाविपाके तु राज्यलाभो भवेद् ध्रुवम् ।त्रिषडायगतानां च त्रिषडायाधिपैर्युजाम् ॥ 18 ॥
- श्लोक 19शुभानामपि खेटानां दशा पापफलप्रदा ।मारकस्थानगानां च मारकेशयुजामपि ॥ 19 ॥
- श्लोक 20रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा ।एवं भावेश सम्बन्धादूहनीयं दशाफलम् ॥ 20 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।