अध्याय 59: शन्यन्तर्दशाफलाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 59 (Shani Antardasha Phal)

80 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए

  1. श्लोक 1कुंडली के 1 नियममूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा ।केन्द्रत्रिकोणे लाभे वा राजयोगादिसंयुते ॥ 1 ॥
  2. श्लोक 2कुंडली के 1 नियमराज्यलाभो महत्सौख्यं दारपुत्रादि वर्धनम्‌ ।वाहन त्रयसंयुक्तं गजाश्वाम्बर संकुलम्‌ ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियममहाराजप्रसादेन सेनापत्यादि लाभकृत्‌ ।चतुष्पाज्जीवलाभः स्यात्‌ ग्रामभूम्यादिलाभकृत्‌ ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमतथाष्टमे व्यये मन्दे नीचे वा पापसंयुते ।तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम्‌ ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमरक्तस्रावो गुल्मरोगो ह्यतिसारादिपीडनम्‌ ।मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥ 5 ॥
  6. श्लोक 6कुंडली के 2 नियमअन्ते शुभकरी चैव शनेरन्तर्दशा द्विज ! ।द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 6 ॥
  7. श्लोक 7दोषस्य परिहारार्थं मृत्युंजयमनुं जपेत्‌ ।तस्माच्छान्तिमवाप्नोति शंकरस्य प्रसादतः ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियममन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा ।सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमस्वदेशे सुखमाप्नोति वाहनादि फलैर्युतम्‌ ।यज्ञादिकर्मसिद्धिश्च राजयोगादि सम्भवम्‌ ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमदेहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम्‌ ।सेतुस्नान फलावाप्तिस्तीर्थयात्रादिकर्मणा ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमवाणिज्याद्‌ धनलाभश्च पुराणश्रवणादिकम्‌ ।अन्नदानं फलं चैव नित्यं मिष्ठान्नभोजनम्‌ ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमषष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति ।रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमनृपाभिषेकसम्प्राप्तिर्देशग्रामाधिपत्यकम्‌ ।फलमीदृशमादौ तु मध्यान्ते रोगपीडनम्‌ ॥ 13 ॥
  14. श्लोक 14कुंडली के 2 नियमनष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम्‌ ।द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ 14 ॥
  15. श्लोक 15तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत्‌ ।अन्नदानं प्रकुर्वीत ततः सौख्यमवाप्नुयात्‌ ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियममन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते ।स्वोच्चे वा शुभ राशिस्थे योगकारक संयुते ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमकेन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम्‌ ।दरिद्रबन्धनभीतिः पुत्रदारादिनाशनम्‌ ॥ 17 ॥
  18. श्लोक 18कुंडली के 2 नियमस्वप्रभोश्च महाकष्टं विदेशगमनं तथा ।लग्नाधिपेन संयुक्ते पूर्वं सौख्यं धनागमः ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा तृतीयभव राशिगे ।समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमतथाष्टमे व्यये केतौ दायेशाद्वा तथैव च ।अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम्‌ ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमशीतज्वरातिसारश्च व्रणचौरादि पीडनम्‌ ।दारपुत्र वियोगश्च जनानां भवति ध्रुवम्‌ ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियमद्वितीय द्यूनराशिस्थे देहपीडा भविष्यति ।छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम्‌ ॥ 22 ॥
  23. श्लोक 23कुंडली के 1 नियममन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।केन्द्रे वा शुभसंयुक्ते त्रिकोणे लाभगेऽपि वा ॥ 23 ॥
  24. श्लोक 24कुंडली के 1 नियमदारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः ।गृहे कल्याणसम्पत्ती राज्यलाभो महत्सुखम्‌ ॥ 24 ॥
  25. श्लोक 25कुंडली के 1 नियममहाराजप्रसादेन हीष्टसिद्धिः सुखावहा ।सम्मानं प्रभुसम्मानं प्रियवस्त्रादि लाभकृत् ॥ 25 ॥
  26. श्लोक 26कुंडली के 1 नियमद्वीपान्तराद्‌ वस्त्रलाभः श्वेताश्वो महिषी तथा ।गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥ 26 ॥
