अध्याय 61: केत्वन्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 61 (Ketu Antardasha Phal)

78 श्लोक

  1. श्लोक 1कुंडली के 1 नियमकेन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते ।भाग्यकर्मपसम्बन्धे वाहनेशसमन्विते ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमतद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत्‌ ।पुत्रदारादि सौख्यं च राजप्रीतिमनोरुजः ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम्‌ ।नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमहृद्रोगो मानहानिश्च धनधान्यपशुक्षयः ।दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमद्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते ।अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत्‌ ॥ 5 ॥
  6. श्लोक 6दुर्गादेवीजपं कुर्यान्मृत्युंजयजपं चरेत् ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमकेतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ।केन्द्रत्रिकोण लाभे वा राज्यनाथेन संयुते ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमराजप्रीतिं च सौभाग्यं दिशेत्स्वाम्बरसंकुलम्‌ ।तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमनष्टराज्यधन प्राप्तिः सुखवाहनमुत्तमम्‌ ।सेतुस्नानादिकं चैव ग्रामभूम्यादिलाभकृत्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।देहारोग्यं सुखं चैव गृहे कल्याणवर्धनम्‌ ॥ 10 ॥
  11. श्लोक 11कुंडली के 2 नियमभोजनाम्बरभूषाप्तिरथदोलादिलाभकृत्‌ ।दायेशाद्‌ रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 11 ॥
  12. श्लोक 12कुंडली के 2 नियमअकस्मात्कलहं चैव पशुधान्यादिपीडनम्‌ ।नीचस्थखेट संयुक्ते लग्नात्षष्ठाष्टराशिगे ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमस्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम्‌ ।हृद्रोगं मानहानिश्च धनधान्यपशुक्षयम्‌ ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियमकलत्रपुत्रपीडाथ मारकेशे मनोरुजम्‌ ।देहपीडा ततो दुर्गादेवीजपं समाचरेत्‌ ॥श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमकेतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमधनधान्यादि लाभश्च राजानुग्रह वैभवम्‌ ।अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमअष्टमव्ययराशिस्थे पापग्रहसमन्विते ।तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमविदेशगमनं चैव चौराहिविषपीडनम्‌ ।राजमित्रविरोधश्च राजदण्डाद्‌ धनक्षयः ॥ 18 ॥
  19. श्लोक 19कुंडली के 2 नियमशोकरोगभयं चैव तापाधिक्यं ज्वरो भवेत्‌ ।दायेशात्केन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमदेहसौख्यं चार्थलाभः पुत्रलाभो मनोदृढम्‌ ।सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक्‌ ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमदायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते ।अन्नविघ्नो मनोभीतिर्धनधान्यपशुक्षयः ॥ 21 ॥
  22. श्लोक 22कुंडली के 2 नियमआदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत्‌ ।द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ 22 ॥
  23. श्लोक 23तस्य शान्तिं प्रकुर्वीत स्वर्णधेनुं प्रदापयेत्‌ ।भास्करस्य प्रसादेन ततः सौख्यमवाप्नुयात्‌ ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमकेतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमराजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम्‌ ।महाराजप्रसादेन गृहभूम्यादि लाभकृत्‌ ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमभोजनाम्बरपश्वादि व्यवसायेऽधिकं फलम्‌ ।अश्ववाहनलाभश्च वस्त्राभरणभूषणम्‌ ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमदेवालयतडागादि पुण्यधर्मादि संग्रहम्‌ ।पुत्रदारादि सौख्यं च पूर्णं चन्द्रः प्रयच्छति ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमक्षीणे वा नीचगे चन्द्रे षष्ठाष्टव्ययराशिगे ।आत्मसौख्यं मनस्तापः कार्यविघ्नं महद्‌भयम्‌ ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमपितृमातृवियोगं च देहजाड्यं मनोव्यथाम्‌ ।व्यवसायात्फलं नेष्टं पशुनाशं च यच्छति ॥ 29 ॥
