अध्याय 57: राह्वन्तर्दशाफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 57 (Rahu Antardasha Phal)
83 श्लोक
- श्लोक 1कुंडली के 1 नियमकुलीरे वृश्चिके राहौ कन्यायां चापगेऽपि वा ।तद्भुक्तौ राजसम्मानं वस्त्रवाहनभूषणम् ॥ 1 ॥
- श्लोक 2कुंडली के 1 नियमव्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ 2 ॥
- श्लोक 3कुंडली के 1 नियमलग्नादुपचये राहौ शुभग्रहयुतेक्षिते ।मित्रांशे तुंगभागांशे योगकारकसंयुते ॥ 3 ॥
- श्लोक 4कुंडली के 1 नियमराज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् ।करोति सुखसम्पत्तिं दारपुत्रादिवर्धनम् ॥ 4 ॥
- श्लोक 5कुंडली के 1 नियमलग्नाष्टमे व्यये राहौ पापयुक्तेऽथ वीक्षिते ।चौरादिव्रणपीडा च सर्वत्रैवं भवेद् द्विज ॥ 5 ॥
- श्लोक 6कुंडली के 1 नियमराजद्वारे जनद्वेषं इष्टबन्धुविनाशनम् ।दारपुत्रादि पीडा च भवत्येव न संशयः ॥ 6 ॥
- श्लोक 7कुंडली के 1 नियमद्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते ।सदा रोगो महाकष्टं शान्तिं कुर्याद् यथाविधि ॥ 7 ॥
- श्लोक 8कुंडली के 1 नियमआरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ! ।राहोरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणके ॥ 8 ॥
- श्लोक 9कुंडली के 1 नियमस्वोच्चे स्वक्षेत्रगे वापि तुंगस्वर्क्षांशगेऽपि वा ॥स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् ॥ 9 ॥
- श्लोक 10कुंडली के 1 नियमराजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ।दिने दिने वृद्धिरपि सिते पक्षे शशी यथा ॥ 10 ॥
- श्लोक 11कुंडली के 1 नियमवाहनादि धनं भूरि गृहे गोधनसंकुलम् ।नैर्ऋत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् ॥ 11 ॥
- श्लोक 12कुंडली के 1 नियमयुक्तकार्यार्थसिद्धिः स्यात् स्वदेशे पुनरेष्यति ।उपकारो ब्राह्मणानां तीर्थयात्रादि कर्मणाम् ॥ 12 ॥
- श्लोक 13कुंडली के 1 नियमवाहनग्रामलाभश्च देवब्राह्मणपूजनम् ।पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् ॥ 13 ॥
- श्लोक 14कुंडली के 1 नियमनीचे वास्तंगते वापि षष्ठाष्टव्ययराशिगे ।शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति ॥ 14 ॥
- श्लोक 15कुंडली के 1 नियमकर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ।कलत्रपुत्रपीडा च हृद्रोगो राजकार्यकृत् ॥ 15 ॥
- श्लोक 16कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ।दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् ॥ 16 ॥
- श्लोक 17कुंडली के 1 नियमभोजनाम्बरपश्वादि दानधर्मजपादिकम् ।भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् ॥ 17 ॥
- श्लोक 18कुंडली के 2 नियमज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादि पीडनम् ।दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते ॥ 18 ॥
- श्लोक 19कुंडली के 2 नियमतद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ।द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ 19 ॥
- श्लोक 20स्वर्णस्य प्रतिमा दानं शिवपूजां च कारयेत् ।श्री शम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम ॥ 20 ॥
- श्लोक 21कुंडली के 1 नियमदेहारोग्यं प्रकुरुते शान्तिं कुर्याद् विचक्षणः ।राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ॥ 21 ॥
- श्लोक 22कुंडली के 1 नियमस्वोच्चे मूल त्रिकोणे वा दुश्चिक्ये लाभराशिगे ।तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरा शुभा ॥ 22 ॥
- श्लोक 23कुंडली के 1 नियमविवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ।आरामकरणे युक्तो तडागं कारयिष्यति ॥ 23 ॥
- श्लोक 24कुंडली के 1 नियमशूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ।प्रयाणं पश्चिमे भागे प्रभुमूलाद् धनक्षयः ॥ 24 ॥
- श्लोक 25कुंडली के 2 नियमदेहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ।नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमनीचारिराजभीतिश्च दारपुत्रादिपीडनम् ।आत्मबन्धुमनस्तापं दायादजनविग्रहम् ॥ 26 ॥
- श्लोक 27कुंडली के 2 नियमव्यवहारे च कलहमकस्माद् भूषणं लभेत् ।दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥ 27 ॥
- श्लोक 28कुंडली के 1 नियमहृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ।अन्यदेशादिसंचारो गुल्मवद्व्याधिभाग् भवेत् ॥ 28 ॥
