अध्याय 65: प्राणदशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 65 (Pran Dasha Phal)
79 श्लोक · 4 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 2पौश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् ।कष्टं सूक्ष्मदशा काले रवौ प्राणदशां गते ॥ 2 ॥
- श्लोक 3सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् ।उदारादिकृपाभिश्च रवेः प्राणगते विधौ ॥ 3 ॥
- श्लोक 5अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः ।अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप्यहौ ॥ 5 ॥
- श्लोक 7बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च ।बहुबाधा महाहानी रवेः प्राणगते शनौ ॥ 7 ॥
- श्लोक 8राजान्नभोगः सततं राजलांछनतत्पदम् ।आत्मासन्तर्पयेदेवं रवेः प्राणगते बुधे ॥ 8 ॥
- श्लोक 9अन्योन्यं कलहश्चैव वसुहानिः पराजयः ।गुरुस्त्रीबन्धुवर्गैश्च सूर्यप्राणगते ध्वजे ॥ 9 ॥
- श्लोक 10राजपूजाधनाधिक्यं स्त्रीपुत्रादि भवं सुखम् ।अन्नपानादि भोगादि सूर्यप्राणगते भृगौ ॥ 10 ॥
- श्लोक 11स्त्रीपुत्रादि सुखं द्रव्यं लभते नूतनाम्बरम् ।योगसिद्धिं समाधिं च निजप्राणगते विधौ ॥ 11 ॥
- श्लोक 12क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् ।भूतावेशादि जायेत विधोः प्राणगते कुजे ॥ 12 ॥
- श्लोक 13सर्पभीतिर्विशेषेण भूतोपद्रवान् सदा ।दृष्टिक्षोभो मतिभ्रमो विधोः प्राणगतेऽप्यगौ ॥ 13 ॥
- श्लोक 14धर्मवृद्धिःक्षमाप्राप्तिर्देवब्राह्मणपूजनम् ।सौभाग्यं प्रियदृष्टिश्च चन्द्रप्राणगते गुरौ ॥ 14 ॥
- श्लोक 15सहसा देहपतनं शत्रूपद्रववेदना ।अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ ॥ 15 ॥
- श्लोक 16चामरच्छत्र सम्प्राप्ती राज्यलाभो नृपात्ततः ।समत्वं सर्वभूतेषु चन्द्रप्राणगते बुधे ॥ 16 ॥
- श्लोक 17शस्त्राग्निरिपुजापीडा विषाग्निकुक्षिरोगिता ।पुत्रदारवियोगश्च चन्द्रप्राणगते ध्वजे ॥ 17 ॥
- श्लोक 18पुत्रमित्रकलत्राप्तिर्विदेशाच्च धनागमः ।सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ ॥ 18 ॥
- श्लोक 19क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा ।देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ ॥ 19 ॥
- श्लोक 20कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः ।निजसूक्ष्मदशामध्ये कुजे प्राणगते फलम् ॥ 20 ॥
- श्लोक 21विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः ।प्राणत्यागोविषेणैव भौमप्राणगतेऽप्यहौ ॥ 21 ॥
- श्लोक 22देवार्चनपरः श्रीमान् मन्त्रानुष्ठानतत्परः ।पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ ॥ 22 ॥
- श्लोक 23अग्निबाधाभवेन्मृत्युरर्थनाशः पदच्युतिः ।बन्धुभिर्बन्धुतावाप्तिर्भौमप्राणगते शनौ ॥ 23 ॥
- श्लोक 24दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः ।दिव्यांगनायाः सम्प्राप्तिर्भौमप्राणगते बुधे ॥ 24 ॥
- श्लोक 25पतनोत्पातपीडा च नेत्रक्षोभो महद्भयम् ।भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वजे ॥ 25 ॥
- श्लोक 26धनधान्यादि सम्पत्तिर्लोकपूजा सुखागमा ।नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ ॥ 26 ॥
- श्लोक 27ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः ।दीर्घरोगी दरिद्री स्याद् भौमप्राणगते रवौ ॥ 27 ॥
- श्लोक 28भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् ।शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ ॥ 28 ॥
- श्लोक 29अन्नाशने विरक्तश्च विषभीतिस्तथैव च ।साहसाद्धननाशश्च राहौ प्राणगते भवेत् ॥ 29 ॥