  27. श्लोक 28कुंडली के 1 नियमदारनाशो मनःक्लेशः स्थाननाशो मनोरुजः ।दाराणां स्वजनक्लेशः सन्तापो जनविग्रहः ॥ 28 ॥
  28. श्लोक 29कुंडली के 1 नियमदायेशाद्‌ भाग्यगे चैव केन्द्रे वा लाभसंयुते ।राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम्‌ ॥ 29 ॥
  29. श्लोक 30कुंडली के 1 नियमदानधर्मदयायुक्तं तीर्थयात्रादिकं फलम्‌ ।शास्त्रार्थकाव्यरचनां वेदान्त श्रवणादिकम्‌ ॥ 30 ॥
  30. श्लोक 31कुंडली के 2 नियमदारपुत्रार्थ सौख्यं च लभते नात्र संशयः ।दायेशाद्‌ व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥ 31 ॥
  31. श्लोक 32कुंडली के 1 नियमनेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः ।कपोले दन्तशूलादि हृदिगुह्ये च पीडनम्‌ ॥ 32 ॥
  32. श्लोक 33कुंडली के 1 नियमजलभीतिर्मनस्तापो वृक्षात्पतन सम्भवः ।राजद्वारे जनद्वेषः सोदरेण विरोधनम्‌ ॥ 33 ॥
  33. श्लोक 34कुंडली के 1 नियमद्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति ।तद्दोष परिहारार्थं दुर्गादेवीजपं चरेत्‌ ॥ 34 ॥
  34. श्लोक 35श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ।जगदम्बा प्रसादेन ततः सुखमवाप्नुयात्‌ ॥ 35 ॥
  35. श्लोक 36कुंडली के 1 नियममन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥ 36 ॥
  36. श्लोक 37कुंडली के 1 नियमशुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम्‌ ।गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्धनम्‌ ॥ 37 ॥
  37. श्लोक 38कुंडली के 2 नियमवाहनाम्बर पश्वादि गोक्षीरैः संकुलं गृहम्‌ ।लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥ 38 ॥
  38. श्लोक 39कुंडली के 1 नियमहृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा ।इष्टबन्धुवियोगश्च परिश्रमविनाशनम्‌ ॥ 39 ॥
  39. श्लोक 40कुंडली के 1 नियमतापज्वरादिपीडा च व्याकुलत्वं भयं तथा ।आत्मसम्बन्धिमरणम्‌ इष्टवस्तु वियोगकृत्‌ ॥ 40 ॥
  40. श्लोक 41कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहबाधा भविष्यति ।तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत्‌ ॥ 41 ॥
  41. श्लोक 42कुंडली के 1 नियममन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते ।स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥ 42 ॥
  42. श्लोक 43कुंडली के 1 नियमपूर्णे शुभग्रहयुक्ते राजप्रीतिसमागमः ।महाराजप्रसादेन वाहनाम्बरभूषणम्‌ ॥ 43 ॥
  43. श्लोक 44कुंडली के 1 नियमसौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् ।पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥ 44 ॥
  44. श्लोक 45कुंडली के 1 नियमक्षीणे वा पापसंयुक्ते पापदृष्टे च नीचगे ।क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥ 45 ॥
  45. श्लोक 46कुंडली के 1 नियमजातकस्य महत्कष्टं राजकोपो धनक्षयः ।पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत्‌ ॥ 46 ॥
  46. श्लोक 47कुंडली के 1 नियमव्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः ।अकाले भोजनं चैवमौषधस्य च भक्षणम्‌ ॥ 47 ॥
  47. श्लोक 48कुंडली के 2 नियमफलमेतद्विजानीयादादौ सौख्यं धनागमः ।दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥ 48 ॥
  48. श्लोक 49कुंडली के 1 नियमवाहनाम्बर पश्वादि भ्रातृवृद्धिः सुखावहा ।पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥ 49 ॥
  49. श्लोक 50कुंडली के 2 नियममित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम्‌ ।दायेशाद्‌ द्वादशे भावे रन्ध्रे वा बलवर्जिते ॥ 50 ॥
  50. श्लोक 51कुंडली के 1 नियमशयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् ।शत्रुवृद्धि विरोधश्च बन्धुद्वेषमवाप्नुयात् ॥ 51 ॥
  51. श्लोक 52कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहालस्यं भविष्यति ।तद्दोषशमनार्थं च तिल होमं समाचरेत्‌ ॥ 52 ॥
  52. श्लोक 53गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि ।श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ 53 ॥
  53. श्लोक 54कुंडली के 1 नियममन्दस्यान्तर्गते भौमे केन्द्रलाभ त्रिकोणगे ।तुंगे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ 54 ॥