- श्लोक 29कुंडली के 2 नियमकुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ।द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ 29 ॥
- श्लोक 30कुंडली के 1 नियमकृष्णां गां महिषीं दद्याद्दानेनारोग्यमादिशेत् ।राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा ॥ 30 ॥
- श्लोक 31कुंडली के 1 नियमतुंगे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ।राजयोगं प्रकुरुते गृहे कल्याणवर्धनम् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमव्यापारेण धनप्राप्तिर्विद्यावाहनमुत्तमम् ।विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् ॥ 32 ॥
- श्लोक 33कुंडली के 1 नियमसौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ।सुगन्ध पुष्पशय्यादि स्त्रीसौख्यं चाति शोभनम् ॥ 33 ॥
- श्लोक 34कुंडली के 2 नियममहाराजप्रसादेन धनलाभो महद्यशः ।दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे ॥ 34 ॥
- श्लोक 35कुंडली के 1 नियमदेहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ।पुण्यश्लोकादि कीर्तिश्च पुराणश्रवणादिकम् ॥ 35 ॥
- श्लोक 36कुंडली के 2 नियमविवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ।षष्ठाष्टम व्यये सौम्ये मन्देनापि युतेक्षिते ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमदायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ।देवब्राह्मण निन्दा च भोगभाग्यविवर्जितः ॥ 37 ॥
- श्लोक 38कुंडली के 1 नियमसत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ।अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् ।अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥ 38 ॥
- श्लोक 39कुंडली के 1 नियमद्वितीय द्यूननाथे तु ह्यपमृत्युभयं वदेत् ।तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ 39 ॥
- श्लोक 40राहोरन्तर्गते केतौ भ्रमणं राजतोभयम् ।वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥ 40 ॥
- श्लोक 41कुंडली के 2 नियमअष्टमाधिपसंयुक्ते देहजाड्यं मनोव्यथा ।शुभयुक्ते शुभदृष्टे देहसौख्यं धनागमः ॥ 41 ॥
- श्लोक 42कुंडली के 2 नियमराज सम्मान भूषाप्तिर्गृहे शुभकरो भवेत् ।लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा ॥ 42 ॥
- श्लोक 43कुंडली के 2 नियमलग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ।चतुष्पाज्जीवलाभः स्यात्केन्द्रे कोणेऽपिसंस्थिते ॥ 43 ॥
- श्लोक 44कुंडली के 1 नियमरन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ।तद्भुक्तौ बहुरोगः स्याच्चौराहिव्रणपीडनम् ॥ 44 ॥
- श्लोक 45कुंडली के 2 नियमपितृमातृवियोगश्च भ्रातृद्वेषो मनोरुजा ।द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥ 45 ॥
- श्लोक 46कुंडली के 1 नियमराहोरन्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥ 46 ॥
- श्लोक 47कुंडली के 1 नियमविप्रमूलाद्धनप्राप्तिर्गोमहिष्यादि लाभकृत् ।पुत्रोत्सवादि सन्तोषो गृहे कल्याणसम्भवः ॥ 47 ॥
- श्लोक 48कुंडली के 2 नियमसम्मानं राजसम्मानं राज्यलाभो महत्सुखम् ।स्वोच्चे वा स्वर्क्षगे वापि तुंगांशे स्वांशगेऽपि वा ॥ 48 ॥
- श्लोक 49कुंडली के 1 नियमनूतनगृहनिर्माणं नित्यं मिष्ठान्नभोजनम् ।कलत्रपुत्र विभवं मित्रसंगः सुभोजनम् ॥ 49 ॥
- श्लोक 50कुंडली के 1 नियमअन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः ।महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ 50 ॥
- श्लोक 51कुंडली के 2 नियमव्यवसायात्फलाधिक्यं विवाहो मौंजीबन्धनम् ।षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ 51 ॥
- श्लोक 52कुंडली के 1 नियममन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् ।अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥ 52 ॥
- श्लोक 53कुंडली के 1 नियमस्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् ।दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ 53 ॥
- श्लोक 54कुंडली के 2 नियमकलत्रपुत्रपीडा च शूलरोगादिसम्भवः ।दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥ 54 ॥
- श्लोक 55कुंडली के 1 नियमलाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् ॥सुगन्ध वस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥ 55 ॥
- श्लोक 56कुंडली के 2 नियमछत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता ।दायेशाद् रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ 56 ॥
