अध्याय 55: चन्द्रान्तर्दशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 55 (Chandra Antardasha Phal)
70 श्लोक
- श्लोक 1कुंडली के 1 नियमस्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा ।भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमदेवता गुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् ।राज्यलाभो महत्सौख्यं यशो वृद्धिः सुखावहा ॥ 2 ॥
- श्लोक 3कुंडली के 2 नियमपूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् ।पापयुक्तेऽथवा चन्द्रे नीचे वा रिःफषष्ठगे ॥ 3 ॥
- श्लोक 4कुंडली के 1 नियमतत्काले धननाशः स्यात् स्थानच्युतिरथापि वा ।देहालस्यं मनस्तापो राजमन्त्रिविरोधकृत् ॥ 4 ॥
- श्लोक 5कुंडली के 2 नियममातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् ।द्वितीयद्यूननाथे तु रन्ध्ररिःफेशसंयुते ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमदेहजाड्यं मनोभंगमपमृत्योर्भयं वदेत् ।श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमचन्द्रस्यान्तर्गतेभौमेलग्नात्केन्द्रत्रिकोणगे ।सौभाग्यं राजसम्मानं वस्त्राभरणभूषणम् ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमयत्नात्कार्यार्थसिद्धिस्तु भविष्यति न संशयः ।गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥ 8 ॥
- श्लोक 9कुंडली के 2 नियमकार्यलाभो महत्सौख्यं स्वोच्चेस्वक्षेत्रगे फलम् ।तथाष्टमव्यये भौमे पापयुक्तेऽपि वा यदि ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमदायेशादशुभस्थाने देहार्तिः शत्रुवीक्षिते ।गृहक्षेत्रादि हानिश्च व्यवहारे तथा क्षतिः ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमभृत्यवर्गेषु कलहो भूपालस्य निरोधनम् ।आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमद्वितीयद्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा ।तद्दोषपरिहारार्थं ब्राह्मणस्यार्चनं चरेत् ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमचन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।आदौ स्वल्पफलं ज्ञेयं शत्रुपीडा महद्भयम् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमचौराहिराजभीतिश्च चतुष्पाज्जीवपीडनम् ।बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥ 14 ॥
- श्लोक 15कुंडली के 1 नियमशुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा ।योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥ 15 ॥
- श्लोक 16कुंडली के 1 नियमनैऋत्ये पश्चिमे भागे क्वचित्प्रभुसमागमः ।वाहनाम्बरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमदायेशादथरन्ध्रस्थे व्यये वा बलवर्जिते ।स्थानभ्रंशो मनो दुःखं पुत्रक्लेशो महद्भयम् ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमदारपीडा क्वचिज्ज्ञेया क्वचित् स्वांगे रुजोभयम् ।वृश्चिकादि विषाद् भीतिश्चौरादिनृपपीडनम् ॥ 18 ॥
- श्लोक 19कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा दुश्चिक्येलाभगेऽपि वा ।पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥ 19 ॥
- श्लोक 20कुंडली के 2 नियमपरोपकारधर्मादि पुण्यकर्मादिसंग्रहः ।द्वितीयद्यूनराशिस्थे देहबाधा भविष्यति ॥ 20 ॥
- श्लोक 21तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् ।छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥ 21 ॥
- श्लोक 22कुंडली के 1 नियमचन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमवस्त्रालंकार भूषाप्ती राजप्रीतिर्धनागमः ।इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमतथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् ।राजाश्रयधनं भूमिगजवाजिसमन्वितम् ॥ 24 ॥
- श्लोक 25कुंडली के 2 नियममहाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।षष्ठाष्टमव्यये जीवे नीचे वास्तंगते यदि ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमपापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् ।स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥ 26 ॥
- श्लोक 27कुंडली के 2 नियमगृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् ।दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमभोजनाम्बरपश्वादिलाभं सौख्यं करोति च ।भ्रात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥ 28 ॥
- श्लोक 29कुंडली के 2 नियमयज्ञव्रतविवाहादि राज्यश्रीधनसम्पदः ।दायेशाद् रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 29 ॥
- श्लोक 30कुंडली के 1 नियमकरोति कुत्सितान्नं च विदेशगमनं तथा ।भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥ 30 ॥
- श्लोक 31कुंडली के 1 नियमद्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमस्वर्णदानमितिप्रोक्तं सर्वकष्टनिवारणम् ।चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ॥ 32 ॥
- श्लोक 33कुंडली के 1 नियमस्वक्षेत्रे स्वांशगे वापि मन्दे तुंगांशसंयुते ।शुभदृष्टयुते वापि लाभे वा बलसंयुते ॥ 33 ॥
- श्लोक 34कुंडली के 1 नियमपुत्रमित्रार्थ सम्पत्तिः शूद्रप्रभुसमागमात् ।व्यवसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् ॥ 34 ॥
- श्लोक 35कुंडली के 2 नियमपुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ।षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा ॥ 35 ॥