- श्लोक 30अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता ।नीचैः कलहसम्प्राप्तिः राहोः प्राणगते गुरौ ॥ 30 ॥
- श्लोक 31गृहदाहः शरीरे रुङ्नीचैरपहृतं धनम् ।तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ ॥ 31 ॥
- श्लोक 32गुरूपदेशविभवो गुरुसत्कारवर्धनम् ।गुणवांच्छीलवांश्चापि राहोः प्राणगते बुधे ॥ 32 ॥
- श्लोक 33स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि ।साहसात्कार्यहानिश्च राहोः प्राणगते ध्वजे ॥ 33 ॥
- श्लोक 34छत्रवाहनसम्पत्तिः सर्वार्थफलसंचयः ।शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ ॥ 34 ॥
- श्लोक 35अर्शादिरोगभीतिश्चराज्योपद्रवसम्भवः ।चतुष्पादादिहानिश्च राहोः प्राणगते रवौ ॥ 35 ॥
- श्लोक 36सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् ।पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते विधौ ॥ 36 ॥
- श्लोक 37चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः ।मलिनः श्वादिवृत्तिश्च राहोः प्राणगते कुजे ॥ 37 ॥
- श्लोक 38हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् ।वाहनं छत्रसंयुक्तं निजप्राणगते गुरौ ॥ 38 ॥
- श्लोक 39व्रतहानिर्विषादश्च विदेशे धननाशनम् ।विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ ॥ 39 ॥
- श्लोक 41ज्ञानं विभव पाण्डित्यं शास्त्रज्ञानं शिवार्चनम् ।अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगते ध्वजे ॥ 41 ॥
- श्लोक 42रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ ॥ 42 ॥
- श्लोक 43वात-पित्त प्रकोपं च श्लेष्मोद्रेकं तु दारुणम् ।रसव्याधिकृतं शूलं गुरोः प्राणगते रवौ ॥ 43 ॥
- श्लोक 44छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।नेत्रकुक्षिगता पीडा गुरौ प्राणगते विधौ ॥ 44 ॥
- श्लोक 45स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः ।देशान्तरगमो भ्रान्तिर्गुरोः प्राणगते कुजे ॥ 45 ॥
- श्लोक 46व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् ।सर्पवृश्चिकभीतिश्च गुरौ प्राणगतेऽप्यहौ ॥ 46 ॥
- श्लोक 47ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् ।जलाग्निकृतमृत्युः स्यान्निजप्राणगते शनौ ॥ 47 ॥
- श्लोक 48धनं धान्यं च मांगल्यं व्यवहाराभिपूजनम् ।देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे ॥ 48 ॥
- श्लोक 49मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः ।परदाराभिभूतत्वं शनेः प्राणगते ध्वजे ॥ 49 ॥
- श्लोक 50पुत्रार्थविभवसौख्यं क्षितिपालादितः सुखम् ।अग्निहोत्रं विवाहश्च शनेः प्राणगते भृगौ ॥ 50 ॥
- श्लोक 51अक्षिपीडाशिरोव्याधिः सर्पशत्रुभयं भवेत् ।अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ ॥ 51 ॥
- श्लोक 52आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् ।देवब्राह्मणभक्तिश्च शनेः प्राणगते विधौ ॥ 52 ॥
- श्लोक 53गुल्मरोगः शत्रुभीतिर्मृगयाप्राणनाशनम् ।सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे ॥ 53 ॥
- श्लोक 54देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् ।वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ ॥ 54 ॥
- श्लोक 55सेनापत्यं भूमिलाभः सङ्गमाः स्वजनैः सह ।गौरवं नृपसम्मानं शनेः प्राणगते गुरौ ॥ 55 ॥
- श्लोक 56आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् ।समत्वं सर्वभूतेषु निजप्राणगते बुधे ॥ 56 ॥
- श्लोक 57वह्नितस्करतो भीतिः परमाधिविषोद्भवः ।देहान्तकरणं दुःखं बुधप्राणगते ध्वजे ॥ 57 ॥
