अध्याय 68: अष्टकवर्गाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 68 (Ashtakavarga)
67 श्लोक · 5 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1भगवन् भवताख्यातं ग्रहभावादिजं फलम् ।संकरात् तत्फलानां च ग्रहाणां गति संकरात् ॥ 1 ॥
- श्लोक 2इत्थमेवेति नो सर्वे ज्ञात्वा वक्तुमलं नराः ।कलौ पापरतानां च मन्दा बुद्धिर्यतो नृणाम् ॥ 2 ॥
- श्लोक 3अतोऽल्पबुद्धिगम्यं यत् शास्त्रमेतद् वदस्व मे ।तत्तत्कालग्रहस्थित्या मानवानां परिस्फुटम् ॥ 3 ॥
- श्लोक 4सुखदुःखपरिज्ञानमायुषो निर्णयं तथा ।बहूनामृषिवर्याणां सम्मतां फलपद्धतिम् ॥ 4 ॥
- श्लोक 5साधु पृष्टं त्वया ब्रह्मन् ! कथयामि तवाग्रतः ।लोकयात्रा परिज्ञानमायुषो निर्णयं तथा ॥ 5 ॥
- श्लोक 6संकरस्याविरोधं च शास्त्रस्यापि प्रयोजनम् ।जनानामुपकारार्थं सावधानमनाः शृणु ॥ 6 ॥
- श्लोक 7लग्नादि व्ययपर्यन्तं भावाः संज्ञानुरूपतः ।फलदाः शुभसंदृष्टा युक्ता वा शोभना मताः ॥ 7 ॥
- श्लोक 8ते तूच्चादिभगैः खेटैर्न चास्तारिभनीचगैः ।पापैर्दृष्टयुता भावाः कल्याणेतरदायकाः ॥ 8 ॥
- श्लोक 9तैरस्तारिभनीचस्थैर्न च मित्रस्वभोच्चगैः ।एवं सामान्यतः प्रोक्तं होराशास्त्रज्ञसूरिभिः ॥ 9 ॥
- श्लोक 10मयैतत् सकलं प्रोक्तं पूर्वाचार्यानुवर्तिना ।आयुश्च लोकयात्रां च शास्त्रस्यास्य प्रयोजनम् ॥ 10 ॥
- श्लोक 11निश्चेतुं तत्र शक्नोति वसिष्ठो वा बृहस्पतिः ।किं पुनर्मनुजास्तत्र विशेषात्तु कलौ युगे ॥ 11 ॥
- श्लोक 12सामान्यांशो विशेषांशो ज्योतिःशास्त्रं द्विधोदितम् ।प्रोक्तः सामान्यभागस्तु निश्चयांशस्तु कथ्यते ॥ 12 ॥
- श्लोक 13यथा लग्नाच्च चन्द्राच्च ग्रहाणां भावजं फलम् ।तथाऽन्येभ्योऽपि खेटेभ्यो विचिन्त्यं दैवविद्वरैः ॥ 13 ॥
- श्लोक 14अतो रव्यादि खेटानां सलग्नानां पृथक्-पृथक् ।अष्टानां सर्वभावोत्थं यथोक्तमशुभं शुभम् ॥ 14 ॥
- श्लोक 15ज्ञात्वाऽऽदौ करणं स्थानं बिन्दुरेखोपलक्षितम् ।क्रमादष्टकवर्गस्य वाच्यं स्पष्टफलं यथा ॥ 15 ॥
- श्लोक 16तनुस्वायुस्त्रिरिष्फेषु पंच कामे सुखेऽर्णवाः ।अरौ भाग्ये त्रयः पुत्रे षट् करौ खे भवे च भूः ॥ 16 ॥
- श्लोक 17लग्नेन्दुजीवशुक्रज्ञास्तनौ स्वे मरणेऽपि च ।रविभौमार्कि-चन्द्रार्या व्यये ज्ञेन्दुसितार्यकाः ॥ 17 ॥