  30. श्लोक 30कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।कृषिगोभूमिलाभं च स्वेष्टबन्धुसमागमम्‌ ॥ 30 ॥
  31. श्लोक 31कुंडली के 1 नियमतस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च ।भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम्‌ ॥ 31 ॥
  32. श्लोक 32कुंडली के 1 नियमअन्ते च राजभीतिं च विदेशगमनं तथा ।दूरयात्रादिसंचारं सम्बन्धिजनपूजनम् ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमदायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते ।धनधान्यादिहानिश्च मनोव्याकुलमेव च ॥ 33 ॥
  34. श्लोक 34कुंडली के 2 नियमस्वबन्धुजनवैरं च आंत्रपीडा तथैव च ।निधनाधिपदोषेण मारकेशेन संयुते ॥ 34 ॥
  35. श्लोक 35कुंडली के 1 नियमअपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि ।चन्द्रप्रीतिकरं चैव ह्यायुरारोग्यसिद्धये ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमकेतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे स्वक्षेत्रगे वापि शुभग्रहयुतेक्षिते ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमआदौ शुभफलं चैव ग्रामभूम्यादि लाभकृत्‌ ।धनधान्यादि लाभश्च चतुष्पाज्जीवलाभकृत्‌ ॥ 37 ॥
  38. श्लोक 38कुंडली के 2 नियमगृहारामक्षेत्रलाभो राजानुग्रहवैभवम्‌ ।भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ 38 ॥
  39. श्लोक 39कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।राजप्रीतियशोलाभः पुत्रमित्रादि सौख्यकृत्‌ ॥ 39 ॥
  40. श्लोक 40कुंडली के 1 नियमतथाष्टमे व्यये भौमे दायेशाद्धनगेऽपि वा ।द्रुतं करोति मरणं विदेशे चापदं भ्रमम्‌ ॥ 40 ॥
  41. श्लोक 41कुंडली के 1 नियमप्रमेहमूत्रकृच्छ्रादि चौरादिनृपपीडनम्‌ ।कलहादिव्यथायुक्तं किंचित्सुखविवर्धनम्‌ ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमद्वितीयद्यूननाथे तु तापज्वरविषाद्भयम्‌ ।दारपीडा मनःक्लेशमपमृत्युभयं भवेत्‌ ॥ 42 ॥
  43. श्लोक 43अनड्वाहं प्रदद्यात्‌ तु सर्वसम्पत्सुखावहम्‌ ।ततः शान्तिमवाप्नोति भौमदेव प्रसादतः ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमकेतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे ।केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंगते ॥ 44 ॥
  45. श्लोक 45कुंडली के 1 नियमतत्काले धनलाभः स्याद्ग्रामभूम्यादिलाभकृत् ।चतुष्पाज्जीवलाभः स्यात्संचारो भवति ध्रुवम् ॥ 45 ॥
  46. श्लोक 46कुंडली के 1 नियमम्लेच्छप्रभुवशात्सौख्यं धनधान्यफलादिकम् ।भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमरन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते ।बहुमूत्रं कृशं देहं शीतज्वर विषाद्भयम्‌ ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमचातुर्थिक ज्वरं चैव क्षुद्रोपद्रवपीडनम्‌ ।अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत्‌ ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमद्वितीय सप्तमस्थे वा तदा क्लेशं महद्भयम्‌ ।तद्दोषपरिहारार्थं दुर्गपाठं समाचरेत्‌ ॥ 49 ॥
  50. श्लोक 50कुंडली के 1 नियमकेतोरन्तर्गते जीवे केन्द्रे लाभे त्रिकोणगे ।स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमकर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम्‌ ।राजप्रीतिं तथोत्साहमश्वान्दोल्यादिकं वदेत्‌ ॥ 51 ॥
  52. श्लोक 52कुंडली के 1 नियमगृहे कल्याणसम्पत्तिं पुत्रलाभमहत्सुखम् ।पुण्यतीर्थमहोत्साहं सत्कर्म च महोत्सवम् ॥ 52 ॥
  53. श्लोक 53कुंडली के 1 नियमइष्टदेवप्रसादेन विजयं कार्यलाभकृत्‌ ।राजसंलापकार्याणि नूतनप्रभुदर्शनम्‌ ॥ 53 ॥
