अध्याय 53: दशाफलगुणाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 53 (Dasha Phal Gun)

32 श्लोक

  1. श्लोक 1एकैकोडुदशास्वीयैर्गुणैरष्टादशात्मभिः ।भिन्नं फलविपाकं तु कुर्याद्वैचित्र्यसंकुलम्‌ ॥ 1 ॥
  2. श्लोक 2परमोच्चे तुंगमात्रे तदर्वाक्‌ तदुपर्यपि ।मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्यभे ॥ 2 ॥
  3. श्लोक 3तत्काल सुहृदो गेहे उदासीनस्य भे तथा ।शत्रोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥ 3 ॥
  4. श्लोक 4तस्मादर्वाङ्नीचमात्रे नीचान्ते परमांशके ।नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥ 4 ॥
  5. श्लोक 5व्यवस्थितस्य खेटस्य समरे पीडितस्य च ।गाढमूढस्य च दशा पचति स्वगुणैः फलम्‌ ॥ 5 ॥
  6. श्लोक 6परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः ।सम्पूर्णाख्या दशा तस्य राज्यभोग्य शुभप्रदा ॥ 6 ॥
  7. श्लोक 7लक्ष्मीकटाक्षचिह्नानां चिरावासफलप्रदा ।तुंगमात्रगतस्यापि तथा वीर्याधिकस्य च ॥ 7 ॥
  8. श्लोक 8पूर्णाख्या बहुलैश्वर्यदायिनी च दशा मता ।रुजप्रदा तथा किंचित्‌ अपरग्रह योगतः ॥ 8 ॥
  9. श्लोक 9अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ।रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा ॥ 9 ॥
  10. श्लोक 10अत्युच्चादतिनीचस्य मध्यगस्यावरोहिणी ।नामानुरूपफलदा हानिदा राशियोगतः ॥ 10 ॥
  11. श्लोक 11मित्रोच्चभावप्राप्तस्य मध्यमा ह्यर्थदा दशा ।नामानुरूपफलदा ग्रहवीर्यवशाद् द्विज ॥ 11 ॥
  12. श्लोक 12नीचान्तादुच्चभागान्तं भषट्कमध्यगस्य च ।आरोहिणी दशा ज्ञेया नामतुल्यफलप्रदा ॥ 12 ॥
  13. श्लोक 13अधमाख्या दशा विप्र नीचारिभांशगस्य च ।भयक्लेशव्याधिदुःखवर्धिनी क्लेशदायिनी ॥ 13 ॥
  14. श्लोक 14भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ।परेषामपि दायेषु भाग्योपक्रममुन्नयेत् ॥ 14 ॥
  15. श्लोक 15जातके यस्तु फलदो भाग्ययोगप्रदोऽथ यः ।सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान्‌ ॥ 15 ॥
  16. श्लोक 16दुर्बलानसमर्थांश्च फलदानेषु योगतः ।तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः ॥ 16 ॥
  17. श्लोक 17स्वकेन्द्रादिजुषां तेषां पूर्णार्धाङ्घ्रिव्यवस्थया ।एवं सर्वग्रहाणां च स्वस्वान्तर्दशास्वपि ॥ 17 ॥
  18. श्लोक 18शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः ।उभयोदयराशिस्थदशामध्ये फलप्रदा ॥ 18 ॥
  19. श्लोक 19पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः ।निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ 19 ॥
  20. श्लोक 20सम्पादयेत्तदाकष्टं तद्विपर्ययगामिनाम् ।दशेशाक्रान्तभावर्क्षादारभ्य द्वादशर्क्षकम् ॥ 20 ॥
  21. श्लोक 21भक्त्वा द्वादशराशीनां दशाभुक्तिं प्रकल्पयेत्‌ ।एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ 21 ॥
  22. श्लोक 22तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् ।दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥ 22 ॥
  23. श्लोक 23तस्यामनर्थकलहं रोगमृत्युभयादिकम्‌ ।बिन्दुभूयस्त्वशून्यत्ववशात्‌ स्वीयाष्टवर्गके ॥ 23 ॥
  24. श्लोक 24वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात्‌ ।भावयोजनया विद्यात्‌ सुतस्त्र्यादि शुभाशुभम्‌ ॥ 24 ॥
  25. श्लोक 25धात्वादिराशिभेदाच्च धात्वादिग्रह योगतः ।शुभपापदशाभेदात्‌ शुभपापयुतैरपि ॥ 25 ॥
  26. श्लोक 26इष्टानिष्टस्थानभेदात्‌ फलभेदात्‌ समुन्नयेत्‌ ।एवं सर्वग्रहाणां च दशास्वन्तर्दशास्वपि ॥ 26 ॥
  27. श्लोक 27स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत्‌ ।अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥ 27 ॥
  28. श्लोक 28अधुना सम्प्रवक्ष्यामि दशावाहनमुत्तमम्‌ ।प्राणिनां च हितार्थाय कथयामि तवाग्रतः ॥ 28 ॥
  29. श्लोक 29जन्मभाद्‌ दिनभं यावत्‌ गणनीयमनुक्रमात्‌ ।नवभिस्तु हरेद्‌ भागं शेषं वाहनमुच्यते ॥ 29 ॥
  30. श्लोक 30गर्दभो घोटको हस्ती महिषो जम्बुसिंहकौ ।काको हंसो मयूरश्च वाहनं नवधा मतम्‌ ॥ 30 ॥
  31. श्लोक 31खरे च कलहं विद्यात्‌ अश्वे बुद्धिर्विदेशके ।गजे लाभं विजानीयान्महिषे व्याधिजं भयम्‌ ॥ 31 ॥
  32. श्लोक 32जम्बुके च भयं घोरं सिंहे च विजयं स्मृतम्‌ ।काके चिन्ता मयूरे च सुखसम्पत्तयः सदा ॥हंसे जयं विजानीयात्‌ यात्रा काले विशेषतः ॥ 32 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।