- श्लोक 18सुखे होरेन्दुशुक्राश्च धर्मेऽर्कार्किकुजा अरौ ।होराज्ञार्येन्दवः कामे भवे दैत्येन्द्रपूजितः ॥ 18 ॥
- श्लोक 19सहजेऽर्किरविशुक्रार्यभौमाः खे गुरुभार्गवौ ।सुतेऽर्कार्कीन्दुलग्नारशुक्राः स्युः करणं रवेः ॥ 19 ॥
- श्लोक 20भाग्यस्वयोश्च षड् वेश्ममृतिहोरासु पंच च ।मानदुश्चिक्ययोरेकः सुते वेदा अरिस्त्रियोः ॥ 20 ॥
- श्लोक 22जीवोऽर्कार्कीन्दुलग्नारा होरेन्दु-गुरु-भास्कराः ।सितज्ञार्याः कुजतनुमन्दास्ते सितशीतगू ॥ 22 ॥
- श्लोक 24होरामृत्य्वोः शरा वेदा विक्रमे खे त्रयः क्षते ।द्वौ भवे शून्यमेव स्यात् करणं भूमिजस्य तु ॥ 24 ॥
- श्लोक 25कुजस्यार्केन्दुविज्जीवसिता लग्नशनी च तु ।सितारगुरुमन्दाः स्युर्धर्मोक्तेषु कुजं विना ॥ 25 ॥
- श्लोक 26चन्द्रारगुरुशुक्रार्किलग्नानि कुजभास्करौ ।ज्ञेन्द्वर्कसितलग्नार्या एषु शुक्रं विना ततः ॥ 26 ॥
- श्लोक 27विना शनिं सप्त धर्मे सितेन्दुज्ञा वियत्ततः ।अर्कार्किज्ञेन्दुलग्नाराः करणं प्रोच्यते क्रमात् ॥ 27 ॥
- श्लोक 28तनुस्वगृहकर्मारिधर्मेष्वग्निर्मृतौ करौ ।भ्रातृस्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः ॥ 28 ॥
- श्लोक 29बुधस्यार्केन्दुगुरवो गुरुसूर्यबुधाः क्रमात् ।लग्नार्कारार्किचन्द्रार्या ज्ञार्कार्या हि बुधस्य तु ॥ 29 ॥
- श्लोक 30जीवारेन्द्वार्किलग्नानि शुक्रमन्दधरासुताः ।ज्ञेन्दुलग्नार्कशुक्रार्या ज्ञार्कौ जीवेन्दुलग्नकाः ॥ 30 ॥
- श्लोक 31अर्कार्यशुक्राः शून्यं च होरेन्द्वारार्किभार्गवाः ।रूपं धनाययोः खे द्वौ व्यये सप्त क्षतेऽर्णवाः ॥ 31 ॥
- श्लोक 32मृतिविक्रमयोः पंच गुरोः शेषेषु वह्नयः ।लग्ने शुक्रेन्दुमन्दाः स्वे आये मन्दश्च विक्रमे ॥ 32 ॥
- श्लोक 33लग्नारेन्दुज्ञभृगवः सुतेऽर्कार्यकुजा गृहे ।शुक्रमन्देन्दवो द्यूने बुध-शुक्र-शनैश्चराः ॥ 33 ॥
- श्लोक 34जीवारार्केन्दवः शत्रौ सर्वे मन्दं विना व्यये ।कर्मणीन्दुशनी धर्मे मन्दारगुरवो मृतौ ॥ 34 ॥
- श्लोक 35लग्नार्किसितचन्द्रज्ञाः करणं च गुरोरिदम् ।सुतायुर्विक्रमेष्वक्षि तनुस्वव्ययखेष्विषुः ॥ 35 ॥
