अध्याय 67: कालचक्रनवांशदशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 67 (Kalchakra Navamsha Dasha Phal)
31 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1मेषे तु रक्तजा पीडा वृषभे धान्यवर्धनम् ।मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् ॥ 1 ॥
- श्लोक 2सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् ।तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् ॥ 2 ॥
- श्लोक 3अर्थलाभो भवेच्चापे मेषस्य नवभागके ।फलमेवं विजानीयाद् दशाकाले द्विजोत्तम ॥ 3 ॥
- श्लोक 4मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् ।मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ॥ 4 ॥
- श्लोक 5तुलभे राजपूजा च कन्यायां शत्रुतो भयम् ।कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ॥ 5 ॥
- श्लोक 6मिथुने विषतो भीतिर्वृषस्य नवमांशके ।वृषभे धनलाभः स्यान्मेषे तु ज्वरसम्भवः ॥ 6 ॥
- श्लोक 7मीने तु मातुलप्रीतिः कुम्भे शत्रुविवर्धनम् ।मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ॥ 7 ॥
- श्लोक 8मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् ।मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ॥ 8 ॥
- श्लोक 9कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् ।कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ॥ 9 ॥
- श्लोक 10वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः ।मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः ॥ 10 ॥
- श्लोक 11मीने सुखमवाप्नोति कर्कांशे फलमीदृशम् ।वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ॥ 11 ॥
- श्लोक 12कन्यायां धनधान्यानि कर्के पशुगणाद् भयम् ।सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् ॥ 12 ॥
- श्लोक 13वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् ।मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमादिशेत् ॥ 13 ॥
- श्लोक 14कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः ।चापे भ्रातृजनात्सौख्यं मेषे मातृसुखं वदेत् ॥ 14 ॥
- श्लोक 15वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् ।कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् ॥ 15 ॥
- श्लोक 16कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् ।तुलभे धनसम्पत्तिः वृश्चिके भ्रातृतः सुखम् ॥ 16 ॥
- श्लोक 17पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् ।कुम्भे वाणिज्यतो लाभः मीने च सुखसम्पदम् ॥ 17 ॥
- श्लोक 18वृश्चिके च स्त्रियः पीडा तुले च जलतो भयम् ।कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् ॥ 18 ॥
- श्लोक 19कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् ।मिथुने भूमिलाभश्च वृषभे धनसम्पदः ॥ 19 ॥
- श्लोक 20मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् ।कुम्भे वाणिज्यतो लाभो मकरे च धनक्षतिः ॥ 20 ॥
- श्लोक 22मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः ।सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः ॥ 22 ॥
- श्लोक 23तुले वाणिज्यतो लाभो वृश्चिके रोगजं भयम् ।चापे पुत्रसुखं वाच्यं धनुरंशे फलं वदेत् ॥ 23 ॥
- श्लोक 24मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् ।मीने कल्याणमाप्नोति वृश्चिके पशुतो भयम् ॥ 24 ॥
- श्लोक 25तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् ।कर्कटे श्रियमाप्नोति सिंहे शत्रुजनाद्भयम् ॥ 25 ॥
- श्लोक 26मिथुने विषतो भीतिर्मृगांशेषु फलं त्विदम् ।वृषभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् ॥ 26 ॥
- श्लोक 27मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् ।मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् ॥ 27 ॥
- श्लोक 28मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् ।मिथुने सुखसम्पत्तिः कुम्भे तु फलमीदृशम् ॥ 28 ॥
- श्लोक 29कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् ।कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् ॥ 29 ॥
- श्लोक 30वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः ।मकरे स्त्रीविरोधः स्यात् कुम्भे तु जलतो भयम् ॥ 30 ॥
- श्लोक 31मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् ।दशाद्यंशक्रमेणैव ज्ञात्वा सर्वं फलं वदेत् ॥ 31 ॥
- श्लोक 32क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः ।ततः शुभमवाप्नोति तद्दशायां न संशयः ॥ 32 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।