अध्याय 63: प्रत्यन्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 63 (Pratyantardasha Phal)

89 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1पृथक्‌ स्वस्वदशामानैर्हन्यादन्तर्दशावधिम्‌ ।भजेत्सर्वदशायोगैः लब्धिः प्रत्यन्तरं क्रमात्‌ ॥ 1 ॥
  2. श्लोक 2विवादो वित्तहानिश्च दारार्तिः शिरसि व्यथा ।रव्यन्तरे बुधैर्ज्ञेयं तस्य प्रत्यन्तरे फलम्‌ ॥ 2 ॥
  3. श्लोक 3उद्वेगः कलहश्चैव वित्तहानिर्मनोव्यथा ।रव्यन्तरे विजानीयात्‌ चन्द्रप्रत्यन्तरे फलम्‌ ॥ 3 ॥
  4. श्लोक 4राजभीतिः शस्त्रभीतिर्बन्धनं बहुसंकटम्‌ ।शत्रुवह्निकृतापीडा कुजप्रत्यन्तरे फलम्‌ ॥ 4 ॥
  5. श्लोक 5श्लेष्मव्याधिः शस्त्रभीतिर्धनहानिर्महद्भयम्‌ ।राजभंगस्तथा त्रासो राहुप्रत्यन्तरे फलम्‌ ॥ 5 ॥
  6. श्लोक 6शत्रुनाशो जयो वृद्धिर्वस्त्रहेमादिभूषणम्‌ ।अश्वयानादि लाभश्च गुरुप्रत्यन्तरे फलम्‌ ॥ 6 ॥
  7. श्लोक 7धनहानिः पशोः पीडा महोद्वेगो महारुजः ।अशुभं सर्वमाप्नोति शनिप्रत्यन्तरे जनः ॥ 7 ॥
  8. श्लोक 8विद्यालाभो बन्धुसंगो भोज्यप्राप्तिर्धनागमः ।धर्मलाभो नृपात्पूजा बुधप्रत्यन्तरे भवेत्‌ ॥ 8 ॥
  9. श्लोक 9प्राणभीतिर्महाहानी राजभीतिश्च विग्रहः ।शत्रूणां च महावादो केतोः प्रत्यन्तरे फलम् ॥ 9 ॥
  10. श्लोक 10दिनानि समरूपाणि लाभोऽप्यल्पो भवेदिह ।स्वल्पा च सुखसम्पत्तिः शुक्रप्रत्यन्तरे भवेत्‌ ॥ 10 ॥
  11. श्लोक 11भूभोज्यधनसम्प्राप्ती राजपूजा महत्सुखम्‌ ।लाभश्चन्द्रान्तरे ज्ञेयं चन्द्रप्रत्यन्तरे फलम्‌ ॥ 11 ॥
  12. श्लोक 12मतिवृद्धिः महापूज्यसुखं बन्धुजनैः सह ।धनागमः शत्रुभयं कुजप्रत्यन्तरे फलम्‌ ॥ 12 ॥
  13. श्लोक 13भवेत्कल्याणसम्पत्तीराजवित्तसमागमः ।अशुभैरल्पमृत्युश्च राहुप्रत्यन्तरे द्विज ॥ 13 ॥
  14. श्लोक 14वस्त्रलाभो महातेजो ब्रह्मज्ञानं च सद्गुरोः ।राज्यालंकरणावाप्तिर्गुरुप्रत्यन्तरे फलम् ॥ 14 ॥
  15. श्लोक 15दुर्दिने लभते पीडां वातपित्ताद्‌ विशेषतः ।धनधान्ययशोहानिः शनिप्रत्यन्तरे विधोः ॥ 15 ॥
  16. श्लोक 16पुत्रजन्महयप्राप्तिर्विद्या लाभो महोन्नतिः ।शुक्लवस्त्रान्नलाभश्च बुधप्रत्यन्तरे विधोः ॥ 16 ॥
  17. श्लोक 17ब्राह्मणेन समं युद्धमपमृत्युः सुखक्षयः ।सर्वत्र जायते क्लेशः केतोः प्रत्यन्तरे विधोः ॥ 17 ॥
