अध्याय 58: गुर्वन्तर्दशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 58 (Guru Antardasha Phal)
78 श्लोक · 1 श्लोकों का पाठ अभी जाँच में है, इसलिए नहीं दिखाए
- श्लोक 1कुंडली के 1 नियमस्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणके ।अनेकराजाधीशो वा सम्पन्नो राजपूजितः ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमगोमहिष्यादि लाभश्च वस्त्रवाहनभूषणम् ।नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥ 2 ॥
- श्लोक 3कुंडली के 1 नियमगजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलोदयः ।ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥ 3 ॥
- श्लोक 4कुंडली के 2 नियमस्वप्रभोः स्वफलाधिक्यं दारपुत्रादिलाभकृत् ।नीचांशे नीचराशिस्थे षष्ठाष्टव्ययराशिगे ॥ 4 ॥
- श्लोक 5कुंडली के 1 नियमनीचसंगो महादुःखं दायादजनविग्रहः ॥कलहो न विचारोऽस्य स्वप्रभुष्वपमृत्युकृत् ॥ 5 ॥
- श्लोक 6कुंडली के 2 नियमपुत्रदारवियोगश्च धनधान्यार्थहानिकृत् ।सप्तमाधिपदोषेण देहबाधा भविष्यति ॥ 6 ॥
- श्लोक 7तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।रुद्रजाप्यं च गोदानं कुर्यात् स्वाभीष्टलब्धये ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमजीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे ।लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥ 8 ॥
- श्लोक 9कुंडली के 1 नियमराज्यलाभे महत्सौख्यं वस्त्राभरण संयुतम् ।धनधान्यादि लाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमवाहनाम्बर पश्वादि भूलाभः स्थानलाभकृत् ।पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमनीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः ।पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ 11 ॥
- श्लोक 12कुंडली के 2 नियमअनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु ॥ ।लग्नात् षष्ठाष्टमे मन्दे व्यये नीचास्तगेऽप्यरौ ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमधनधान्यादिनाशश्च ज्वरपीडा मनोरुजः ।स्त्रीपुत्रादिषु पीडा वा व्रणार्त्यादिकमुद्वहेत् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमगृहे त्वशुभकार्याणि भृत्यवर्गादिपीडनम् ।गोमहिष्यादि हानिश्च बन्धुद्वेषी भविष्यति ॥ 14 ॥
- श्लोक 15कुंडली के 1 नियमदायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।भूलाभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥ 15 ॥
- श्लोक 16कुंडली के 2 नियमगोमहिष्यादि लाभश्च शूद्रमूलाद्धनं तथा ।दायेशाद् रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमधनधान्यादि नाशश्च बन्धुमित्रविरोधकृत् ।उद्योगभंगो देहार्तिः स्वजनानां महद्भयम् ॥ 17 ॥
- श्लोक 18कुंडली के 1 नियमद्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति ।तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 18 ॥
- श्लोक 19कृष्णां गां महिषीं दद्यात् तेनारोग्यमादिशेत् ।मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥ 19 ॥
- श्लोक 20कुंडली के 1 नियमजीवस्यान्तर्गते सौम्ये केन्द्र लाभत्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥ 20 ॥
- श्लोक 21कुंडली के 1 नियमअर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् ।महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ 21 ॥
- श्लोक 22कुंडली के 2 नियमवाहनाम्बरपश्वादिगोधनैः संकुलं गृहम् ।महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥ 22 ॥
- श्लोक 23कुंडली के 2 नियमव्यवसायात्फलं नेष्टं ज्वरातिसारपीडनम् ।दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमस्वदेशे धनलाभश्च पितृमातृसुखावहः ।गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमदायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ।शुभदृष्टिविहीने च धनधान्यपरिच्युतिः ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमविदेशगमनं चैव मार्गे चौरभयं तथा ।व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥ 26 ॥
