अध्याय 52: चरादिदशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 52 (Chara Adi Dasha Phal)
70 श्लोक · 2 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1चरस्थिरादिसंज्ञा या दशा प्रोक्ता पुरा द्विज ।शुभाशुभफलं तासां कथयामि तवाग्रतः ॥ 1 ॥
- श्लोक 2लग्नादि-द्वादशान्तानां भावानां फलकीर्तने ।तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥ 2 ॥
- श्लोक 3बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् ।फलं मध्यबले मध्यं बलहीने विपर्ययः ॥ 3 ॥
- श्लोक 4यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके ।पापखेटयुते विप्र ! तद्दशादुःखदायिका ॥ 4 ॥
- श्लोक 5तृतीय षष्ठगे पापे जयादिः प्रकीर्तितः ।शुभखेटयुते तत्र जायते च पराजयः ॥ 5 ॥
- श्लोक 6लाभस्थे च शुभे पापे लाभो भवति निश्चितः ।यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥ 6 ॥
- श्लोक 7शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् ।पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥ 7 ॥
- श्लोक 8पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् ।पापक्षेत्रे पापयुक्ते सा दशा सर्वदुःखदा ॥ 8 ॥
- श्लोक 9शुभक्षेत्रदशाराशौ युक्ते पापशुभैर्द्विज ॥ 9 ॥
- श्लोक 10पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते ।शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥ 10 ॥
- श्लोक 11द्वितीये पंचमे सौम्ये राजप्रीतिर्जयो ध्रुवम् ।पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥ 11 ॥
- श्लोक 12चतुर्थे तु शुभे सौख्यमारोग्यं त्वष्टमे शुभे ।धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ 12 ॥
- श्लोक 13विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् ।पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ 13 ॥
- श्लोक 14सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता ।चतुर्थे स्थानहानिः स्यात्पंचमे पुत्रपीडनम् ॥ 14 ॥
- श्लोक 16उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् ।केन्द्रस्थानगते सौम्ये लाभः शत्रुजयप्रदः ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमजन्मकाल ग्रहस्थित्या सगोचर ग्रहैरपि ।विचारितैः प्रवक्तव्यं तत्तद्राशिदशाफलम् ॥ 17 ॥
- श्लोक 18यश्च राशिः शुभाक्रान्ता पूर्वपश्चाच्छुभा ग्रहाः ।तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥ 18 ॥
- श्लोक 19त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् ।तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥ 19 ॥
- श्लोक 20मेषकर्कतुलानक्रराशीनां च यथाक्रमम् ।बाधा स्थानानि सम्प्रोक्ता कुम्भगोसिंहवृश्चिकाः ॥ 20 ॥
- श्लोक 21पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे ।स्थिते सति महाशोको बन्धनव्यसनामयाः ॥ 21 ॥
- श्लोक 22उच्चस्वर्क्षग्रहे तस्मिंच्छुभं सौख्यं धनागमः ।तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥ 22 ॥
- श्लोक 23बाधकव्ययषड्रन्ध्रे राहुयुक्ते महद्भयम् ।प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोर्भयम् ॥ 23 ॥
- श्लोक 24रव्यारराहुशनिभिः भुक्तराशिः स्थिरा यदि ।तद्राशिभुक्तौ पतनं राजकोपान् महद्भयम् ॥ 24 ॥
- श्लोक 25भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि ।तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥ 25 ॥
- श्लोक 26भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे ।यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥ 26 ॥
- श्लोक 27नगरग्रामनाथत्वं पुत्रलाभं धनागमम् ।कल्याणं भूरि भाग्यं च सेनापत्यं महोन्नतम् ॥ 27 ॥
- श्लोक 28पाकेश्वरो जीवदृष्टः शुभ राशि स्थितो यदि ।तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥ 28 ॥
- श्लोक 29सितासितभयुग्माश्च सूर्यस्य रिपुराशयः ।कौर्पितौलिघटाश्चेन्दोर्भौमस्य रिपुराशयः ॥ 29 ॥
- श्लोक 30घटमीननृयुक्तौलिकन्याज्ञस्य ततः परम् ।कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥ 30 ॥
- श्लोक 31वृषतौलिनृयुक्कन्या राशयो रिपवो गुरोः ।सिंहालिकर्कचापाश्च शुक्रस्य रिपुराशयः ॥ 31 ॥
- श्लोक 32मेषसिंहधनुःकौर्पिकर्कटाः शनि शत्रवः ।एवं ग्रहान्तर्दशां चिन्तयेत् कोविदो द्विज ॥ 32 ॥
- श्लोक 33ये राजयोगदा ये च शुभ मध्यगता ग्रहाः ।यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥ 33 ॥
- श्लोक 34तद्दशायां शुभं ब्रूयाद्राजयोगादिसम्भवम् ।शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥ 34 ॥
- श्लोक 35गता शुभदशा मध्यं दशा सौम्यस्य शोभना ।शुभा यस्य त्रिकोणस्थास्तद्दशापि शुभप्रदा ॥ 35 ॥
- श्लोक 36आरम्भान्तौ मित्रशुभराश्योर्यदि फलं शुभम् ।प्रतिराश्यैवमब्दाद्यं विभज्य तत्फलं वदेत् ॥ 36 ॥
