अध्याय 72: अष्टकवर्गफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 72 (Ashtakavarga Phal)
46 श्लोक
- श्लोक 1आत्मप्रभावशक्तिश्च पितृचिन्ता रवेः फलम् ।मनोबुद्धिप्रसादं च मातृचिन्ता मृगाङ्कतः ॥ 1 ॥
- श्लोक 2भ्रातृसत्त्वगुणं भूमिं भौमेनैव विचिन्तयेत् ।वाणिज्यकर्मवृत्तिं च सुहृदं च बुधेन तु ॥ 2 ॥
- श्लोक 3गुरुणा देहपुष्टिं च विद्यापुत्रार्थसम्पदः ।भृगोर्विवाहकर्माणि भोगस्थानं च वाहनम् ॥ 3 ॥
- श्लोक 4वेश्यास्त्रीजनसम्भोगं शुक्रेण च निरीक्षयेत् ।आयुश्च जीवनोपायं दुःखशोकभयानि च ॥ 4 ॥
- श्लोक 5सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् ।तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ॥ 5 ॥
- श्लोक 6सप्तविंशोद्धृतं शेषतुल्यर्क्षं याति भानुजः ।यदा यदा तस्य भावस्यार्तिं निर्दिशेद् बुधः ॥ 6 ॥
- श्लोक 7अर्काश्रितर्क्षान्नवमो राशिः पितृगृहं स्मृतम् ।तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ॥ 7 ॥
- श्लोक 8विभजेत् सप्तविंशत्या शेषर्क्षं याति भानुजः ।यदा तदा पितृक्लेशो भवतीति न संशयः ॥ 8 ॥
- श्लोक 9तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा ।मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ॥ 9 ॥
- श्लोक 10गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया ।अर्कोद्धृतावशेषर्क्षं यदा गच्छति भानुजः ॥ 10 ॥
- श्लोक 11तत् त्रिकोणर्क्षगं वापि पितृकष्टं तदा वदेत् ।रिष्टप्रददशायां तु मरणं कष्टमन्यदा ॥ 11 ॥
- श्लोक 12अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने ।गुरुशुक्रेक्षणमृते पितृहा जायते नरः ॥ 12 ॥
- श्लोक 13लग्नाच्चन्द्राद्गुरुस्थाने याते सूर्यसुतेऽथवा ।पापदृष्टे युतेवापि पितृनाशं वदेद् बुधः ॥ 13 ॥
- श्लोक 14लग्नात्सुखेश्वरारिष्टदशाकाले पितृक्षयः ।अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः ॥ 14 ॥
- श्लोक 15पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा ।करोति पितृकार्याणि स एवात्र न संशयः ॥ 15 ॥
- श्लोक 16सुखनाथदशायां तु सुखप्राप्तेश्च सम्भवः ॥सुखेशे लग्नलाभस्थे चन्द्रस्थानाद्विशेषतः ॥ 16 ॥
- श्लोक 17पितृगेहसमायुक्ते जातः पितृवशानुगः । ॥पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः ॥ 17 ॥
- श्लोक 18पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः ॥तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः ॥ 18 ॥
- श्लोक 19एवं पूर्वोक्तसामान्यफलं चात्रापि चिन्तयेत् ॥ 19 ॥
- श्लोक 20कुंडली के 2 नियमसूर्याष्टवर्गे यच्छून्यं तन्मासे वत्सरं प्रति ।विवाहव्रतचूडादिशुभकर्मपरित्यजेत् ॥ 20 ॥
- श्लोक 21कुंडली के 2 नियमयत्र रेखाधिका मासे तत्र संवत्सरेऽपि च ।अनिष्टेऽपि रवौ जीवे शुभकर्म समाचरेत् ॥ 21 ॥
- श्लोक 22कुंडली के 2 नियमएवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु ।तत्र तत्र गते चन्द्रे शुभं कर्म परित्यजेत् ॥ 22 ॥
- श्लोक 23चन्द्राच्चतुर्थतो मातृप्रासादग्रामचिन्तनम् ।चन्द्रात्सुखफलात् पिण्डं वर्धयेद् भैश्च सम्भजेत् ॥ 23 ॥
- श्लोक 24शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् ।तत्तत्त्रिकोणगे वापि शनौ मातुरुजं वदेत् ॥ 24 ॥
- श्लोक 25कुंडली के 1 नियमभौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् ।कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं मतम् ॥ 25 ॥
- श्लोक 26कुंडली के 1 नियमत्रिकोण शोधनं कृत्वा यत्र स्यादधिकं फलम् ।भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् ॥ 26 ॥
- श्लोक 27भौमो बलविहीनश्चेद् दीर्घायुर्भ्रातृको भवेत् ।फलानि यत्र क्षीयन्ते तत्र भौमे गते क्षतिः ॥ 27 ॥
- श्लोक 28तृतीयर्क्ष फलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् ।शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् ॥ 28 ॥
- श्लोक 29कुंडली के 1 नियमबुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च ।बुधे फलाधिके राशौ गते तेषां सुखं दिशेत् ॥ 29 ॥
- श्लोक 30बुधाष्टवर्गे संशोध्य शेषमृक्षं गते शनौ ।कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् ॥ 30 ॥
- श्लोक 31तत्पंचमे मन्त्रविद्यालिपिबुद्ध्यादि चिन्तयेत् ॥ 31 ॥
- श्लोक 32कुंडली के 1 नियमजीवात्पंचमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् ।तस्मिन् फलाधिके राशौ सन्तानस्य सुखं दिशेत् ॥ 32 ॥
- श्लोक 33बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् ।शत्रुनीचगृहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ॥ 33 ॥
- श्लोक 34सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् ।सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ॥ 34 ॥
- श्लोक 35पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ ।एवं धर्मं च विद्यां च कल्पयेत् कालवित्तमः ॥ 35 ॥
- श्लोक 36शुक्रस्याष्टवर्गं च निक्षिप्याकाशचारिषु ॥यत्र यत्र फलानिस्युर्भूयांसि तत्र वै मतम् ॥ 36 ॥
- श्लोक 37कुंडली के 1 नियमवित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् ।शुक्राज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ॥ 37 ॥
- श्लोक 38कुंडली के 1 नियमजामित्रतत् त्रिकोणस्थराशिदिग्देशसम्भवा ।सुखदुःखे स्त्रियाश्चिन्त्ये पिण्डं संवर्ध्य पूर्ववत् ॥ 38 ॥
- श्लोक 39शनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् ।तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ॥ 39 ॥
- श्लोक 40लग्नात्प्रभृतिमन्दान्तं फलान्येकत्र कारयेत् ।तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ॥ 40 ॥
- श्लोक 41एवं मन्दादि लग्नान्तं फलान्येकत्र योजयेत् ।तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं भवेत् ॥ 41 ॥
- श्लोक 42द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् ।दशारिष्टसमायोगे मृत्युरेव न संशयः ॥ 42 ॥
- श्लोक 43पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलम् ।सप्तविंशतिहृच्छेषतुल्यर्क्षं संगते शनौ ॥ 43 ॥
- श्लोक 44तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् ।अर्कहृच्छेषराशौ वा तत् त्रिकोणेऽपि तद्वदेत् ॥ 44 ॥
- श्लोक 45कुंडली के 2 नियमशनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे ।तत्र नैव शुभं तस्य यदा याति शनैश्चरः ॥ 45 ॥
- श्लोक 46कुंडली के 2 नियमयत्र राशौ शुभाधिक्यं तत्रयाते शनैश्चरे ।जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले शुभं फलम् ॥ 46 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।