अध्याय 54: सूर्यान्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 54 (Surya Antardasha Phal)

73 श्लोक

  1. श्लोक 1कुंडली के 1 नियमस्वोच्चे स्वभे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके ।स्वदशायां स्वभुक्तौ च धनधान्यादि लाभकृत्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 2 नियमनीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत्‌ ।द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत्‌ ॥ 2 ॥
  3. श्लोक 3तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत् ।सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमसूर्यस्यान्तर्गतेचन्द्रेलग्नात्केन्द्रत्रिकोणके ।विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमगृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम्‌ ।तुंगे वा स्वर्क्षगे वापि दारसौख्यं धनागमम्‌ ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमपुत्रलाभं सुखं चैव सौख्यं राजसभागमम्‌ ।महाराजप्रसादेन इष्टसिद्धिं सुखावहाम्‌ ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमक्षीणे वा पापसंयुक्ते दारपुत्रादिपीडनम् ।वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥ 7 ॥
  8. श्लोक 8कुंडली के 2 नियमविरोधं राजकलहं धनधान्यपशुक्षयम्‌ ।षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमबन्धनं रोगपीडां च स्थानविच्युतिकारकम्‌ ।दुःस्थानं चापि चित्तेन दायादजनविग्रहम्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमनिर्दिशेत्‌ कुत्सितान्नं च चौरादिनृपपीडनम्‌ ।मूत्रकृच्छ्रादिरोगश्च देहपीडा तथा भवेत्‌ ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमदायेशाल्लाभभाग्ये च केन्द्रे वा शत्रुसंयुते ।भोगभाग्यादिसन्तोषं दारपुत्रादिवर्धनम्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमराज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वतीम्‌ ।विवाहं यज्ञदीक्षां च सुमाल्याम्बरभूषणम्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 2 नियमवाहनं पुत्रपौत्रादि लभते सुखवर्धनम्‌ ।दायेशाद्‌ रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियमअकाले भोजनं चैव देशाद्देशं गमिष्यति ।द्वितीय द्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥श्वेतां गां महिषीं दद्यात्‌ शान्तिं कुर्यात्सुखाप्तये ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमसूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे ।लग्नात्केन्द्र त्रिकोणे वा शुभकार्यं समादिशेत्‌ ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमभूलाभं कृषिलाभं च धनधान्यविवर्धनम्‌ ।गृहक्षेत्रादिलाभं च रक्तवस्त्रादि लाभकृत्‌ ॥ 16 ॥
  17. श्लोक 17कुंडली के 2 नियमलग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत्‌ ।भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमबहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम्‌ ।आत्मबन्धुसुखं चैव भ्रातृवर्धनकं तथा ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमदायेशाद् व्ययरन्ध्रस्थे पापैर्युक्तेऽथ वीक्षिते ।आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमकारागृहे प्रवेशं च कथयेद्‌ बन्धुनाशनम्‌ ।भ्रातृवर्गविरोधं च कार्यनाशमथापि वा ॥ 20 ॥
  21. श्लोक 21कुंडली के 2 नियमनीचे वा दुर्बले भौमे राजमूलाद्‌ धनक्षयः ।द्वितीय द्यूननाथे तु देहे जाड्यं मनोरुजम्‌ ॥ 21 ॥
  22. श्लोक 22सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च ।शान्तिं कुर्वीत विधिवदायुरारोग्यसिद्धये ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमसूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।आदौ द्विमासपर्यन्तं धननाशो महद्भयम्‌ ॥ 23 ॥
  24. श्लोक 24कुंडली के 2 नियमचौराहिव्रणभीतिश्च दारपुत्रादिपीडनम्‌ ।तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ 24 ॥