- श्लोक 38शुक्रार्केन्द्वार्किलग्नार्याः शत्रौ शून्यं भवे व्यये ।होरार्किबुधशुक्रार्यास्तन्वारज्ञेन्द्विनाश्च खे ॥ 38 ॥
- श्लोक 39स्वस्त्रीधर्मेषु सप्ताङ्गं मृतिहोरागृहेषु च ।आज्ञाभ्रातृव्यये वेदा रूपं शत्रौ सुते शराः ॥ 39 ॥
- श्लोक 40आये शून्यं शनेरेवं करणं प्रोच्यते बुधैः ।गृहे तनौ च लग्नार्कौ स्वस्त्रियोश्च रविं विना ॥ 40 ॥
- श्लोक 41हित्वा धर्मे बुधं माने लग्नाररविचन्द्रजान् ।ततो भ्रातरि जीवार्कबुधशुक्राः क्षते रविः ॥ 41 ॥
- श्लोक 42व्यये लग्नेन्दुमन्दार्काः सितार्केन्दुज्ञलग्नकाः ।सुते मृतौ बुधार्कौ च हित्वाये खं शनेर्विदः ॥ 42 ॥
- श्लोक 43उक्ताऽन्ये स्थानदातार इति स्थानं विदुर्बुधाः ।अथ स्थान ग्रहान् वक्ष्ये सुख बोधाय सूरिणाम् ॥ 43 ॥
- श्लोक 44स्वायुस्तनुषु मन्दारसूर्या जीवबुधौ सुते ।विक्रमे ज्ञेन्दुलग्नानि लग्नार्कार्किकुजा गृहे ॥ 44 ॥
- श्लोक 45ते च ज्ञेन्दू खभे चाये सर्वे शुक्रं विना व्यये ।लग्नशुक्रबुधाः शत्रौ ते च जीवसुधाकरौ ॥ 45 ॥
- श्लोक 46द्यूनेऽर्कारार्किशुक्राश्च धर्मेऽर्कारार्किविद्गुरुः ।ज्ञेन्दुजीवाः कुजार्यौ ज्ञार्केन्द्वारार्कितनूशनाः ॥ 46 ॥
- श्लोक 47जीवशुक्रबुधा भौमबुधशुक्रशनैश्चराः ।रवीन्द्वारार्किलग्नानि रवीन्द्वार्यज्ञभार्गवाः ॥ 47 ॥
- श्लोक 49लग्नमन्दकुजा भौमो होराज्ञेन्दुदिनाधिपाः ।मन्दारो ज्ञरवी ज्ञेन्दुजीवार्कतनुभार्गवाः ॥ 49 ॥
- श्लोक 50मन्दारौ तौ सितश्चार्किः कुजार्कार्यार्किलग्नकाः ।सर्वे गुरुसितौ स्थानं भौमस्यैवं विदुर्बुधाः ॥ 50 ॥
- श्लोक 51लग्नमन्दारशुक्रज्ञा लग्नारेन्दुसितार्कजाः ।शुक्रज्ञौ लग्नचन्द्रार्किसितारा ज्ञार्कभार्गवाः ॥ 51 ॥
- श्लोक 52जीवज्ञार्केन्दुलग्नानि भूमिपुत्रशनैश्चरौ ।तौ च लग्नेन्दुशुक्रार्या मन्दारार्कज्ञभार्गवाः ॥ 52 ॥
- श्लोक 53लग्नमन्दारविच्चन्द्राः सर्वे जीवज्ञभास्कराः ।गुरोर्लग्ने सुखे जीवलग्नारार्कबुधा धने ॥ 53 ॥
- श्लोक 54चन्द्रशुक्रौ च दुश्चिक्ये मन्दार्यार्काः शनिर्व्यये ।सुते शुक्रेन्दुलग्नज्ञमन्दाश्चन्द्रं विना त्वरौ ॥ 54 ॥
- श्लोक 55लग्नारार्यार्केन्दवोऽस्ते मृतौ जीवार्कभूसुताः ।धर्मे शुक्रार्कलग्नेन्दुबुधा मन्दं विनाऽऽयभे ॥ 55 ॥
