अध्याय 64: सूक्ष्मदशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 64 (Sukshma Dasha Phal)

76 श्लोक · 6 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः ।खार्कैः भक्ता पृथग्‌ लब्धिः सूक्ष्मा सा जायते दशा ॥ 1 ॥
  2. श्लोक 2निजभूमिपरित्यागो प्राणनाशभयं भवेत्‌ ।स्थाननाशो महाहानिः निजसूक्ष्मगते रवौ ॥ 2 ॥
  3. श्लोक 3देवब्राह्मणभक्तिश्चनित्यकर्मरतस्तथा ।सुप्रीतिः सर्वमित्रैश्च रवेः सूक्ष्मगते विधौ ॥ 3 ॥
  4. श्लोक 4क्रूरकर्मरतिस्तिग्मशत्रुभिःपरिपीडनम्‌ ।रक्तस्रावादिरोगश्च रवौ सूक्ष्मगते कुजे ॥ 4 ॥
  5. श्लोक 5चौराग्निविषभीतिश्च रणे भङ्गः पराजयः ।दानधर्मादिहीनश्च रवौ सूक्ष्मगते ह्यगौ ॥ 5 ॥
  6. श्लोक 6नृपसत्कारराजार्हः सेवकैः परिपूजितः ।राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ ॥ 6 ॥
  7. श्लोक 7चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् ।स्थानच्युतिं मनोदुःखं रवौ सूक्ष्मगते शनौ ॥ 7 ॥
  8. श्लोक 8दिव्याम्बरादि लब्धिश्च दिव्यस्त्रीपरिभोगिता ।अचिन्तितार्थसिद्धिश्च रवौ सूक्ष्मगते बुधे ॥ 8 ॥
  9. श्लोक 9गुरुतार्थविनाशश्च दारभृत्यभवस्तथा ।क्वचित्सेवकसम्बन्धो रवौ सूक्ष्मगते ध्वजे ॥ 9 ॥
  10. श्लोक 10पुत्रमित्रकलत्रादि सौख्यसम्पन्न एव च ॥नानाविधा च सम्पत्ती रवौ सूक्ष्मगते भृगौ ॥ 10 ॥
  11. श्लोक 11भूषणं भूमिलाभश्च सन्मानं नृपपूजनम्‌ ।तामसत्वं गुरुत्वं च निजे सूक्ष्मगते विधौ ॥ 11 ॥
  12. श्लोक 12दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः ।वातपित्तकफोद्रेकः विधौ सूक्ष्मगते कुजे ॥ 12 ॥
  13. श्लोक 13क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः ।विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगतेऽप्यगौ ॥ 13 ॥
  14. श्लोक 14छत्रचामर संयुक्तं वैभवं पुत्रसम्पदः ।सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ ॥ 14 ॥
  15. श्लोक 16राजमानं वस्तुलाभो विदेशाद्‌ वाहनादिकम्‌ ।पुत्रपौत्रसमृद्धिश्च विधोः सूक्ष्मगते बुधे ॥ 16 ॥
  16. श्लोक 18विवाहो भूमिलाभश्च वस्त्राभरण वैभवम्‌ ।राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ ॥ 18 ॥
  17. श्लोक 19क्लेशात्क्लेशः कार्यनाशः पशुधान्यधनक्षयः ।गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते रवौ ॥ 19 ॥
  18. श्लोक 20भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक्‌ ।पुरक्षोभमनस्तापो निजसूक्ष्मगते कुजे ॥ 20 ॥
  19. श्लोक 21अंगदोषो जनाद्भीतिः प्रमदावंशनाशनम्‌ ।वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ ॥ 21 ॥
  20. श्लोक 22देवपूजारतिश्चात्र कन्याभ्युत्थानतत्परः ।लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते गुरौ ॥ 22 ॥
  21. श्लोक 23बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः ।भृत्यार्थबहुलः श्रीमान्‌ भौमे सूक्ष्मगते शनौ ॥ 23 ॥
  22. श्लोक 24वाहनं छत्रसंयुक्तं राज्यभोग परं सुखम्‌ ।कासश्वासादिका पीडा भौमे सूक्ष्मगते बुधे ॥ 24 ॥
  23. श्लोक 25परप्रेरितबुद्धिश्च सर्वत्रापि च गर्हिता ।अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्वजे ॥ 25 ॥
  24. श्लोक 26इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः ।इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृगौ ॥ 26 ॥
  25. श्लोक 27राजद्वेषो द्विजात्क्लेशः कार्याभिप्रायवंचकः ।लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मगते रवौ ॥ 27 ॥
  26. श्लोक 28शुद्धरत्नधनसम्प्राप्तिर्देवब्राह्मणवत्सलः ।व्याधिना परिभूयेत भौमे सूक्ष्मगते विधौ ॥ 28 ॥