  25. श्लोक 25कुंडली के 2 नियमदेहारोग्यं मनस्तुष्टी राजप्रीतिकरं सुखम्‌ ।लग्नादुपचये राहौ योगकारकसंयुते ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमदायेशाच्छुभराशिस्थे राजसम्मानमादिशेत्‌ ।भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम्‌ ॥ 26 ॥
  27. श्लोक 27कुंडली के 2 नियमपुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम्‌ ।दायेशादथ रिःफस्थे रन्ध्रे वा बलवर्जिते ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमबन्धनं स्थाननाशश्च कारागृहनिवेशनम्‌ ।चौराहिव्रणभीतिश्च दारपुत्रादिवर्धनम्‌ ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमचतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनम्‌ ।गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम्‌ ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमद्विसप्तस्थे तथा राहौ तत्स्थानाधिपसंयुते ।अपमृत्युभयं चैव सर्पभीतिश्च जायते ॥ 30 ॥
  31. श्लोक 31दुर्गापाठं प्रकुर्वीत छागदानं समाचरेत्‌ ।कृष्णां गां महिषीं दद्याच्छान्तिमाप्नोत्यसंशयम्‌ ॥ 31 ॥
  32. श्लोक 32कुंडली के 1 नियमसूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम्‌ ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमधनधान्यादि लाभं च पुत्रलाभं महत्सुखम्‌ ।महाराजप्रसादेन इष्टकार्यार्थलाभकृत्‌ ॥ 33 ॥
  34. श्लोक 34कुंडली के 2 नियमब्राह्मणप्रियसन्मानं प्रियवस्त्रादिलाभकृत्‌ ।भाग्यकर्माधिपवशाद्‌ राज्यलाभं वदेद्‌ द्विज ॥ 34 ॥
  35. श्लोक 35कुंडली के 2 नियमनरवाहनयोगश्च स्थानाधिक्यं महत्सुखम्‌ ।दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमदानधर्मक्रियायुक्तोदेवताराधनप्रियः ।गुरुभक्तिर्मनः सिद्धिः पुण्यकर्मादिसंग्रहः ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमदायेशाद्‌ रिपुरन्ध्रस्थे नीचे वा पापसंयुते ।दारपुत्रादिपीडा च देहपीडा महद्भयम्‌ ॥ 37 ॥
  38. श्लोक 38कुंडली के 1 नियमराजकोपं प्रकुरुतेऽभीष्टवस्तुविनाशनम् ।पापमूलाद् द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥ 38 ॥
  39. श्लोक 39स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत्‌ ।गवां कपिलवर्णानां दानेनारोग्यमादिशेत्‌ ॥ 39 ॥
  40. श्लोक 40कुंडली के 1 नियमसूर्यस्यान्तर्गते मन्दे लाभकेन्द्रत्रिकोणगे ।शत्रुनाशो महत्सौख्यं स्वल्पधान्यादि लाभकृत्‌ ॥ 40 ॥
  41. श्लोक 41कुंडली के 2 नियमविवाहादिसुकार्यं च गृहे तस्य शुभावहम् ।स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्गृहसमन्विते ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमगृहेकल्याणसम्पत्तिर्विवाहादिषुसत्क्रिया ।राजसन्मानकीर्तिश्च नानावस्त्रधनागमः ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमदायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।वातशूलमहाव्याधि ज्वरातीसार पीडनम्‌ ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमबन्धनं कार्यहानिश्च वित्तनाशो महद्भयम्‌ ।अकस्मात्‌ कलहश्चैव दायाद जनविग्रहः ॥ 44 ॥
  45. श्लोक 45कुंडली के 2 नियमभुक्त्यादौ मित्रहानिः स्यान्मध्ये किंचित्सुखावहम्‌ ।अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥ 45 ॥
  46. श्लोक 46कुंडली के 2 नियमपितृमातृवियोगश्च गमनागमनं तथा ।द्वितीयद्यूननाथेतु अपमृत्युभयं भवेत्‌ ॥ 46 ॥
  47. श्लोक 47कृष्णां गां महिषीं दद्यान्मृत्युंजयजपं चरेत्‌ ।छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम्‌ ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमसूर्यस्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षभेऽपि वा ।केन्द्रत्रिकोण लाभस्थे बुधे वर्गबलैर्युते ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमराज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत्‌ ।महाराजप्रसादेन वाहनाम्बरभूषणम्‌ ॥ 49 ॥
