अध्याय 66: कालचक्रान्तर्दशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 66 (Kalchakra Antardasha Phal)
52 श्लोक · 6 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा ।तानि चक्रान्तर्दशाफलानि कथयाम्यहम् ॥ 1 ॥
- श्लोक 2मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः ।बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रवौ ॥ 2 ॥
- श्लोक 3वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः ।विद्यालाभस्तनौ सौख्यं गुरौ तत्रगते फलम् ॥ 3 ॥
- श्लोक 4देशत्यागोमृतिर्वापि शस्त्रघातो ज्वरोऽथवा ।वृषभस्वांशके विप्र ! कुजे तत्र गते फलम् ॥ 4 ॥
- श्लोक 7पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः ।दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ॥ 7 ॥
- श्लोक 8बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः ।लोके मानश्च प्रीतिश्च मिथुने स्वांशके गुरौ ॥ 8 ॥
- श्लोक 9विदेशगमनं व्याधिर्मरणं धननाशनम् ।बन्धुनाशोऽथवा विप्र ! मिथुने स्वांशके शनौ ॥ 9 ॥
- श्लोक 10विद्यावस्त्रादि लाभश्च दारपुत्रादिजं सुखम् ।सर्वत्रमानमाप्नोति मिथुने स्वांशके बुधे ॥ 10 ॥
- श्लोक 11कर्के स्वांशगते चन्द्रे पुत्रदारसुखं महत् ।ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ॥ 11 ॥
- श्लोक 12शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा ।आधिव्याधिभयं चैव कर्के स्वांशगते रवौ ॥ 12 ॥
- श्लोक 13पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च ।लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः ॥ 13 ॥
- श्लोक 14विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवम् ।पीडां चैव समाप्नोति कर्के स्वांशगते कुजे ॥ 14 ॥
- श्लोक 15विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा ।नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ ॥ 15 ॥
- श्लोक 16वातव्याधिभयं घोरं सर्पवृश्चिकतो भयम् ।नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ ॥ 16 ॥
- श्लोक 17सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् ।पित्तज्वरकृतां बाधां शस्त्रक्षतमथापि वा ॥ 17 ॥
- श्लोक 18धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा ।बुधभार्गवयोर्विप्र ! सिंहांशे स्वान्तरस्थयोः ॥ 18 ॥
- श्लोक 19उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः ।विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ ॥ 19 ॥
- श्लोक 20भयं शत्रुजनेभ्यश्च ज्वरादिव्याधिसम्भवः ।ज्ञानहानिर्मृतिभीतिः सिंहे स्वान्तर्गते रवौ ॥ 20 ॥
- श्लोक 21धनधान्यादिलाभं च प्रसादं द्विजभूपयोः ।विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ ॥ 21 ॥
- श्लोक 22कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः ।प्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा ॥ 22 ॥
- श्लोक 23नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् ।विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ ॥ 23 ॥
- श्लोक 24पित्तज्वरभवा पीडा विदेशे गमनं तथा ।शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे ॥ 24 ॥
- श्लोक 25भृत्यपुत्रार्थलाभश्च नानासुखसमागमः ।बुधभार्गवचन्द्रेषु कन्यास्वांशगतेषु च ॥ 25 ॥
- श्लोक 26प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह ।शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ ॥ 26 ॥
- श्लोक 27तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः ।स्त्रीपुत्रधनवस्त्रादि लाभो भवति निश्चितः ॥ 27 ॥
- श्लोक 28पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः ।विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे ॥ 28 ॥
- श्लोक 29द्रव्यरत्नादि लाभश्च धर्मकार्यं नृपादरः ।सर्वत्रसुखसम्प्राप्तिस्तुले स्वांशगते गुरौ ॥ 29 ॥
- श्लोक 30प्रयाणं च महाव्याधिः क्षेत्रादेः क्षतिरेव च ।शत्रुबाधा च कार्येषु तुले स्वांशगते शनौ ॥ 30 ॥
- श्लोक 31पुत्रजन्मधनप्राप्तिः स्त्रीसुखं च मनः प्रियम् ।भाग्योदयश्च विज्ञेयस्तुले स्वान्तर्गते बुधे ॥ 31 ॥
- श्लोक 32शशांकबुधशुक्रेषु वृश्चिके स्वांशगेषु च ।नानाधान्यधनप्राप्तिर्व्याधिनाशो महत्सुखम् ॥ 32 ॥
- श्लोक 33शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् ।श्वापदाद्भयमाप्नोति वृश्चिके स्वांशगे रवौ ॥ 33 ॥
- श्लोक 35धनं धान्यं च रत्नं च देवब्राह्मणपूजनम् ।नृपप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ॥ 35 ॥
- श्लोक 37अतिदाहं ज्वरं छर्दिं मुखरोगं विशेषतः ।नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ॥ 37 ॥
- श्लोक 38श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात्सुखम् ।भार्गवेन्दुजचन्द्राणां चापे स्वस्वांशगे दिशेत् ॥ 38 ॥
- श्लोक 39भार्यावित्तविनाशश्च कलहं च नृपाद्भयम् ।दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ॥ 39 ॥
- श्लोक 40दानधर्मं तपोलाभं राजपूजनमाप्नुयात् ।भार्याविभवलाभं च चापे स्वांशगते गुरौ ॥ 40 ॥
- श्लोक 41द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् ।देशत्यागमवाप्नोति मकरस्वांशगे शनौ ॥ 41 ॥
- श्लोक 42देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले ।भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ॥ 42 ॥
- श्लोक 43शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् ।रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ॥ 43 ॥
- श्लोक 44विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् ।नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ॥ 44 ॥
- श्लोक 45नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् ।शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ॥ 45 ॥
- श्लोक 46ज्वराग्निचौरजा पीडा शत्रूणां च महद्भयम् ।मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ॥ 46 ॥
- श्लोक 47नैरुज्यं च सुखं चैव सम्मानं भूपतो द्विजात् ।मनः प्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ॥ 47 ॥
- श्लोक 48पुत्रमित्रधनस्त्रीणां लाभं चैव मनः प्रियम् ।सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ॥ 48 ॥
- श्लोक 49धातुत्रयप्रकोपं च कलहं देशविभ्रमम् ।क्षयव्याधिमवाप्नोति कुम्भांशस्वांशगे शनौ ॥ 49 ॥
- श्लोक 50विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् ।सुहृत्संगं मनःप्रीतिं मीनांशस्वांशगे विधौ ॥ 50 ॥
- श्लोक 51बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् ।स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ॥ 51 ॥
- श्लोक 52रणेविजयमाप्नोति पशुभूमिसुतागमम् ।धनवृद्धिं च मीनांशे स्वांशयोर्बुधशुक्रयोः ॥ 52 ॥
- श्लोक 53पित्तरोगं विवादं च स्वजनैरपि मानवः ॥शत्रूणां भयमाप्नोति मीनांशस्वांशगे कुजे ॥ 53 ॥
- श्लोक 54धनवस्त्रकलत्राणां लाभो भूपसमादरः ।प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ॥ 54 ॥
- श्लोक 55धननाशो मनस्तापो वेश्यादीनां च संगमात् ।देशत्यागो भवेद् वापि मीनांशस्वांशगे शनौ ॥ 55 ॥
- श्लोक 57इदं फलं मया प्रोक्तं धर्माधर्मकृतं पुरा ।तत्सर्वं प्राणिभिर्नित्यं प्राप्यते नात्र संशयः ॥ 57 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।