अध्याय 62: शुक्रान्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 62 (Shukra Antardasha Phal)

73 श्लोक

  1. श्लोक 1कुंडली के 1 नियमअथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमविप्रमूलाद्धनप्राप्तिर्गोमहिष्यादि लाभकृत्‌ ।पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमसम्मानं राजसम्मानं राज्यलाभो महत्सुखम्‌ ।स्वोच्चे वा स्वर्क्षगे वापि तुंगांशे स्वांशकेऽपि वा ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमनूतनालय निर्माणं नित्यं मिष्ठान्नभोजनम्‌ ।कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमअन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः ।महाराजप्रसादेन वाहनाम्बरभूषणम्‌ ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमलग्नादुपचये शुक्रे शुभग्रहयुतेक्षिते ।मित्रांशे तुंगलाभेशयोगकारकसंयुते ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमराज्यलाभो महोत्साहो राजप्रीतिः सुखावहा ।गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्धनम्‌ ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमषष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथवीक्षिते ।चौरादि व्रणभीतिश्च सर्वत्रजनपीडनम्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमराजद्वारे जनद्वेषः इष्टबन्धुविनाशनम्‌ ।दारपुत्रादि पीडा च जायते द्विजसत्तम ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमद्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् ।तत्र दुर्गाजपं कुर्याद् धेनुदानं च कारयेत् ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमशुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः ।दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमस्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे ।दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमतद्भुक्तौ धनलाभः स्याद्‌ राज्यस्त्रीधनसम्पदः ।स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमपितृमात्रोः सुखप्राप्तिः भ्रातृलाभं सुखावहम्‌ ।सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमतथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽथवा ।नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमस्वजनोपरिसंक्लेशं नित्यं निष्ठुरभाषणम्‌ ।पितृपीडा बन्धुहानिः राजद्वारे विरोधकृत्‌ ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमव्रणपीडाहिबाधा च स्वगृहे च भयं तथा ।नानारोगभयं चैव गृहक्षेत्रादिनाशनम्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमसप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति ।दोषस्योपशमनार्थं सूर्यप्रीतिं च कारयेत्‌ ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमशुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे ।स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेन संयुते ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमशुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते ।तद्भुक्तौ वाहनादीनां लाभो गेहे महत्सुखम्‌ ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियममहाराजप्रसादेन गजान्तैश्वर्यमादिशेत्‌ ।महानदीस्नानपुण्यं देवब्राह्मणपूजनम्‌ ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमगीतवाद्यप्रसंगादि विद्वज्जनविभूषणम्‌ ।गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम्‌ ॥ 22 ॥
  23. श्लोक 23कुंडली के 2 नियमभोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम्‌ ।नीचे वास्तंगते वापि षष्ठाष्टव्ययराशिगे ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमदायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे ।तत्काले धननाशः स्यात्‌ संचरेच्च महद्भयम्‌ ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमदेहायासो मनस्तापो राजद्वारे विरोधकृत्‌ ।विदेशगमनं चैव तीर्थयात्रादिकं फलम्‌ ॥ 25 ॥
  26. श्लोक 26कुंडली के 2 नियमदारपुत्रादि पीडा च निजबन्धुवियोगकृत्‌ ।दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽथवा ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमराजप्रीतिकरं चैव देशग्रामाधिपत्यकम् ।धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमकूपारामतडागादि निर्माणं धनसंग्रहः ।भुक्त्यादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत्‌ ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमशुक्रस्यान्तर्गते भौमे लग्नात्केन्द्र त्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमलग्नाधिपेन संयुक्ते भाग्यकर्मेशसंयुते ।तद्भुक्तौ राजयोगादि सम्पदं शोभनां वदेत्‌ ॥ 30 ॥
  31. श्लोक 31कुंडली के 2 नियमवस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा ।तथाष्टमे व्यये वापि दायेशाद्‌ वा तथैव च ॥ 31 ॥
  32. श्लोक 32कुंडली के 1 नियमशीतज्वरादि पीडा च पितृमातृ भयावहा ।ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमस्वबन्धुजनहानिश्च कलहो राजविग्रहः ।राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ 33 ॥
  34. श्लोक 34कुंडली के 2 नियमव्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत्‌ ।द्वितीयद्यूननाथे तु देहबाधा भविष्यति ॥ 34 ॥
  35. श्लोक 35दोषस्य परिहारार्थं भौमशान्तिं चरेद्‌ बुधः ।अनड्वाहं प्रदद्यात्तु भैरवस्यार्चनं चरेत्‌ ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमशुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमतद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत्‌ ।इष्टबन्धुसमाकीर्णं भवनं च समादिशेत्‌ ॥ 37 ॥