- श्लोक 27कुंडली के 1 नियमविलग्नादपि दुःस्थे च पापग्रहसमन्विते ।अकस्मात्कलहश्चैव गृहे निष्ठुरभाषणम् ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमचतुष्पाज्जीवहानिश्च व्यवहारे तथैव च ।अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमशुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः ।आदौ शुभं देहसौख्यं वाहनाम्बर लाभकृत् ॥ 29 ॥
- श्लोक 30कुंडली के 2 नियमअन्ते तु धनहानिः स्यात्स्वात्मसौख्यं न जायते ।द्वितीय द्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 30 ॥
- श्लोक 31तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमजीवस्यान्तर्गते केतौ शुभग्रहसमन्विते ।अल्पसौख्यधनावाप्तिः कुत्सितान्नस्य भोजनम् ॥ 32 ॥
- श्लोक 33कुंडली के 2 नियमपरान्नं चैव श्राद्धान्नं पापमूलाद् धनानि च ।दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 33 ॥
- श्लोक 34कुंडली के 1 नियमराजकोपो धनच्छेदो बन्धनरोगपीडनम् ।बलहानिः पितृद्वेषी भ्रातृद्वेषो मनोरुजः ॥ 34 ॥
- श्लोक 35कुंडली के 1 नियमदायेशात्सुतभाग्यस्थे वाहने कर्मगेऽथवा ।नरवाहन योगश्च गजाश्वाम्बरसंकुलम् ॥ 35 ॥
- श्लोक 36कुंडली के 1 नियममहाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् ।व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥ 36 ॥
- श्लोक 37कुंडली के 2 नियमयवनप्रभुमूलाद् वा धनवस्त्रादिलाभकृत् ।द्वितीयद्यूननाथे तु देहबाधा भविष्यति ॥ 37 ॥
- श्लोक 38छागदानं प्रकुर्वीत मृत्युंजयजपं चरेत् ।सर्वदोषोपशमनीं शान्तिं कुर्याद् यथाविधि ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमजीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते ।लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥ 39 ॥
- श्लोक 40कुंडली के 1 नियमनरवाहनयोगश्च गजाश्वाम्बरसंयुतः ।महाराजप्रसादेन लाभाधिक्यं महत्सुखम् ॥ 40 ॥
- श्लोक 41कुंडली के 1 नियमपूर्वस्यां दिशि विप्रेन्द्र ! प्रयाणं धनलाभदम् ।कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥ 41 ॥
- श्लोक 42कुंडली के 1 नियमदेवतागुरुभक्तिश्च अन्नदानं महत्तथा ।तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥ 42 ॥
- श्लोक 43कुंडली के 1 नियमषष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ।कलहो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥ 43 ॥
- श्लोक 44कुंडली के 1 नियममन्दारराहुसंयुक्ते कलहो राजतो भयम् ।स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥ 44 ॥
- श्लोक 45कुंडली के 2 नियमसोदरेण विवादः स्याद्धनधान्यपरिच्युतिः ।दायेशात्केन्द्रगे शुक्रे धने वा भाग्यगेऽपि वा ॥ 45 ॥
- श्लोक 46कुंडली के 1 नियमधनधान्यादिलाभश्च श्रीलाभो राजदर्शनम् ॥वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् ॥ 46 ॥
- श्लोक 47कुंडली के 1 नियमगीतवाद्यप्रसंगादिर्विद्वज्जनसमागमः ।दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् ॥ 47 ॥
- श्लोक 48कुंडली के 1 नियमद्विसप्तमाधिपे शुक्रे तद्दशायां धनक्षतिः ।अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः ॥ 48 ॥
- श्लोक 49तस्य रोगस्य शान्त्यर्थं शान्तिकर्मसमाचरेत् ।श्वेतां गां महिषीं दद्याद् आयुरारोग्यवृद्धये ॥ 49 ॥
- श्लोक 50कुंडली के 1 नियमजीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।केन्द्रे वाथ त्रिकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ 50 ॥
- श्लोक 51कुंडली के 1 नियमधने वा बलसंयुक्ते दायेशाद्वा तथैव च ।तत्काले धनलाभः स्याद् राजसम्मानवैभवम् ॥ 51 ॥
- श्लोक 52कुंडली के 1 नियमवाहनाम्बरपश्वादि भूषणं पुत्रसम्भवः ।मित्रप्रभुवशाद् इष्टं सर्वकार्ये शुभावहम् ॥ 52 ॥