  27. श्लोक 29लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः ।शून्यता चित्तदोषः स्यात् स्वीये सूक्ष्मगतेऽप्यगौ ॥ 29 ॥
  28. श्लोक 30दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः ।दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुरौ ॥ 30 ॥
  29. श्लोक 31कुमार्गात् कुत्सितोऽर्थश्च दुष्टश्च परसेवकः ।असत्संगमतिर्मूढो राहोः सूक्ष्मगते शनौ ॥ 31 ॥
  30. श्लोक 32स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः ।अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ॥ 32 ॥
  31. श्लोक 33माधुर्यमानहानिश्च बन्धनं चाप्रमाकरम्‌ ।पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध्वजे ॥ 33 ॥
  32. श्लोक 34बन्धनान्मुच्यते जातः स्थानमानार्थसंचयः ।कारणाद्द्रव्यलाभश्च राहोः सूक्ष्मगते भृगौ ॥ 34 ॥
  33. श्लोक 35व्यक्तार्शो गुल्मरोगी च क्रोधहानिस्तथैव च ।वाहनादि सुखं सर्वं राहोः सूक्ष्मगते रवौ ॥ 35 ॥
  34. श्लोक 36मणिरत्नधनावाप्तिर्विद्योपासनशीलवान्‌ ।देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ॥ 36 ॥
  35. श्लोक 37निर्जितो जनविद्रावो जनैः क्रोधश्च बन्धनम्‌ ।चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते कुजे ॥ 37 ॥
  36. श्लोक 38शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम्‌ ।वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गुरौ ॥ 38 ॥
  37. श्लोक 39व्रतभंगो मनस्तापो विदेशे वसुनाशनम्‌ ।विरोधो बन्धुवर्गैश्च गुरोः सूक्ष्मगते शनौ ॥ 39 ॥
  38. श्लोक 40विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः ।गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते बुधे ॥ 40 ॥
  39. श्लोक 41ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् ।अग्निहोत्रं गुरोर्भक्तिर्गुरोः सूक्ष्मगते ध्वजे ॥ 41 ॥
  40. श्लोक 42रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृगौ ॥ 42 ॥
  41. श्लोक 43वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः ।रसव्याधिकृतं शूलं गुरोः सूक्ष्मगते रवौ ॥ 43 ॥
  42. श्लोक 44छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ॥ 44 ॥
  43. श्लोक 45स्त्री जनाच्चविषोत्पत्तिर्बन्धनं च रुजोभयम्‌ ।देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष्मगते कुजे ॥ 45 ॥
  44. श्लोक 46व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् ।सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्यगौ ॥ 46 ॥
  45. श्लोक 47धनहानिर्महाव्याधिः वातपीडाकुलक्षयः ।भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ ॥ 47 ॥
  46. श्लोक 48वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च ।स्त्रीलाभश्च महाप्राप्तिः शनेः सूक्ष्मगते बुधे ॥ 48 ॥
  47. श्लोक 49चौरोपद्रव कुष्ठादि वृत्तिक्षयविगुम्फनम्‌ ।सर्वांगपीडनं व्याधिः शनेः सूक्ष्मगते ध्वजे ॥ 49 ॥
  48. श्लोक 50ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम्‌ ।आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ ॥ 50 ॥
  49. श्लोक 51राजतेजोऽधिकारत्वं स्वगृहे जायते कलिः ।किंचित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते रवौ ॥ 51 ॥
  50. श्लोक 52स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः ।स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष्मगते विधौ ॥ 52 ॥
  51. श्लोक 53तेजो हानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः ।वातपित्तकृता पीडा शनेः सूक्ष्मगते कुजे ॥ 53 ॥
  52. श्लोक 54पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम्‌ ।सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ ॥ 54 ॥