- श्लोक 56माने गुरुबुधारार्कशुक्रहोरास्तथा विदुः ।लग्नशुक्रेन्दवस्ते ते ज्ञार्क्यारास्ते ज्ञवर्जिताः ॥ 56 ॥
- श्लोक 57सुतभे लग्नशशिजशशांकार्यार्किभार्गवाः ।ज्ञारौ शून्यं सितार्केन्दुगुरुलग्नशनैश्चराः ॥ 57 ॥
- श्लोक 58सर्वे रविं विना शुक्रगुरुमन्दाश्च मानभे ।सर्वे कुजेन्दुरवयः क्रमाद् भृगुसुतस्य च ॥ 58 ॥
- श्लोक 59शनेः रवितनू सूर्यो लग्नेन्दुकुजसूर्यजाः ।लग्नार्कौ जीवमन्दाराः सर्वे सूर्यं विना क्षते ॥ 59 ॥
- श्लोक 60अर्कोऽर्कज्ञौ बुधोऽर्कारतनुज्ञाः सकलास्ततः ।कुजज्ञगुरुशुक्राश्च क्रमात् स्थानमिदं विदुः ॥ 60 ॥
- श्लोक 61तनौ तुर्ये च वह्निः स्याद् दुश्चिक्ये द्वौ धने शराः ।बुद्धिमृत्यंकरिःफेषु षट् खेशक्षतराशिषु ॥ 61 ॥
- श्लोक 62रूपं स्त्रियां गुरुं त्यक्त्वा लग्नस्य करणं त्विदम् ।होरासूर्येन्दवो लग्ने लग्नारेन्द्विनसूर्यजाः ॥ 62 ॥
- श्लोक 63गुरुज्ञौ लग्नचन्द्रारा लसूचंमंबुसौरयः ।क्षते शुक्रस्तथा चैकः कामे सर्वे गुरुं विना ॥ 63 ॥
- श्लोक 64मृतौ भृगुबुधौ त्यक्त्वा धर्मे गुरुसितौ विना ।कर्मण्याये तथा शुक्रो व्यये सूर्येन्दुवर्जिताः ॥ 64 ॥
- श्लोक 65लग्नस्येदं तु सम्प्रोक्तं करणं द्विजपुंगव ! ।अथ स्थानं प्रवक्ष्यामि लग्नस्येह क्रमाद् द्विज ॥ 65 ॥
- श्लोक 66आर्किज्ञशुक्रगुर्वाराः सौम्यदेवेज्यभार्गवाः ।हित्वा सौम्यगुरू शेषाः सूज्ञेज्यसितसूर्यजाः ॥ 66 ॥
- श्लोक 67तथा जीवभृगू बुद्धौ सर्वे शुक्रं विना क्षते ।जीव एकस्तथा द्यूने मृतौ सौम्यभृगू तथा ॥ 67 ॥
- श्लोक 68धर्मे गुरुसितावेव खे भवे शुक्रमन्तरा ।सूर्यचन्द्रौ तथा रिःफे स्थानं लग्नस्य कीर्तितम् ॥ 68 ॥
- श्लोक 69कुंडली के 1 नियमकरणं बिन्दुवल्लेख्यं स्थानं रेखास्वरूपकम् ।करणं त्वशुभदं प्रोक्तं स्थानं शुभफलप्रदम् ॥ 69 ॥
- श्लोक 70दशरेखा लिखेदूर्ध्वास्तिर्यग् रेखा चतुर्दश ।नगेशकोष्ठसंयुक्तं चक्रमेव प्रजायते ॥ 70 ॥
- श्लोक 71तिर्यगष्टसु कोष्ठेषु विलग्नसहितान् खगान् ।आद्येषूर्ध्वाधरेष्वेवं भावसंख्या लिखेद्बुधः ॥ 71 ॥
- श्लोक 72यथोक्तं विन्यसेत्तत्र करणं स्थानमेव वा ।ततः शुभाशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ 72 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।