  18. श्लोक 18धनलाभो महत्सौख्यं कन्याजन्मसुभोजनम्‌ ।प्रीतिश्च सर्वलोकेभ्यो भृगुप्रत्यन्तरे विधोः ॥ 18 ॥
  19. श्लोक 19अन्नागमो वस्त्रलाभः शत्रुहानिः सुखागमः ।सर्वत्र विजयप्राप्तिः सूर्यप्रत्यन्तरे विधोः ॥ 19 ॥
  20. श्लोक 20शत्रुभीतिं कलिं घोरं रक्तस्रावं मृतेर्भयम्‌ ।कुजस्यान्तर्दशायां च कुजप्रत्यन्तरे भवेत्‌ ॥ 20 ॥
  21. श्लोक 21बन्धनं राजभंगश्च धनहानिः कुभोजनम्‌ ।कलहः शत्रुभीर्नित्यं राहुप्रत्यन्तरे भवेत्‌ ॥ 21 ॥
  22. श्लोक 22मतिनाशस्तथा दुःखं सन्तापः कलहो भवेत्‌ ।विफलं चिन्तितं सर्वं गुरोः प्रत्यन्तरे वदेत्‌ ॥ 22 ॥
  23. श्लोक 23स्वामिनाशस्तथा पीडा धनहानिर्महाभयम्‌ ।वैकल्यं कलहस्त्रासो शनेः प्रत्यन्तरे भवेत्‌ ॥ 23 ॥
  24. श्लोक 24सर्वथा बुद्धिनाशश्च धनहानिर्ज्वरस्तनौ ।वस्त्रान्नसुहृदां नाशो बुधप्रत्यन्तरे भवेत्‌ ॥ 24 ॥
  25. श्लोक 25आलस्यं च शिरः पीडां पापरोगोऽपमृत्युकृत्‌ ॥राजभीतिः शस्त्रघातो केतोः प्रत्यन्तरे वदेत्‌ ॥ 25 ॥
  26. श्लोक 26चाण्डालात्संकटस्त्रासो राजशस्त्र भयं भवेत्‌ ।अतिसारोऽथवमनं भृगोः प्रत्यन्तरे भवेत्‌ ॥ 26 ॥
  27. श्लोक 27भूमिलाभोऽर्थसम्पत्तिः सन्तोषो मित्रसंगतिः ।सर्वत्रसुखमाप्नोति रवेः प्रत्यन्तरे जनः ॥ 27 ॥
  28. श्लोक 28याम्यां दिशि भवेल्लाभः सितवस्त्रविभूषणम्‌ ।संसिद्धिः सर्वकार्याणां विधोः प्रत्यन्तरे भवेत्‌ ॥ 28 ॥
  29. श्लोक 29बन्धनं बहुधा रोगो बहुघातः सुहृद्भयम्‌ ।राह्वन्तर्दशायां च राहोः प्रत्यन्तरे फलम्‌ ॥ 29 ॥
  30. श्लोक 30सर्वत्र लभते मानं गजाश्वं च धनागमम्‌ ।राहोरन्तर्दशायां च ज्ञेयमेतद्गुरोः फलम्‌ ॥ 30 ॥
  31. श्लोक 31बन्धनं जायते घोरं सुखहानिर्महद्भयम्‌ ।प्रत्यहं वातपीडा च शनेः प्रत्यन्तरे भवेत्‌ ॥ 31 ॥
  32. श्लोक 32सर्वत्र बहुधा लाभः स्त्रीसंगाच्च विशेषतः ।परदेशभवासिद्धिर्बुधप्रत्यन्तरे भवेत्‌ ॥ 32 ॥
  33. श्लोक 33बुद्धिनाशो भयं विघ्नो धनहानिर्महद्भयम् ।सर्वत्र कलहोद्वेगौ केतोः प्रत्यन्तरे फलम् ॥ 33 ॥
  34. श्लोक 34योगिनीभ्यो भयं भूयादश्वहानिः कुभोजनम्‌ ।स्त्रीनाशः कुलजं शोकं शुक्रप्रत्यन्तरे फलम्‌ ॥ 34 ॥
  35. श्लोक 35ज्वररोगो महाभीतिः पुत्रपौत्रादिपीडनम्‌ ।अल्पमृत्युः प्रमादश्च रवेः प्रत्यन्तरे भवेत्‌ ॥ 35 ॥