  38. श्लोक 38कुंडली के 1 नियमयातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः ।लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ 38 ॥
  39. श्लोक 39कुंडली के 1 नियमशत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा ।भुक्त्यादौ पंचमासांश्च विरामे ज्वरपित्तकृत् ॥ 39 ॥
  40. श्लोक 40कुंडली के 1 नियमकार्यविघ्नमवाप्नोति संचरे च मनोव्यथा ।परं सुखं च सौभाग्यं महाराज इवाश्नुते ॥ 40 ॥
  41. श्लोक 41कुंडली के 1 नियमनैर्ऋतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम्‌ ।यातुः कार्यार्थसिद्धिः स्यात्‌ स्वदेशे पुनरेष्यति ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमउपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् ।दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमअशुभं लभते कर्मपितृमातृजनावधि ।सर्वत्रजनविद्वेषं नानारूपं द्विजोत्तम ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमद्वितीये सप्तमे वापि देहालस्यं विनिर्दिशेत्‌ ॥तद्दोषपरिहारार्थं मृत्युंजयमनुं जपेत्‌ ॥ 44 ॥
  45. श्लोक 45कुंडली के 1 नियमशुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमनष्टराज्यधनप्राप्तिमिष्टार्थाम्बरसम्पदम्‌ ।मित्रप्रभोश्च सम्मानं धनधान्यं लभेन्नरः ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमराजसम्मानकीर्तिं च ह्यश्वान्दोलादिलाभकृत्‌ ।विद्वत्प्रभुसमाकीर्णं शास्त्राधिकपरिश्रमम्‌ ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमपुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम्‌ ।पितृमातृसुखावाप्तिं पुत्रादि सौख्यमादिशेत्‌ ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमदायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते ।राजचौरादिपीडा च देहपीडा भविष्यति ॥ 49 ॥
  50. श्लोक 50कुंडली के 1 नियमआत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा ।स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात्‌ ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमद्वितीयसप्तमाधीशे देहबाधा भविष्यति ।तद्दोषपरिहारार्थं महामृत्युंजयं जपेत्‌ ॥ 51 ॥
  52. श्लोक 52कुंडली के 1 नियमशुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे ।स्वर्क्षकेन्द्रत्रिकोणस्थे तुंगांशे स्वांशगेऽपि वा ॥ 52 ॥
  53. श्लोक 53कुंडली के 1 नियमतद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः ।राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ 53 ॥
  54. श्लोक 54कुंडली के 2 नियमपुण्यतीर्थफलावाप्तिर्दानधर्मादिपुण्यकृत्‌ ।स्वप्रभोश्च फलावाप्तिः नीचस्थे क्लेशभाग्भवेत्‌ ॥ 54 ॥
  55. श्लोक 55कुंडली के 2 नियमदेहालस्यमवाप्नोति तथायादधिकव्ययम्‌ ।तथाष्टमे व्यये मन्दे दायेशाद्‌ वा तथैव च ॥ 55 ॥
  56. श्लोक 56कुंडली के 1 नियमभुक्त्यादौ विविधा पीडा पितृमातृजनावधि ।दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ 56 ॥
  57. श्लोक 57कुंडली के 2 नियमव्यवसायात्‌ फलं नेष्टं गोमहिष्यादिहानिकृत्‌ ।द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ 57 ॥
  58. श्लोक 58तद्दोषपरिहारार्थं तिलहोमं चरेद्‌ बुधः ।मृत्युंजयजपं कुर्याच्चण्डीपाठमथापि वा ॥ 58 ॥
  59. श्लोक 59कुंडली के 1 नियमशुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभे त्रिकोणके ।स्वोच्चे स्वक्षेत्रगे वापि राजप्रीतिकरं शुभम्‌ ॥ 59 ॥
  60. श्लोक 60कुंडली के 1 नियमसौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः ॥पुराणधर्मश्रवणं शृंगारिजनसंगमः ॥ 60 ॥
  61. श्लोक 61कुंडली के 1 नियमइष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम्‌ ।स्वप्रभोश्च महासौख्यं नित्यं मिष्ठान्नभोजनम्‌ ॥ 61 ॥
  62. श्लोक 62कुंडली के 1 नियमदायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत्‌ ॥ 62 ॥
  63. श्लोक 63कुंडली के 1 नियमपरगेहनिवासश्च मनोवैकल्यसम्भवः ।व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ 63 ॥
  64. श्लोक 64कुंडली के 1 नियमभुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत्‌ ।अन्ते क्लेशकरं चैव शीतवातज्वरादिकम्‌ ॥ 64 ॥
  65. श्लोक 65कुंडली के 1 नियमसप्तमाधीशदोषेण देहपीडा भविष्यति ।तद्दोष परिहारार्थं विष्णुसाहस्रकं जपेत्‌ ॥ 65 ॥
  66. श्लोक 66कुंडली के 1 नियमशुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽथवा ।योगकारक सम्बन्धे स्थानवीर्यसमन्विते ॥ 66 ॥
  67. श्लोक 67कुंडली के 1 नियमभुक्त्यादौ शुभमाधिक्यं नित्यं मिष्टान्नभोजनम्‌ ।व्यवसायात्फलाधिक्यं गोमहिष्यादि लाभकृत्‌ ॥ 67 ॥
  68. श्लोक 68कुंडली के 1 नियमधनधान्यसमृद्धिश्च संग्रामे विजयी भवेत्‌ ।भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम्‌ ॥ 68 ॥
  69. श्लोक 69कुंडली के 2 नियममध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत्‌ ।दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ 69 ॥
  70. श्लोक 70कुंडली के 1 नियमचौराहिव्रणपीडा च बुद्धिनाशो महद्भयम्‌ ॥शिरोरुजं मनस्तापमकर्मकलहं वदेत्‌ ॥ 70 ॥
  71. श्लोक 71कुंडली के 1 नियमप्रमेहरोगपीडा च नानामार्गे धनव्ययः ।भार्यापुत्रविरोधश्च गमनं कार्यनाशनम्‌ ॥ 71 ॥
  72. श्लोक 72कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहबाधा भविष्यति ।तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत्‌ ॥ 72 ॥
  73. श्लोक 73छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम्‌ ।शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात्‌ ॥ 73 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।