  53. श्लोक 55सन्मुद्राभोगसम्मानंधनधान्यविवर्धनम्‌ ।छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गुरौ ॥ 55 ॥
  54. श्लोक 58वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः ।शुभकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ ॥ 58 ॥
  55. श्लोक 59ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक्‌ ।हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ ॥ 59 ॥
  56. श्लोक 60सुभगः स्थिरबुद्धिश्च राजसम्मानसम्पदः ।सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ ॥ 60 ॥
  57. श्लोक 61अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता ।विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते कुजे ॥ 61 ॥
  58. श्लोक 62अग्निसर्पनृपाद्भीतिः कृच्छ्रादरिपराभवः ।भूतावेशभ्रमाद् भ्रान्तिर्बौधे सूक्ष्मगतेऽप्यहौ ॥ 62 ॥
  59. श्लोक 63गृहोपकरणं भव्यं दानं भोगादि वैभवम्‌ ।राजप्रासादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ ॥ 63 ॥
  60. श्लोक 64वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च ।स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते शनौ ॥ 64 ॥
  61. श्लोक 65पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च ।दारिद्र्याद्‌ भिक्षुकवृत्तिर्निजे सूक्ष्मगते ध्वजे ॥ 65 ॥
  62. श्लोक 66रोगनाशोऽर्थनाशश्च गुरुविप्रानुवत्सलः ।संगमः स्वजनैः सार्धं केतोः सूक्ष्मगते भृगौ ॥ 66 ॥
  63. श्लोक 67युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः ।सुहृद्विपत्तिरार्तिश्च केतोः सूक्ष्मगते रवौ ॥ 67 ॥
  64. श्लोक 68दासीदाससमृद्धिश्च युद्धेलब्धिर्जयस्तथा ।ललिताकीर्तिरुत्पन्ना केतोः सूक्ष्मगते विधौ ॥ 68 ॥
  65. श्लोक 69आसनेभयमश्वादेश्चौरदुष्टादिपीडनम्‌ ।गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ॥ 69 ॥
  66. श्लोक 70विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसंगमाल्लघुः ।वमनं रुधिरं पित्तं केतोः सूक्ष्मगतेऽप्यगौ ॥ 70 ॥
  67. श्लोक 71रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम्‌ ।पशुक्षेत्रविनाशार्तिः केतोः सूक्ष्मगते गुरौ ॥ 71 ॥
  68. श्लोक 73नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम्‌ ।अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुधे ॥ 73 ॥
  69. श्लोक 74शत्रुहानिर्महत्सौख्यं शंकरालयनिर्मितिः ।तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ ॥ 74 ॥
  70. श्लोक 75उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् ।क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते रवौ ॥ 75 ॥
  71. श्लोक 76आरोग्यं धनसम्पत्तिः कार्यलाभोगतागतैः ।बुद्धिविद्याविवृद्धिः स्याद्‌ भृगोः सूक्ष्मगते विधौ ॥ 76 ॥
  72. श्लोक 77जडत्वं रिपुवैषम्यं देहभ्रंशो महद्भयम्‌ ।व्याधिदुःखसमुत्पत्तिर्भृगोः सूक्ष्मगते कुजे ॥ 77 ॥
  73. श्लोक 78राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा ।स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्मगतेऽप्यहौ ॥ 78 ॥
  74. श्लोक 79सर्वत्रकार्यलाभश्च क्षेत्रार्थविभवोन्नतिः ।वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष्मगते गुरौ ॥ 79 ॥
  75. श्लोक 80शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम्‌ ।स्वगोत्रगुरुहानिः स्याद्‌ भृगोः सूक्ष्मगते शनौ ॥ 80 ॥
  76. श्लोक 81बान्धवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः ।पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते बुधे ॥ 81 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।