  54. श्लोक 55कुंडली के 1 नियमलग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ।राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम्‌ ॥ 55 ॥
  55. श्लोक 56कुंडली के 1 नियमसेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः ।नूतन स्थाननिर्माणं भ्रातृवर्गेष्ट सौख्यकृत्‌ ॥ 56 ॥
  56. श्लोक 57कुंडली के 1 नियमनीचे चास्तंगते भौमे लग्नादष्टव्ययस्थिते ॥पाप दृष्टयुते चापि धनहानिर्भविष्यति ॥ 57 ॥
  57. श्लोक 58कुंडली के 1 नियमचौरादिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् ।भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥ 58 ॥
  58. श्लोक 59कुंडली के 1 नियमचतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम्‌ ।विदेशगमनं चैव नानामार्गे धनव्ययः ॥ 59 ॥
  59. श्लोक 60कुंडली के 1 नियमअष्टमद्यूननाथे तु द्वितीयस्थेऽथवा यदि ।अपमृत्युभयं चैव नानाकष्टं पराभवः ॥ 60 ॥
  60. श्लोक 61तद्दोषपरिहारार्थं शान्ति होमं च कारयेत्‌ ।वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम्‌ ॥ 61 ॥
  61. श्लोक 62मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा ।देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम्‌ ॥ 62 ॥
  62. श्लोक 63अर्थव्ययो राजभयं स्वजनादिविरोधिता ।विदेशगमनं चैव गृहक्षेत्रादिनाशनम्‌ ॥ 63 ॥
  63. श्लोक 64कुंडली के 1 नियमलग्नाधिपेन संयुक्ते योगकारकसंयुते ।स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥ 64 ॥
  64. श्लोक 65कुंडली के 1 नियमआदौ सौख्यं धनावाप्तिं गृहक्षेत्रादि सम्भवम्‌ ।देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत्‌ ॥ 65 ॥
  65. श्लोक 66कुंडली के 1 नियमचतुष्पाज्जीवलाभः स्याद्‌ गृहे कल्याणवर्धनम्‌ ।मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम्‌ ॥ 66 ॥
  66. श्लोक 67कुंडली के 1 नियममेषे कन्यागते वापि कुलीरे वृषभे तथा ।मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत्‌ ॥ 67 ॥
  67. श्लोक 68कुंडली के 2 नियमराजसम्मानभूषाप्तिं मृदुलाम्बरभूषणम्‌ ।द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥ 68 ॥
  68. श्लोक 69मृत्युंजयं प्रकुर्वीत छागदानं च कारयेत्‌ ।वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम्‌ ॥ 69 ॥
  69. श्लोक 70कुंडली के 1 नियममन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे ।लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ 70 ॥
  70. श्लोक 71कुंडली के 1 नियमसर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम्‌ ।महाराजप्रसादेन धनवाहनभूषणम्‌ ॥ 71 ॥
  71. श्लोक 72कुंडली के 1 नियमसम्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत्‌ ।देवतागुरुभक्तिश्च विद्वज्जन समागमः ॥ 72 ॥
  72. श्लोक 73कुंडली के 2 नियमदारपुत्रादि लाभश्च पुत्रकल्याणवैभवम्‌ ।षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥ 73 ॥
  73. श्लोक 74कुंडली के 1 नियमनिजसम्बन्धिमरणं धनधान्यविनाशनम्‌ ।राज्यस्थाने जनद्वेषः कार्यहानिर्भविष्यति ॥ 74 ॥
  74. श्लोक 75कुंडली के 2 नियमविदेशगमनं चैव कुष्ठरोगादिसम्भवः ॥ ।दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥ 75 ॥
  75. श्लोक 76कुंडली के 1 नियमविभवं दारसौभाग्यं राजश्रीधनसम्पदः ।भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत्‌ ॥ 76 ॥
  76. श्लोक 77कुंडली के 1 नियमब्रह्मप्रतिष्ठासिद्धिश्च क्रतुकर्मफलं तथा ॥अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम्‌ ॥ 77 ॥
  77. श्लोक 78कुंडली के 1 नियमदायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।बन्धुद्वेषो मनो दुःखं कलहः पदविच्युतिः ॥ 78 ॥
  78. श्लोक 79कुंडली के 1 नियमकुभोजनं कर्महानी राजदण्डाद्धनव्ययः ।कारागृहप्रवेशश्च पुत्रदारादिपीडनम्‌ ॥ 79 ॥
  79. श्लोक 80कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहबाधा मनोरुजः ।आत्मसम्बन्धिमरणं भविष्यति न संशयः ॥ 80 ॥
  80. श्लोक 81तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत्‌ ।स्वर्णदानं प्रकुर्वीत ह्यारोग्यं भवति ध्रुवम्‌ ॥ 81 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।