- श्लोक 37आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभमावहेत् ।शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥ 37 ॥
- श्लोक 38शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता ।शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥ 38 ॥
- श्लोक 39आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज ! ।नीचादौ तद्दशाद्यन्ते वदेद् भाग्यविपर्ययम् ॥ 39 ॥
- श्लोक 40यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः ।तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥ 40 ॥
- श्लोक 41भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम ! ।धन-धान्यादि हानिश्च देहे रोगभयं तथा ॥ 41 ॥
- श्लोक 42राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् ।स्वयं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥ 42 ॥
- श्लोक 43यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः ।यस्मिन् राशौ दशान्तः स्यात्तस्मिन् दृष्टे युक्तेपि वा ॥ 43 ॥
- श्लोक 44शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः ।दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुक्तेपि वा ॥ 44 ॥
- श्लोक 45इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम ! ।दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥ 45 ॥
- श्लोक 46राहोर्दशान्ते सर्वस्वनाशो मरणबन्धने ।देशान्निर्वसनं वा स्यात्कष्टं वा महदश्नुते ॥ 46 ॥
- श्लोक 47तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् ।एवं शुभाऽशुभं सर्वं निश्चयेन वदेद् बुधः ॥ 47 ॥
- श्लोक 49दशारम्भो दशान्तो वा मारके चेन्न शोभनम् ।तस्मिन्नेव च राहुश्चेन्निरोधो द्रव्यनाशनः ॥ 49 ॥
- श्लोक 50यत्र क्वापि च भे राहुः दशारम्भे विनाशनम् ।गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥ 50 ॥
- श्लोक 51चन्द्रशुक्रौ द्वादशे चेत् राजकोपो भवेद् ध्रुवम् ।भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥ 51 ॥
- श्लोक 52चन्द्रशुक्रौ धने विप्र! यदि राज्यं प्रयच्छतः ।दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥ 52 ॥
- श्लोक 53एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् ।यस्य पापः शुभो वापि ग्रहस्तिष्ठेच्छुभार्गले ॥ 53 ॥
- श्लोक 54तेन दृष्टेक्षितं लग्नं प्राबल्यायोपकल्पते ।यदि पश्येद्ग्रहस्तत्र विपरीतार्गलस्थितः ॥ 54 ॥
- श्लोक 55तद्भावस्य दशायास्तु विपरीतं फलं वदेत् ।सद्दृष्टेऽपि शुभं ब्रूयात् निर्विशंकं द्विजोत्तम ॥ 55 ॥
- श्लोक 56यस्मिन् भावे शुभस्वामिसम्बन्धस्तुंगखेचरः ।स्यात् तद्भावदशायां तु अत्यैश्वर्यमखण्डितम् ॥ 56 ॥
- श्लोक 57यद्भावेशः स्वार्थराशिमधितिष्ठंश्च पश्यति ।स्यात्तद्भावदशाकाले धनलाभो महत्तरः ॥ 57 ॥
- श्लोक 58यस्माद् व्ययगतो यस्तु यद्दशायां धनक्षयः ।यस्मात् त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥ 58 ॥
- श्लोक 59पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् ।यस्मात् त्रिकोणगा रिःफरन्ध्रेशार्कारसूर्यजाः ॥ 59 ॥
- श्लोक 60पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसंगते ।विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥ 60 ॥
- श्लोक 61यस्मात् षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः ।रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥ 61 ॥
- श्लोक 62यस्माच्चतुर्थः क्रूरः स्यात् भूगृहक्षेत्रनाशनम् ।पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥ 62 ॥
- श्लोक 63शनौ हृदयशूलं स्यात् सूर्ये राजप्रकोपनम् ।सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥ 63 ॥
- श्लोक 64यस्माद्दशमभे राहौ पुण्यतीर्थाटनं भवेत् ।यस्मात् कर्मायभाग्यर्क्षगताः शोभनखेचराः ॥ 64 ॥
- श्लोक 65विद्यार्थधर्म सत्कर्मख्याति पौरुषसिद्धयः ।यतः पंचम कामारिगताः स्वोच्चशुभाः ग्रहाः ॥ 65 ॥
- श्लोक 66पुत्रदारादि सम्प्राप्तिर्नृपपूजा महत्तरा ।यस्मिन् पुत्राय कर्माम्बु नव लग्नाधिपाः स्थिताः ॥ 66 ॥
- श्लोक 67तत्तद्भावार्थसिद्धिः स्यात् श्रेयो योगानुसारतः ।यस्मिन् गुरुर्वा शुक्रो वा शुभेशोवापि संस्थितः ॥ 67 ॥
- श्लोक 68कल्याणंसर्वसम्पत्तिर्देवब्राह्मणतर्पणम् ।यतश्चतुर्थे स्वोच्चस्थाः शुभस्वामीग्रहाश्च वा ॥ 68 ॥
- श्लोक 69वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी ।तत्र चन्द्रे च लाभः स्यात् बुधे धान्यरसान्वितः ॥ 69 ॥
- श्लोक 70पूर्णे विधौ निधिप्राप्तिर्लभेद् वा मणिसंचयम् ।तत्र शुक्रे मृदंगादिवाद्यगान पुरस्कृतः ॥ 70 ॥
- श्लोक 71आन्दोलिकाप्तिर्जीवे तु कनकान्दोलिका ध्रुवम् ।लग्नकर्मेशभाग्येशतुंगस्थशुभयोगतः ॥ 71 ॥
- श्लोक 72सर्वोत्कर्षमहैश्वर्य साम्राज्यादि महत्फलम् ।एवं तत्तद्भावदायफलं चापि विचिन्तयेत् ॥ 72 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।