- श्लोक 36कुंडली के 1 नियमतद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ।अनेकजनत्रासश्च शत्रुपीडा भविष्यति ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमदायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ।क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् ॥ 37 ॥
- श्लोक 38कुंडली के 1 नियमद्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ।तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत् ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमकृष्णां गां महिषीं दद्याद् दानेनारोग्यमादिशेत् ।चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ॥ 39 ॥
- श्लोक 40कुंडली के 1 नियमस्वर्क्षे निजांशके सौम्ये तुंगे वा बलसंयुते ।धनागमो राजमानप्रियवस्त्रादिलाभकृत् ॥ 40 ॥
- श्लोक 41कुंडली के 1 नियमविद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ।सन्तानप्राप्तिः सन्तोषो वाणिज्याद् धनलाभकृत् ॥वाहनच्छत्रसंयुक्तनानालंकारलाभकृत् ॥ 41 ॥
- श्लोक 42कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ।विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥ 42 ॥
- श्लोक 43कुंडली के 1 नियमराजप्रीतिकरश्चैव विद्वज्जनसमागमः ।मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥ 43 ॥
- श्लोक 44कुंडली के 2 नियमआरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् ।दायेशाद् रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥ 44 ॥
- श्लोक 45कुंडली के 1 नियमतद्भुक्तौ देहबाधा च कृषिगोभूमिनाशनम् ।कारागृहप्रवेशश्च दारपुत्रादिपीडनम् ॥ 45 ॥
- श्लोक 46कुंडली के 1 नियमद्वितीय द्यूननाथे तु ज्वरपीडा महद्भयम् ।छागदानं प्रकुर्वीत विष्णु साहस्रकं जपेत् ॥ 46 ॥
- श्लोक 47कुंडली के 1 नियमचन्द्रस्यान्तर्गतेकेतौकेन्द्रलाभत्रिकोणगे ।दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥ 47 ॥
- श्लोक 48कुंडली के 1 नियमपुत्रदारादि सौख्यं च विविधकर्म करोति च ।भुक्त्यादौ धनहानिश्च मध्यगे सुखमाप्नुयात् ॥ 48 ॥
- श्लोक 49कुंडली के 1 नियमदायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते ।क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥ 49 ॥
- श्लोक 50कुंडली के 2 नियमगोमहिष्यादि लाभं च भुक्त्यन्ते चार्थनाशनम् ।पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥ 50 ॥
- श्लोक 51कुंडली के 2 नियमशत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् ।द्वितीयद्यूनराशिस्थे देहकष्टं महद्भयम् ॥ 51 ॥
- श्लोक 52मृत्युंजयजपं कुर्यात् सर्वसम्पत्प्रदायकम् ।ततः शान्तिमवाप्नोति शंकरस्य प्रसादतः ॥ 52 ॥
- श्लोक 53कुंडली के 1 नियमचन्द्रस्यान्तर्गते शुक्रे केन्द्र लाभत्रिकोणगे ।स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥ 53 ॥
- श्लोक 54कुंडली के 1 नियममहाराज प्रसादेन वाहनाम्बरभूषणम् ।चतुष्पाज्जीवलाभः स्याद्दारपुत्रादिवर्धनम् ॥ 54 ॥
- श्लोक 55कुंडली के 1 नियमनूतनागारनिर्माणं नित्यं मिष्ठान्न भोजनम् ।सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥ 55 ॥
- श्लोक 56कुंडली के 1 नियमदशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् ।सत्कीर्तिसुखसम्पत्तिं गृहक्षेत्रादिवृद्धिकृत् ॥ 56 ॥
- श्लोक 57कुंडली के 1 नियमनीचे वास्तंगते शुक्रे पापग्रहयुतेक्षिते ।भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ 57 ॥
- श्लोक 58कुंडली के 2 नियमचतुष्पाज्जीवहानिः स्याद् राजद्वारे विरोधकृत् ।धनस्थानगते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ॥ 58 ॥
- श्लोक 59कुंडली के 2 नियमनिधिलाभं महत्सौख्यं भूलाभं पुत्रसम्भवम् ।भाग्यलाभाधिपैर्युक्ते भाग्यवृद्धिं करोत्यसौ ॥ 59 ॥
- श्लोक 60कुंडली के 1 नियममहाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।देव ब्राह्मणभक्तिश्च मुक्ताविद्रुम लाभकृत् ॥ 60 ॥
- श्लोक 61कुंडली के 1 नियमदायेशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥ 61 ॥
- श्लोक 62कुंडली के 1 नियमदायेशाद् रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।विदेशवासं दुःखार्तिं मृत्युचौरादिपीडनम् ॥ 62 ॥
- श्लोक 63कुंडली के 1 नियमद्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ।तद्दोषविनिवृत्त्यर्थं रुद्रपाठं च कारयेत् ॥ 63 ॥
- श्लोक 64श्वेतां गां रजतं दद्यात् शान्तिमाप्नोत्यसंशयम् ।शंकरस्य प्रसादेन नात्र कार्या विचारणा ॥ 64 ॥
- श्लोक 65कुंडली के 1 नियमचन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते ।केन्द्रत्रिकोणे लाभे वा धने वा सोदरालये ॥ 65 ॥
- श्लोक 66कुंडली के 1 नियमनष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् ।मित्रराजप्रसादेन ग्रामभूम्यादि लाभकृत् ॥ 66 ॥
- श्लोक 67कुंडली के 1 नियमगर्भाधानफलप्राप्तिर्गृहे लक्ष्मीकटाक्षकृत् ।भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥ 67 ॥
- श्लोक 68कुंडली के 1 नियमदायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते ।नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥ 68 ॥
- श्लोक 69कुंडली के 2 नियमविदेशगमने चार्तिं लभते फलवैभवम् ।द्वितीय द्यूननाथेतु ज्वरपीडा भविष्यति ॥ 69 ॥
- श्लोक 70तद्दोषपरिहारार्थं शिवपूजां च कारयेत् ॥ततः शान्तिमवाप्नोति शंकरस्य प्रसादतः ॥ 70 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।