  36. श्लोक 36उद्वेगकलहौ चिन्ता मानहानिर्महद्भयम्‌ ।पितुर्विकलता देहे विधोः प्रत्यन्तरे भवेत्‌ ॥ 36 ॥
  37. श्लोक 37भगन्दरकृता पीडा रक्तपित्तप्रपीडनम्‌ ।अर्थहानिर्महोद्वेगः कुजप्रत्यन्तरे भवेत्‌ ॥ 37 ॥
  38. श्लोक 38हेमलाभो धान्यवृद्धिः कल्याणं सुफलोदयः ।गुरोरन्तर्दशायां च भवेद्गुर्वन्तरे फलम् ॥ 38 ॥
  39. श्लोक 39गोभूमिहयलाभः स्यात्सर्वत्रसुखसाधनम्‌ ।संग्रहो ह्यन्नपानादेः शनेः प्रत्यन्तरे भवेत्‌ ॥ 39 ॥
  40. श्लोक 40विद्यालाभो वस्त्रलाभो ज्ञानलाभः समौक्तिकः ।सुहृदां संगमस्नेहो बुधप्रत्यन्तरे भवेत् ॥ 40 ॥
  41. श्लोक 41जलभीतिस्तथा चौर्यं बन्धनं कलहो भवेत् ।अपमृत्युर्भयं घोरं केतोः प्रत्यन्तरे द्विज ॥ 41 ॥
  42. श्लोक 42नानाविद्यार्थसम्प्राप्तिर्हेमवस्त्रादिभूषणम्‌ ॥लभते क्षेमसन्तोषं भृगोः प्रत्यन्तरे भवेत्‌ ॥ 42 ॥
  43. श्लोक 43नृपाल्लाभस्तथा मित्रात्‌ पितृतोमातृतोऽपि च ।सर्वत्र लभते पूजां रवेः प्रत्यन्तरे जनः ॥ 43 ॥
  44. श्लोक 44सर्वदुःखविमोक्षश्च मुक्तालाभो हयस्य च ।सिद्ध्यन्ति सर्वकार्याणि विधोः प्रत्यन्तरे द्विज ॥ 44 ॥
  45. श्लोक 45शस्त्रभीतिर्गुदे पीडा वह्निमान्द्यमजीर्णता ।पीडाशत्रुकृता भूरिर्भौमप्रत्यन्तरे फलम्‌ ॥ 45 ॥
  46. श्लोक 46चाण्डालेन विरोधः स्यात्‌ भयं तेभ्यो धनक्षतिः ।कष्टं जीवान्तरे ज्ञेयं राहोः प्रत्यन्तरे ध्रुवम्‌ ॥ 46 ॥
  47. श्लोक 47देहपीडा कलेर्भीतिर्भयमन्त्यजलोकतः ।दुःखं शन्यन्तरे नाना शनेः प्रत्यन्तरे भवेत्‌ ॥ 47 ॥
  48. श्लोक 48बुद्धिनाशः कलेर्भीतिरन्नपानादि हानिकृत्‌ ।धनहानिर्भयं शत्रोः शनौ प्रत्यन्तरे बुधे ॥ 48 ॥
  49. श्लोक 50चिन्तितं फलितं वस्तु कल्याणं स्वजने सदा ।मनुष्यकृतितो लाभः भृगोः प्रत्यन्तरे द्विज ॥ 50 ॥
  50. श्लोक 51राजतेजोऽधिकारित्वं स्वगृहे जायते कलिः ।ज्वरप्रभृति पीडा च रवेः प्रत्यन्तरे भवेत्‌ ॥ 51 ॥
  51. श्लोक 52स्फीतबुद्धिर्महारम्भो मन्दतेजाबहुव्ययः ।बहुस्त्रीभिः समं योगो विधोः प्रत्यन्तरे शनौ ॥ 52 ॥
  52. श्लोक 53तेजोहानिः पुत्रघातो वह्निभीती रिपोर्भयम्‌ ।वातपित्तकृता पीडा कुजप्रत्यन्तरे भवेत्‌ ॥ 53 ॥
  53. श्लोक 54धननाशोवस्त्रहानिर्भूमिनाशो भयं भवेत्‌ ।विदेशगमनं मृत्युः राहोः प्रत्यन्तरे शनौ ॥ 54 ॥
  54. श्लोक 55गृहेषु स्त्रीकृतं छिद्रं ह्यसमर्थो निरीक्षणे ।अथवा कलिमुद्वेगं गुरोः प्रत्यन्तरे वदेत्‌ ॥ 55 ॥