- श्लोक 53कुंडली के 1 नियमलग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ।शिरोरोगादि पीडा च ज्वरपीडा तथैव च ॥ 53 ॥
- श्लोक 54कुंडली के 1 नियमसत्कर्मसु तदा हीनः पापकर्मचयस्तथा ।सर्वत्र जनविद्वेषो निजबन्धुवियोगकृत् ॥ 54 ॥
- श्लोक 55कुंडली के 2 नियमअकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ ।द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ 55 ॥
- श्लोक 56तद्दोषपरिहारार्थम् आदित्यहृदयं जपेत् ।सर्वपीडोपशमनं दिनेशस्य प्रसादतः ॥ 56 ॥
- श्लोक 57कुंडली के 1 नियमजीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणके ।स्वोच्चे वा स्वर्क्षगे पूर्णे बलयुक्तेऽथवा पुनः ॥ 57 ॥
- श्लोक 58कुंडली के 1 नियमदायेशाच्छुभराशिस्थे राजसम्मानवैभवम् ।दारपुत्रादि सौख्यं च क्षीराणां भोजनं तथा ॥ 58 ॥
- श्लोक 60कुंडली के 2 नियमअनेक जनसौख्यं च दानधर्मादि संग्रहः ।षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥ 60 ॥
- श्लोक 61कुंडली के 1 नियमदायेशाद् वा तथाभूते निर्बले रजनीकरे ।मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥ 61 ॥
- श्लोक 62कुंडली के 1 नियमनृपचौरादिपीडा च दायादजनविग्रहः ।मातुलादिवियोगश्च मातृपीडा तथैव च ॥ 62 ॥
- श्लोक 63कुंडली के 1 नियमद्वितीय षष्ठयोरीशे देहपीडा भविष्यति ।तद्दोषोपशमनार्थं दुर्गापाठं च कारयेत् ॥ 63 ॥
- श्लोक 64कुंडली के 1 नियमजीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।स्वोच्चे वा स्वर्क्षगे वापि तुंगांशे स्वांशगेऽपि वा ॥ 64 ॥
- श्लोक 65कुंडली के 1 नियमविद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् ।जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥ 65 ॥
- श्लोक 66कुंडली के 1 नियमदायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।शुभयुक्ते शुभदृष्टे धनधान्यादि सम्पदः ॥ 66 ॥
- श्लोक 67कुंडली के 1 नियममिष्टान्नदानविभवं राजप्रीतिकरं शुभम् ।स्त्रीसौख्यं च सुतावाप्तिः पुण्यतीर्थफलं भवेत् ॥ 67 ॥
- श्लोक 68कुंडली के 1 नियमदायेशाद् रन्ध्रभावे वा व्यये वा नीचगेऽपि वा ।पापयुक्तेक्षिते वापि धान्यार्थगृहनाशनम् ॥ 68 ॥
- श्लोक 69कुंडली के 1 नियमनानारोगभयं दुःखं नेत्ररोगादि सम्भवः ।पूर्वार्धे कष्टमधिकमपरार्धे महत्सुखम् ॥ 69 ॥
- श्लोक 70कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः ।वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥ 70 ॥
- श्लोक 71कुंडली के 1 नियमजीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा ।मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥ 71 ॥
- श्लोक 72कुंडली के 1 नियमशुभयुक्तेक्षिते वापि योगप्रीतिं समादिशेत् ।भुक्त्यादौ पंचमासांश्च धनधान्यादिकं लभेत् ॥ 72 ॥
- श्लोक 73कुंडली के 1 नियमदेशग्रामाधिकारं च यवनप्रभुदर्शनम् ।गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥ 73 ॥
- श्लोक 74कुंडली के 1 नियमदूरयात्राधिगमनं पुण्यधर्मादिसंग्रहः ।सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥ 74 ॥
- श्लोक 75कुंडली के 1 नियमदायेशाद् रन्ध्रभावे वा व्यये वा पापसंयुते ।चौरादिव्रणभीतिश्च राजवैषम्यमेव च ॥ 75 ॥
- श्लोक 76कुंडली के 1 नियमगृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् ।सोदरेण विरोधः स्यात् दायादजनविग्रहः ॥ 76 ॥
- श्लोक 77कुंडली के 1 नियमगृहे त्वशुभकार्याणि दुःस्वप्नादि भयं ध्रुवम् ।अकस्मात्कलहश्चैव क्षुद्रशून्यादिरोगकृत् ॥ 77 ॥
- श्लोक 78कुंडली के 1 नियमद्विसप्तमस्थिते राहौ देहबाधां विनिर्दिशेत् ।तद्दोषपरिहारार्थं मृत्युंजय जपं चरेत् ॥ 78 ॥
- श्लोक 79छागदानं प्रकुर्वीत देवपूजां च कारयेत् ।राहुतुष्ट्या तदा विप्र ! सर्वसौख्यमवाप्नुयात् ॥ 79 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।