- श्लोक 57कुंडली के 1 नियमविप्राहिनृपचौरादि मूत्रकृच्छ्रान्महद्भयम् ।प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥ 57 ॥
- श्लोक 58कुंडली के 2 नियमकारागृहप्रवेशश्च राजदण्डाद्धनक्षयः ।द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥ 58 ॥
- श्लोक 59कुंडली के 1 नियमआत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् ।दुर्गालक्ष्मीजपं कुर्यात् ततः सौख्यमवाप्नुयात् ॥ 59 ॥
- श्लोक 60कुंडली के 1 नियमराहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।त्रिकोणे लाभगे वापि तुंगांशे स्वांशकेऽथवा ॥ 60 ॥
- श्लोक 61कुंडली के 1 नियमशुभग्रहेण संदृष्टे राजप्रीतिकरं शुभम् ॥धनधान्य समृद्धिश्च ह्यल्पमानं सुखावहम् ॥ 61 ॥
- श्लोक 62कुंडली के 2 नियमअल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति ।भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥ 62 ॥
- श्लोक 63कुंडली के 1 नियमराजाश्रयो महत्कीर्तिर्विदेशगमनं तथा ।देशाधिपत्ययोगश्च गजाश्वाम्बरभूषणम् ॥ 63 ॥
- श्लोक 64कुंडली के 2 नियममनोऽभीष्टप्रदानं च पुत्रकल्याणसम्भवम् ।दायेशाद् रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥ 64 ॥
- श्लोक 65कुंडली के 1 नियमज्वरातिसाररोगश्च कलहो राजविग्रहः ।प्रयाणं शत्रुवृद्धिश्च नृपचौराग्निपीडनम् ॥ 65 ॥
- श्लोक 66कुंडली के 1 नियमदायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।विदेशे राजसम्मानं कल्याणं तु शुभावहम् ॥ 66 ॥
- श्लोक 67कुंडली के 1 नियमद्वितीयद्यूननाथे तु महारोगो भविष्यति ।सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥ 67 ॥
- श्लोक 68कुंडली के 1 नियमराहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा ।केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥ 68 ॥
- श्लोक 69कुंडली के 1 नियमराजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् ।आरोग्यं भूषणं चैव मित्रस्त्रीपुत्र सम्पदः ॥ 69 ॥
- श्लोक 70कुंडली के 1 नियमपूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या सुखावहम् ।अश्ववाहनलाभः स्याद् गृहक्षेत्रादिवृद्धिकृत् ॥ 70 ॥
- श्लोक 71कुंडली के 1 नियमदायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा ।लक्ष्मी कटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥ 71 ॥
- श्लोक 72कुंडली के 1 नियमसर्वकार्यार्थसिद्धिः स्याद् धनधान्य सुखावहा ।सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥ 72 ॥
- श्लोक 73कुंडली के 1 नियमदायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ।पिशाचक्षुद्रव्याघ्राद्यैर्गृहक्षेत्रादिनाशनम् ॥ 73 ॥
- श्लोक 74कुंडली के 2 नियममार्गे चौरभयं चैव व्रणाधिक्यं महोदरम् ।द्वितीय द्यूननाथे तु देहबाधा भविष्यति ॥ 74 ॥
- श्लोक 75श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये ।ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥ 75 ॥
- श्लोक 76कुंडली के 1 नियमराहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे ।केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ 76 ॥
- श्लोक 77कुंडली के 1 नियमनष्टराज्यधनप्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् ॥इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥ 77 ॥
- श्लोक 78कुंडली के 2 नियमक्षिप्रभोज्यान्महत्सौख्यं भूषणाश्वाम्बरादिकृत् ।दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ 78 ॥
- श्लोक 79कुंडली के 1 नियमरक्त वस्त्रादिलाभः स्यात् प्रयाणं राजदर्शनम् ।पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥ 79 ॥
- श्लोक 80कुंडली के 2 नियमसेनापत्यं महोत्साहो भ्रातृवर्गधनागमः ।दायेशाद् रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥ 80 ॥
- श्लोक 81कुंडली के 1 नियमपुत्रदारादिहानिश्च सोदराणां च पीडनम् ।स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥ 81 ॥
- श्लोक 82कुंडली के 1 नियमचौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् ।आदौ क्लेशकरं चैव मध्यान्ते सौख्यमाप्नुयात् ॥ 82 ॥
- श्लोक 83कुंडली के 1 नियमद्वितीयद्यूननाथे तु देहालस्यं महद्भयम् ।अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥ 83 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।