  50. श्लोक 50कुंडली के 2 नियमपुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् ।भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकरो भवेत् ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमभाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम्‌ ।सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्चनम्‌ ॥ 51 ॥
  52. श्लोक 52कुंडली के 2 नियमधनधान्यादि संयुक्तो विवाहः पुत्रसम्भवः ।दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम्‌ ॥ 52 ॥
  53. श्लोक 53कुंडली के 1 नियमवैवाहिकं यज्ञकर्मदानधर्मजपादिकम्‌ ।स्वनामांकितपद्यानि नामद्वयमथापि वा ॥ 53 ॥
  54. श्लोक 54कुंडली के 2 नियमभोजनाम्बर भूषाप्तिरमरेशो भवेन्नरः ।दायेशाद्‌ रिपुरन्ध्रस्थे रिःफगे नीचगेऽपि वा ॥ 54 ॥
  55. श्लोक 55कुंडली के 1 नियमदेहपीडा मनस्तापो दारपुत्रादि पीडनम्‌ ।भुक्त्यादौ दुःखमाप्नोति मध्ये किंचित्सुखावहम्‌ ॥ 55 ॥
  56. श्लोक 56कुंडली के 2 नियमअन्ते तु राजभीतिश्च गमनागमनं तथा ।द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम्‌ ॥ 56 ॥
  57. श्लोक 57विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् ।रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥ 57 ॥
  58. श्लोक 58सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा ।अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम्‌ ॥ 58 ॥
  59. श्लोक 59कुंडली के 1 नियमलग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम्‌ ।मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत्‌ ॥ 59 ॥
  60. श्लोक 60कुंडली के 1 नियमअथाष्टमव्यये चैवं दायेशात्पापसंयुते ।कपोलदन्तरोगश्च मूत्रकृच्छ्रस्य सम्भवः ॥ 60 ॥
  61. श्लोक 61कुंडली के 1 नियमस्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः ।विदेशगमनं चैव शत्रुपीडा महद्भयम्‌ ॥ 61 ॥
  62. श्लोक 62कुंडली के 1 नियमलग्नादुपचये केतौ योगकारक संयुते ।शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥ 62 ॥
  63. श्लोक 63कुंडली के 1 नियमपुत्रदारादिसौख्यं च सन्तोषं प्रियवर्धनम्‌ ।विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥ 63 ॥
  64. श्लोक 64कुंडली के 1 नियमद्वितीय द्यूननाथे वा ह्यपमृत्युभयं भवेत्‌ ।दुर्गाजपं प्रकुर्वीत छागदानं सुखाप्तये ॥ 64 ॥
  65. श्लोक 66कुंडली के 1 नियमग्रामान्तरप्रयाणं च ब्राह्मणप्रभुदर्शनम् ।राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥ 66 ॥
  66. श्लोक 65कुंडली के 1 नियमसूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।स्वोच्चे स्वर्क्षादिवर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥ 65 ॥
  67. श्लोक 67कुंडली के 1 नियमगृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम्‌ ।विद्रुमादिरत्नलाभो मुक्तावस्त्रादिलाभकृत्‌ ॥ 67 ॥
  68. श्लोक 68कुंडली के 1 नियमचतुष्पाज्जीवलाभः स्याद्‌ बहुधान्यधनादिकम्‌ ।उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥ 68 ॥
  69. श्लोक 69कुंडली के 1 नियमषष्ठाष्टमव्यये शुक्रे दायेशाद्‌ बलवर्जिते ।राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम्‌ ॥ 69 ॥
  70. श्लोक 70कुंडली के 1 नियमभुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत्‌ ।अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥ 70 ॥
  71. श्लोक 71कुंडली के 2 नियमबन्धुद्वेषं वदेद्‌ वापि स्वकुलाद्‌ भोगनाशनम्‌ ।भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम्‌ ॥ 71 ॥
  72. श्लोक 72कुंडली के 1 नियमरन्ध्ररिःफसमायुक्ते ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत्‌ ॥ 72 ॥
  73. श्लोक 73श्वेतां गां महिषीं दद्याद्‌ रुद्रजाप्यं च कारयेत्‌ ।ततः शान्तिमवाप्नोति शंकरस्य प्रसादतः ॥ 73 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।