  55. श्लोक 56बुद्धिविद्यार्थलाभो वा वस्त्रलाभो महत्सुखम्‌ ।बुधस्यान्तर्दशायां च बुधप्रत्यन्तरे फलम्‌ ॥ 56 ॥
  56. श्लोक 57कठिनान्नस्य सम्प्राप्तिरुदरे रोग सम्भवः ।कामलं रक्त पित्तं च केतोः प्रत्यन्तरे वदेत्‌ ॥ 57 ॥
  57. श्लोक 58उत्तरस्यां भवेल्लाभो हानिः स्यात्तु चतुष्पदात्‌ ।अधिकारो नृपागारे भृगोः प्रत्यन्तरे द्विज ॥ 58 ॥
  58. श्लोक 59तेजो हानिर्भवेद्रोगस्तनुपीडा यदा कदा ।जायते चित्तवैकल्यं रवेः प्रत्यन्तरे बुधे ॥ 59 ॥
  59. श्लोक 60स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो महद्धनम्‌ ।लभते सर्वतः सौख्यं विधोः प्रत्यन्तरे जनः ॥ 60 ॥
  60. श्लोक 61धर्मधीधनसम्प्राप्तिश्चौराग्न्यादि प्रपीडनम्‌ ।रक्तवस्त्रं शस्त्रघातः भौमप्रत्यन्तरे भवेत्‌ ॥ 61 ॥
  61. श्लोक 62कलहो जायते स्त्रीभिरकस्माद्‌ भयसम्भवः ।राजशस्त्रकृताभीतिः राहोः प्रत्यन्तरे द्विज ॥ 62 ॥
  62. श्लोक 63राज्यं राज्याधिकारो वा पूजा राजसमुद्भवा ।विद्याबुद्धिसमृद्धिश्च गुरोः प्रत्यन्तरे भवेत्‌ ॥ 63 ॥
  63. श्लोक 64वातपित्तमहापीडा देहघातसमुद्भवा ।धननाशमवाप्नोति शनेः प्रत्यन्तरे जनः ॥ 64 ॥
  64. श्लोक 65आपत्समुद्भवोऽकस्मात्‌ देशान्तरसमागमः ।केत्वन्तरेऽर्थहानिश्च केतोः प्रत्यन्तरे भवेत्‌ ॥ 65 ॥
  65. श्लोक 66म्लेच्छभीरर्थनाशो वा नेत्ररोगः शिरोव्यथा ।हानिश्चतुष्पदानां च भृगोः प्रत्यन्तरे फलम्‌ ॥ 66 ॥
  66. श्लोक 67मित्रैः सह विरोधश्च स्वल्पमृत्युः पराजयः ।मतिभ्रंशो विवादश्च रवेः प्रत्यन्तरे भवेत्‌ ॥ 67 ॥
  67. श्लोक 68अन्ननाशो यशो हानिर्देहपीडा मतिभ्रमः ।आमवातादि वृद्धिश्च विधोः प्रत्यन्तरे भवेत्‌ ॥ 68 ॥
  68. श्लोक 69शस्त्रघातेन पातेन पीडितो वह्निपीडया ।नीचाद्‌ भीती रिपोः शंका कुजप्रत्यन्तरे द्विज ॥ 69 ॥
  69. श्लोक 70कामिनीभ्यो भयं भूयात्‌ तथा वैरिसमुद्भवः ।क्षुद्रादपि भवेद्‌ भीती राहोः प्रत्यन्तरे फलम्‌ ॥ 70 ॥
  70. श्लोक 71धनहानिर्महोत्पातो शस्त्रमित्रविनाशनम्‌ ।सर्वत्र लभते क्लेशं गुरोः प्रत्यन्तरे फलम्‌ ॥ 71 ॥
  71. श्लोक 72गोमहिष्यादिमरणं देहपीडा सुहृद्वधः ।स्वल्पाल्पलाभकरणं शनेः प्रत्यन्तरे फलम्‌ ॥ 72 ॥
