अध्याय 51: कालचक्रदशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 51 (Kalchakra Dasha Phal)

37 श्लोक

  1. श्लोक 1कथयाम्यथ विप्रेन्द्र ! कालचक्रदशाफलम्‌ ।तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥ 1 ॥
  2. श्लोक 2रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत्‌ ।धनकीर्तिप्रजावृद्धिं वस्त्राभरणदः शशी ॥ 2 ॥
  3. श्लोक 3ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा ।प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥ 3 ॥
  4. श्लोक 4धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः ।विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम्‌ ॥ 4 ॥
  5. श्लोक 5तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम्‌ ।एवमर्कादियोगेन वदेद्राशिदशाफलम्‌ ॥ 5 ॥
  6. श्लोक 6मेषे तु रक्तपीडा च वृषभे धान्यवर्धनम्‌ ।मिथुने ज्ञान सम्पन्नश्चान्द्रे धनपतिर्भवेत्‌ ॥ 6 ॥
  7. श्लोक 7सूर्यर्क्षे शत्रुबाधा च कन्यायां दारनाशनम्‌ ।तौलिके राजमन्त्रित्वं वृश्चिके मरणं भवेत्‌ ॥ 7 ॥
  8. श्लोक 8अर्थलाभो भवेच्चापे मेषस्य नवभागके ।मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥ 8 ॥
  9. श्लोक 9मीने सर्वार्थसिद्धिश्च वृश्चिकेत्वग्नितो भयम्‌ ।तौलिके राज्यपूज्यश्च कन्यायां शत्रुवर्धनम्‌ ॥ 9 ॥
  10. श्लोक 10शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत्‌ ।मिथुने वृत्तिबाधा स्यात्‌ वृषभस्य नवांशके ॥ 10 ॥
  11. श्लोक 11वृषभे त्वर्थलाभश्च मेषे तु ज्वररोगकृत्‌ ।मीने तु मातुलप्रीतिः कुम्भे शत्रुवर्धनम्‌ ॥ 11 ॥
  12. श्लोक 12मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम्‌ ।मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत्‌ ॥ 12 ॥
  13. श्लोक 13मिथुने सुखमाप्नोति मिथुनस्य नवांशके ।कर्कटे संकटप्राप्तिः सिंहे राजप्रकोपकृत्‌ ॥ 13 ॥
  14. श्लोक 14कन्यायां भ्रातृपूजा च तौलिके प्रियकृन्नरः ।वृश्चिके पितृबाधा स्यात्‌ चापे ज्ञानधनोदयः ॥ 14 ॥
  15. श्लोक 15मकरे जलभीतिः स्यात्‌ कुम्भे धान्यविवर्धनम्‌ ।मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥ 15 ॥
  16. श्लोक 16वृश्चिके कलहः पीडा तौलिके ह्यधिकं फलम्‌ ।कन्यायामतिलाभश्च शशांके मृगबाधिका ॥ 16 ॥
  17. श्लोक 17सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्धनम्‌ ।वृषे चतुष्पदाल्लाभो मेषांशे पशुतो भयम्‌ ॥मीने तु दीर्घयात्रा स्यात्‌ सिंहस्य नवभागके ॥ 17 ॥
  18. श्लोक 18कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत्‌ ।धनुषि भ्रातृसंसर्गो मेषे मातृविवर्धनम्‌ ॥ 18 ॥
  19. श्लोक 19वृषभे पुत्रवृद्धिः स्याम्मिथुने शत्रुवर्धनम्‌ ।शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्धनम्‌ ॥ 19 ॥
  20. श्लोक 20कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके ।तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्धनम् ॥ 20 ॥
  21. श्लोक 21चापे च तातसौख्यं च मृगे मातृविरोधिता ।कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥ 21 ॥
  22. श्लोक 22अलौ जायाविरोधश्च तुले च जलबाधता ।कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥ 22 ॥
  23. श्लोक 23कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता ।मिथुने भूमिलाभश्च वृषभे चार्थलाभकृत्‌ ॥ 23 ॥
  24. श्लोक 24मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद्‌भयम्‌ ।कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम्‌ ॥ 24 ॥
  25. श्लोक 25चापे तु धनलाभः स्याद्‌ वृश्चिकस्य नवांशके ।मेषे तु धनलाभः स्याद्‌ वृषे भूमिविवर्धनम्‌ ॥ 25 ॥
  26. श्लोक 26मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत्‌ ।सिंहे तु पूर्णं वृद्धिः स्यात्कन्यायां कलहो भवेत्‌ ॥ 26 ॥
  27. श्लोक 27तौलिके चार्थलाभः स्यात्‌ वृश्चिके रोगमाप्नुयात्‌ ।चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥ 27 ॥
  28. श्लोक 28मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्धनम्‌ ।मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥ 28 ॥
  29. श्लोक 29तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्धनम्‌ ॥शशिभे श्रियमाप्नोति सिंहे तु मृगबाधिता ॥ 29 ॥
  30. श्लोक 30मिथुने वृक्षबाधा च मृगस्य नवभागके ।वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत्‌ ॥ 30 ॥
  31. श्लोक 31मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्धनम्‌ ।मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्धनम्‌ ॥ 31 ॥
  32. श्लोक 32मेषे सौख्यविनाशश्च वृषभे मरणं भवेत्‌ ।युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥ 32 ॥
  33. श्लोक 33कर्कटे धनवृद्धिः स्यात्‌ सिंहे तु राजपूजनम्‌ ।कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात्‌ ॥ 33 ॥
  34. श्लोक 34वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्धनम्‌ ।मृगे जायाविरोधश्च कुम्भे जलविरोधिता ॥ 34 ॥
  35. श्लोक 35मीने तु सर्वसौभाग्यं मीनस्य नवभागके ।दशा-अंश क्रमेणैव ज्ञात्वा सर्व फलं वदेत्‌ ॥ 35 ॥
  36. श्लोक 36क्रूर ग्रह दशाकाले शान्तिं कुर्याद्विचक्षणः ।यत्प्रोक्तं राजयोगादौ संज्ञाध्याये च यत्फलम्‌ ॥ 36 ॥
  37. श्लोक 37तत्सर्वं चक्रकाले हि स्वबुद्ध्या योजयेद्‌ बुधः ।इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम्‌ ॥ 37 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।