अध्याय 60: बुधान्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 60 (Budh Antardasha Phal)

72 श्लोक

  1. श्लोक 1कुंडली के 1 नियममुक्ताविद्रुमलाभश्चज्ञानकर्मसुखादिकम्‌ ।विद्या महत्वं कीर्तिश्च नूतनप्रभुदर्शनम्‌ ॥ 1 ॥
  2. श्लोक 2कुंडली के 2 नियमविभवं दारपुत्रादि पितृमातृसुखावहम्‌ ।स्वोच्चादिस्थेऽथ नीचस्थे षष्ठाष्टव्ययराशिगे ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमपापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः ।आत्मबन्धुविरोधश्च शूलरोगादिसम्भवः ॥ 3 ॥
  4. श्लोक 4कुंडली के 2 नियमराजकार्यकलापेन व्याकुलो भवति ध्रुवम्‌ ।द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमआत्मसम्बन्धिमरणं वातशूलादिसम्भवः ।तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्‌ ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमबुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे ।शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमयोगकारकसम्बन्धेदायेशात्केन्द्रलाभगे ।देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत्‌ ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमचतुष्पाज्जीवलाभः स्यात्‌ संचारेण धनागमः ।विद्याकीर्तिप्रसंगश्च सम्मानप्रभुदर्शनम्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 2 नियमभोजनाम्बर सौख्यं च ह्यादौ मध्ये सुखावहम्‌ ।दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमवाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः ।चौरादि राजभीतिश्च पापकर्मरतः सदा ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमवृश्चिकादि विषाद्‌ भीतिर्नीचैः कलहसम्भवः ।शोकरोगादि दुःखं च नीचसंगादिकं भवेत्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमद्वितीय द्यूननाथेन सम्बन्धे देहबाधनम्‌ ।दोषस्यपरिहारार्थं छागदानं तु कारयेत्‌ ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमसौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे ।सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियममित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत्‌ ।दायाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमतत्काले श्रियमाप्नोति राजश्रीधनसम्पदः ।वापीकूपतडागादि दानधर्मादिसंग्रहः ॥ 15 ॥
  16. श्लोक 16कुंडली के 2 नियमव्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत्‌ ।दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमहृद्रोगो मानहानिश्च ज्वरातिसारपीडनम्‌ ।आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 2 नियमआत्मकष्टमनस्तापदायकं द्विजसत्तम ।द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 18 ॥
  19. श्लोक 19दोषस्योपशमनार्थं दुर्गपाठं समाचरेत्‌ ।जगदम्बाप्रसादेन सर्वसौख्यमवाप्नुयात्‌ ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमसौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।त्रिकोणे धनलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ 20 ॥
  21. श्लोक 21कुंडली के 2 नियमराजप्रासादसौभाग्यं मित्रप्रभुवशात्सुखम्‌ ।भूम्यात्मजेनसंदृष्टे आदौ भूलाभमादिशेत्‌ ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमलग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम्‌ ।ग्रामभूम्यादिलाभश्च भोजनाम्बरसौख्यकृत्‌ ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियमलग्नाष्टमव्यये वापि शन्यारफणिसंयुते ।दायेशाद्‌ रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमचौराग्निशस्त्रपीडा च पित्ताधिक्यं भविष्यति ।शिरोरुङ्मनसस्ताप इष्टबन्धु वियोगकृत् ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियमद्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमसौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥ 26 ॥
  27. श्लोक 27कुंडली के 1 नियमयोगस्थानाधिपत्येन योग प्राबल्यमादिशेत्‌ ।स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम्‌ ॥ 27 ॥
  28. श्लोक 28कुंडली के 1 नियमनूतनालयलाभं च नित्यं मिष्टान्न भोजनम्‌ ।गीतवाद्यप्रसंगे च शस्त्रविद्यापरिश्रमम्‌ ॥ 28 ॥
  29. श्लोक 29कुंडली के 1 नियमदक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति ।द्वीपान्तराच्चवस्त्राणां लाभश्चैव भविष्यति ॥ 29 ॥
  30. श्लोक 30कुंडली के 2 नियममुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत्‌ ।नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥ 30 ॥
  31. श्लोक 31कुंडली के 1 नियमदायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ।तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥ 31 ॥
  32. श्लोक 32कुंडली के 2 नियममनोधैर्यं हृदुत्साहो विदेशाद्‌ धनलाभकृत्‌ ।दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥ 32 ॥
  33. श्लोक 33कुंडली के 1 नियमचौराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत्‌ ।दुष्कृतिर्धनहानिश्च कृषिगोऽश्वादिनाशकृत्‌ ॥ 33 ॥
  34. श्लोक 34कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहबाधा भविष्यति ।तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत्‌ ॥ 34 ॥
  35. श्लोक 35वस्त्रदानं प्रकुर्वीत सुखायुर्वृद्धिकृत्‌ पुमान्‌ ।ततः सौख्यं भवेत्तस्य जगदम्बाप्रसादतः ॥ 35 ॥