  72. श्लोक 73बुद्धिनाशो महोद्वेगो विद्याहानिर्महद्भयम्‌ ।कार्यसिद्धिर्न जायेत ज्ञस्य प्रत्यन्तरे फलम्‌ ॥ 73 ॥
  73. श्लोक 74श्वेताश्ववस्त्रमुक्तादि दिव्यस्त्रीसंगजं सुखम्‌ ।लभते शुक्रान्तरे प्राप्ते शुक्रप्रत्यन्तरे जनः ॥ 74 ॥
  74. श्लोक 75वातज्वरः शिरः पीडा राज्ञः पीडा रिपोरपि ।जायते स्वल्पलाभोऽपि रवेः प्रत्यन्तरे फलम्‌ ॥ 75 ॥
  75. श्लोक 76कन्याजन्म नृपाल्लाभो वस्त्राभरणसंयुतः ।राज्याधिकारसम्प्राप्तिः चन्द्रप्रत्यन्तरे भवेत्‌ ॥ 76 ॥
  76. श्लोक 77रक्तपित्तादि रोगश्च कलहस्ताडनं भवेत्‌ ।महान्‌ क्लेशो भवेदत्र कुजप्रत्यन्तरे द्विज ॥ 77 ॥
  77. श्लोक 78कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः ।राजतः शत्रुतः पीडा राहोः प्रत्यन्तरे भवेत् ॥ 78 ॥
  78. श्लोक 79महद्द्रव्यं महद्‌ राज्यं वस्त्रमुक्तादि भूषणम्‌ ।गजाश्वादिपदप्राप्तिः गुरोः प्रत्यन्तरे भवेत्‌ ॥ 79 ॥
  79. श्लोक 80खरोष्ट्रछागसम्प्राप्तिर्लोहमाषतिलादिकम् ।लभते स्वल्पपीडादि शनेः प्रत्यन्तरे जनः ॥ 80 ॥
  80. श्लोक 81धनज्ञानमहल्लाभो राजराज्याधिकारिता ।निक्षेपाद्धनलाभोऽपि ज्ञस्य प्रत्यन्तरे भवेत्‌ ॥ 81 ॥
  81. श्लोक 82अपमृत्युभयं ज्ञेयं देशाद्देशान्तरागमः ।लाभोऽपि जायते मध्ये केतोः प्रत्यन्तरे द्विज ॥ 82 ॥
  82. श्लोक 83लग्नेशरोगनाथौ च निधनेशेन संयुतौ ।मारकेशयुतौ दृष्टौ रोगनाथांशगौ यदि ॥ 83 ॥
  83. श्लोक 84तस्य भुक्तौ विजानीयाद्‌ व्यथां शस्त्रसमुद्भवाम्‌ ।शुभयोगेन बाधः स्यात्पापयोगेन मृत्युकृत्‌ ॥ 84 ॥
  84. श्लोक 85राशिशीलानुसारेण वदेत्‌ रोगादिकारणम्‌ ।मेषवर्गगतौ तौ चेज्जम्बुकादिभयं भवेत्‌ ॥ 85 ॥
  85. श्लोक 86वृषवर्गगतौ तौ चेत्‌ वृश्चिकाद्भयमादिशेत्‌ ।युग्मवर्गगतौ भीतिः कपिजानात्रसंशयः ॥ 86 ॥
  86. श्लोक 87कुलीरवर्गगतौ चेद्रासभाद्‌ भयमादिशेत्‌ ।सिंहवर्गगतौ स्यातां भयं व्याघ्रादितो भवेत्‌ ॥ 87 ॥
  87. श्लोक 88कन्याया वर्गगौ स्यातां भयं भल्लूकवर्गतः ।तुलायां तु गजाद्भीतिरष्टमेऽपि च तद्भयम्‌ ॥ 88 ॥
  88. श्लोक 89यदि कार्मुकवर्गस्थौ शस्त्राद्‌ वा वाहनाद्भयम्‌ ।मृगकुम्भगतौ स्यातां गोलाङ्गूलादितो भयम्‌ ॥ 89 ॥
  89. श्लोक 90मीनवर्गगतौ स्यातां भयं मत्स्यादिवर्गतः ।एवं विचार्य वक्तव्यं जनानां च शुभाशुभम्‌ ॥ 90 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।