  54. श्लोक 54कुंडली के 1 नियमषष्ठाष्टम व्यये जीवे दायेशान्नीचगेऽपि वा ।चौराहिव्रणभीतिं च धनधान्यादिनाशनम्‌ ॥ 54 ॥
  55. श्लोक 55कुंडली के 1 नियमपुत्रदारावियोगं च त्वतीव क्लेशसम्भवम्‌ ।आदौ शुभफलं चैव विरामे क्लेशकारणम्‌ ॥ 55 ॥
  56. श्लोक 56कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम्‌ ॥ 56 ॥
  57. श्लोक 57कुंडली के 1 नियमदूरदेशप्रयाणं च स्वबन्धुजनपोषणम्‌ ।भोजनाम्बर पश्वादि भुक्त्यादौ देहपीडनम्‌ ॥ 57 ॥
  58. श्लोक 58कुंडली के 2 नियमअन्तेतु स्थान चलनमकस्मात्कलहो भवेत्‌ ।द्वितीय द्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 58 ॥
  59. श्लोक 59तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत्‌ ।महामृत्युंजयं जाप्यं सर्वोपद्रवनाशनम्‌ ॥ 59 ॥
  60. श्लोक 60केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् ।बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ 60 ॥
  61. श्लोक 61राजकार्यकलापेन धननाशो महद्भयम्‌ ।स्थानच्युतिः प्रवासश्च मार्गे चौरभयं भवेत्‌ ॥ 61 ॥
  62. श्लोक 62कुंडली के 2 नियमआलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ।मीन त्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ 62 ॥
  63. श्लोक 63कुंडली के 1 नियमकेन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके ॥शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम्‌ ॥ 63 ॥
  64. श्लोक 64कुंडली के 1 नियमस्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम्‌ ।स्वग्रामे सुखसम्पत्तिः स्ववर्गेराजदर्शनम्‌ ॥ 64 ॥
  65. श्लोक 65कुंडली के 1 नियमदायेशात्षष्ठरिःफे वा ह्यष्टमे पापसंयुते ।देहतापो मनस्तापः कार्ये विघ्नो महद्भयम्‌ ॥ 65 ॥
  66. श्लोक 66कुंडली के 2 नियमआलस्यं मानहानिश्च पितृमात्रोर्विनाशनम्‌ ।द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत्‌ ॥ 66 ॥
  67. श्लोक 67तद्दोषपरिहारार्थं तिलहोमं च कारयेत्‌ ।कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 67 ॥
  68. श्लोक 68कुंडली के 1 नियमकेतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।स्वोच्चे स्वक्षेत्रसंयुते राज्यलाभो महासुखम्‌ ॥ 68 ॥
  69. श्लोक 69कुंडली के 1 नियमसत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा ।भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ 69 ॥
  70. श्लोक 70कुंडली के 1 नियमअयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति ।गृहे शुभकरं कर्म वस्त्राभरणभूषणम्‌ ॥ 70 ॥
  71. श्लोक 71कुंडली के 1 नियमभाग्य कर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा ।विद्वद्गोष्ठी कथाभिश्च कालक्षेपो भविष्यति ॥ 71 ॥
  72. श्लोक 72कुंडली के 1 नियमषष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते ।विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ 72 ॥
  73. श्लोक 73कुंडली के 1 नियमवाहनाम्बर पश्वादिधनधान्यादिनाशकृत्‌ ।भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ 73 ॥
  74. श्लोक 74कुंडली के 2 नियमअन्ते क्लेशकरं चैव दारपुत्रादिपीडनम्‌ ।दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ 74 ॥
  75. श्लोक 75कुंडली के 1 नियमदेहारोग्यं महालाभः पुत्रकल्याणवैभवम्‌ ।भोजनाम्बर पश्वादि व्यवसायेऽधिकं फलम्‌ ॥ 75 ॥
  76. श्लोक 76कुंडली के 1 नियमदायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम्‌ ॥ 76 ॥
  77. श्लोक 77कुंडली के 2 नियमराजभीतिकरश्चैव मध्ये तीर्थकरो भवेत्‌ ।द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 77 ॥
  78. श्लोक 78तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्‌ ।ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ 78 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।