  36. श्लोक 36कुंडली के 1 नियमसौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥ 36 ॥
  37. श्लोक 37कुंडली के 1 नियमराजानुग्रहशान्तिं च गृहे कल्याणसम्भवम्‌ ।लक्ष्मी कटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात्‌ ॥ 37 ॥
  38. श्लोक 38कुंडली के 1 नियमपुत्रोत्सवादि सन्तोषं गृहं गोधनसंकुलम्‌ ।गृहक्षेत्रादि लाभं च गजवाजि समन्वितम्‌ ॥ 38 ॥
  39. श्लोक 39कुंडली के 1 नियमराजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् ।नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥ 39 ॥
  40. श्लोक 40कुंडली के 1 नियमपापदृष्टियुते वापि देहपीडा मनोव्यथा ।उद्योगभंगो देशादौ स्वग्रामे धान्यनाशनम्‌ ॥ 40 ॥
  41. श्लोक 41कुंडली के 2 नियमग्रन्थिशस्त्रव्रणादीनां भयं तापज्वरादिकम्‌ ।दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽथवा ॥ 41 ॥
  42. श्लोक 42कुंडली के 1 नियमशुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेन्नृणाम्‌ ।पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥ 42 ॥
  43. श्लोक 43कुंडली के 1 नियमदायेशादथरन्ध्रस्थे व्यये वा पापसंयुते ।तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम्‌ ॥ 43 ॥
  44. श्लोक 44कुंडली के 1 नियमनृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम्‌ ।स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥ 44 ॥
  45. श्लोक 45कुंडली के 2 नियमअन्ते तु राजभीतिः स्यात्स्थानभ्रंशो यथापि वा ।द्वितीय द्यूननाथे तु ह्यपमृत्युभयं भवेत्‌ ॥ 45 ॥
  46. श्लोक 46गोदानं च प्रकुर्वीत मृत्युंजयजपं चरेत् ।शंकरस्य प्रसादेन ततः सौख्यमवाप्नुयात् ॥ 46 ॥
  47. श्लोक 47कुंडली के 1 नियमबुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणके ।कुलीरे कुम्भगे वापि कन्यायां वृषभे तथा ॥ 47 ॥
  48. श्लोक 48कुंडली के 1 नियमराजसम्मानकीर्तिं च धनं च प्रभविष्यति ।पुण्यतीर्थ स्नान लाभो देवतादर्शनं तथा ॥ 48 ॥
  49. श्लोक 49कुंडली के 1 नियमइष्टापूर्ते च महतो मानश्चाम्बर लाभकृत्‌ ।भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत्‌ ॥ 49 ॥
  50. श्लोक 50कुंडली के 1 नियमलग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम्‌ ।भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत्‌ ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमलग्नादुपचये राहौ शुभग्रहसमन्विते ।राजसंलापसन्तोषो नूतनप्रभुदर्शनम्‌ ॥ 51 ॥
  52. श्लोक 52कुंडली के 1 नियमदायेशाद्‌ द्वादशे वापि ह्यष्टमे पापसंयुते ।निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम्‌ ॥ 52 ॥
  53. श्लोक 53कुंडली के 1 नियमबन्धनं रोगपीडा च निजबन्धुमनोव्यथा ।हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥ 53 ॥
  54. श्लोक 54कुंडली के 1 नियमद्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत्‌ ॥ 54 ॥
  55. श्लोक 55श्वेतां गां महिषीं दद्यात्‌ ततः सौख्यमवाप्नुयात्‌ ॥ 55 ॥
  56. श्लोक 56कुंडली के 1 नियमबुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥ 56 ॥
  57. श्लोक 57कुंडली के 1 नियमदेहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च ।विवाहोत्सव कार्याणि नित्यं मिष्ठान्नभोजनम्‌ ॥ 57 ॥
  58. श्लोक 58कुंडली के 1 नियमगोमहिष्यादि लाभश्च पुराणश्रवणादिकम्‌ ।देवतागुरुभक्तिश्च दानधर्ममखादिकम्‌ ॥ 58 ॥
  59. श्लोक 59कुंडली के 2 नियमयज्ञकर्मप्रवृद्धिश्च शिवपूजा फलं तथा ।नीचे वास्तंगते वापि षष्ठाष्टव्ययराशिगे ॥ 59 ॥
  60. श्लोक 60कुंडली के 1 नियमशन्यारदृष्टसंयुक्ते कलहो राजविग्रहः ।चौरादि देहपीडा च पितृमातृविनाशनम्‌ ॥ 60 ॥
  61. श्लोक 61कुंडली के 1 नियममानहानिः राजदण्डो धनहानिर्भविष्यति ।विषाहिज्वरपीडा च कृषिभूमिविनाशनम्‌ ॥ 61 ॥
  62. श्लोक 62कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम्‌ ॥ 62 ॥
  63. श्लोक 63कुंडली के 2 नियमपशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम्‌ ।दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥ 63 ॥
  64. श्लोक 64कुंडली के 1 नियमअंगतापश्च वैकल्यं देहबाधा भविष्यति ।कलत्रबन्धुवैषम्यं राजकोपोधनक्षयः ॥ 64 ॥
  65. श्लोक 65कुंडली के 2 नियमअकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् ।द्वितीय सप्तमस्थे वा देहबाधा भविष्यति ॥ 65 ॥
  66. श्लोक 66दोषस्य परिहारार्थं शिवसाहस्रकं जपेत्‌ ।गोभूहिरण्यदानेन सर्वारिष्टं व्यपोहति ॥ 66 ॥
  67. श्लोक 67कुंडली के 1 नियमसौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्र केन्द्रगे ।त्रिकोणे लाभगे वापि गृहे कल्याणवर्धनम्‌ ॥ 67 ॥
  68. श्लोक 68कुंडली के 1 नियमराज्यलाभं महोत्साहं गृहे गोधनसंकुलम्‌ ।शुभस्थानफलावाप्तिं तीर्थवासं तथादिशेत्‌ ॥ 68 ॥
  69. श्लोक 69कुंडली के 1 नियमअष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ।अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम्‌ ॥ 69 ॥
  70. श्लोक 70कुंडली के 1 नियमबुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ।विदेशगमनं चैव दुःस्वप्नादिविलोकनम्‌ ॥ 70 ॥
  71. श्लोक 71कुंडली के 1 नियमद्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत्‌ ॥ 71 ॥
  72. श्लोक 72कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 72 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।