- श्लोक 58प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चना ।पुत्रदारादिकं सौख्यं बुधप्राणगते भृगौ ॥ 58 ॥
- श्लोक 59अन्तर्दाहो ज्वरोन्मादो बान्धवानां रतिः स्त्रियाः ।प्राप्यते स्तेयसम्पत्तिर्बुधप्राणगते रवौ ॥ 59 ॥
- श्लोक 60स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः ।लभते सर्वतः सौख्यं बुधप्राणगते विधौ ॥ 60 ॥
- श्लोक 61पतितः कुक्षिरोगी च दन्तनेत्रादिना व्यथा ।अर्शार्तिः प्राणसन्देहो बुधे प्राणगते कुजे ॥ 61 ॥
- श्लोक 62वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता ।सन्निपातोद्भवं दुःखं बुधे प्राणगतेऽप्यहौ ॥ 62 ॥
- श्लोक 63गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः ।व्यवसायेन सल्लाभो बुधे प्राणगते गुरौ ॥ 63 ॥
- श्लोक 64चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता ।याचकत्वं विशेषेण बुधे प्राणगते शनौ ॥ 64 ॥
- श्लोक 65अश्वपातेनघातश्च शत्रुतः कलहागमः ।निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे ॥ 65 ॥
- श्लोक 66क्षेत्रलाभो वैरिनाशो हयलाभो मनः सुखम् ।पशुक्षेत्रधनाप्तिश्च केतोः प्राणगते भृगौ ॥ 66 ॥
- श्लोक 67स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा ।प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ ॥ 67 ॥
- श्लोक 68देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् ।कर्णे वा लोचने रोगः केतोः प्राणगते विधौ ॥ 68 ॥
- श्लोक 69पित्तरोगोनसावृद्धिर्विभ्रमः सन्निपातजः ।स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे ॥ 69 ॥
- श्लोक 70विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् ।स्वसाहसात्कार्यहानिः केतोः प्राणगतेऽप्यहौ ॥ 70 ॥
- श्लोक 71शस्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः ।सुतदारवियोगश्च केतोः प्राणगते गुरौ ॥ 71 ॥
- श्लोक 72मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा ।व्यसनाद् बन्धनं दुःखं केतोः प्राणगते शनौ ॥ 72 ॥
- श्लोक 73कुसुमं शयनं भूषा लेपनं भोजनादिकम् ।सौख्यं सर्वांगभोग्यं च केतोः प्राणगते बुधे ॥ 73 ॥
- श्लोक 74ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः ।पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ ॥ 74 ॥
- श्लोक 75लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः ।उष्णादिरोगजं दुःखं शुक्रप्राणगते रवौ ॥ 75 ॥
- श्लोक 76देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः ।धनसौभाग्यसम्पत्तिः शुक्रप्राणगते विधौ ॥ 76 ॥
- श्लोक 77ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः ।देवब्राह्मणपूजा च शुक्रप्राणगते कुजे ॥ 77 ॥
- श्लोक 78नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः ।विरोधः सुहृदां पीडा शुक्रप्राणगतेऽप्यहौ ॥ 78 ॥
- श्लोक 79आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् ।छत्रवाहनसम्प्राप्तिः शुक्रप्राणगते गुरौ ॥ 79 ॥
- श्लोक 80राजोपद्रवजा भीतिः सुखहानिर्महारुजः ।नीचैः सह विवादश्च भृगोः प्राणगते शनौ ॥ 80 ॥
- श्लोक 81सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः ।नित्यमुत्साहवृद्धिश्च शुक्रप्राणगते बुधे ॥ 81 ॥
- श्लोक 82जीवितात्मयशोहानिर्धनधान्यपरिक्षयः ।त्यागभोगधनानि स्युः शुक्रप्राणगते ध्वजे ॥ 82 ॥
- श्लोक 83एवमृक्षदशानां हि पंचभेदात्मकं फलम् ।फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः ॥ 83 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।