अध्याय 74: समुदायाष्टकवर्गाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 74 (Samudaya Ashtakavarga)

51 श्लोक

  1. श्लोक 1द्वादशारं लिखेच्चक्रं जन्मलग्नादिभिर्युतम्‌ ।सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत्‌ ॥ 1 ॥
  2. श्लोक 2समुदायाभिधानोऽयमष्टवर्गः समुच्यते ।अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ 2 ॥
  3. श्लोक 3कुंडली के 2 नियमत्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।पंचविंशादित्रिंशान्तफला मध्यफलाः स्मृताः ॥ 3 ॥
  4. श्लोक 4कुंडली के 2 नियमअतः क्षीणफला ये ते राशयः कष्टदुःखदाः ।शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ 4 ॥
  5. श्लोक 5कुंडली के 3 नियमकष्टराशीन्‌ सुकार्येषु वर्जयेद्‌ द्विजसत्तम ! ।श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियमतन्वादि व्ययपर्यन्तं दृष्ट्वा भावफलानि वै ।अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत्‌ ॥ 6 ॥
  7. श्लोक 7मध्ये मध्यफलं ब्रूयात्तत्तद्भावसमुद्भवम् ।कष्टान् राशीन् मुहूर्तेषु वर्जयेत्सर्वदा बुधः ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियममध्यात्‌ फलाधिको लाभो लाभात्‌ क्षीणफलो व्ययः ।लग्नं फलाधिकं यस्य भोगवानर्थवान्‌ भवेत्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमदशावदिह भावानां कृत्वा खण्डत्रयं बुधः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमपश्येत्‌ पापसमारूढं खण्डे कष्टकरं वदेत्‌ ।सौम्यैर्युक्तं शुभं ब्रूयात्‌ मिश्रैर्मिश्रफलं यथा ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमक्रमाद्‌ बाल्याद्यवस्थासु खण्डत्रयफलं वदेत्‌ ।खण्डत्रयफलं ज्ञात्वा दशाफलमुदीरयेत्‌ ॥ 11 ॥
  12. श्लोक 12यस्मिन्‌ वयसि तुंगाश्च मुदिताः स्वगृहे स्थिताः ।तत्र राज्यसुखं लक्ष्मीस्तेजो भवति निश्चितम्‌ ॥ 12 ॥
  13. श्लोक 13यस्मिन्‌ वयसि मन्दाश्चेत्क्रूरदृष्टिविरश्मिकाः ।तत्रहानिं रुजं विद्यात्‌ पदभ्रंशः खलागमः ॥ 13 ॥
  14. श्लोक 14लग्नस्थाने फलं यावद्‌ वर्षे तावन्मिते बुधः ।सम्पदैश्वर्य विद्यां च विद्याद्‌ योगानुसारतः ॥ 14 ॥
  15. श्लोक 15लग्ने लाभे सुखे यस्य खगुणादधिकं फलम्‌ ।राज्यश्रीस्तस्य जायेत चत्वारिंशन्मिताब्दके ॥ 15 ॥
  16. श्लोक 16नवमे च सुखे नूनं फलं मध्यं भवेद्यदि ।अष्टाविंशति वर्षान्ते नरवाहन संयुतः ॥ 16 ॥
  17. श्लोक 17वित्तेश्वरस्य दिग्भागे वित्तमाप्नोति मानवः ।रन्ध्रेश्वरस्य दिग्भागे देहस्तत्रविनश्यति ॥ 17 ॥
  18. श्लोक 18लग्नात्प्रभृतिमन्दान्तमेकीकृत्यफलानि वै ।सप्तभिर्गुणयेत्पश्चात्सप्तविंशोद्धृतात्फलम्‌ ॥ 18 ॥
  19. श्लोक 19मन्दात्प्रभृतिलग्नान्तमेवमेव प्रकल्पयेत्‌ ।तत्समर्क्षं गते पापे कष्टं वा रोगमादिशेत्‌ ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमवर्षादौ सर्वखेटानां गोचरात्फलयोगतः ।शुभाशुभं विजानीयान्मासादीनां तथैव च ॥ 20 ॥
  21. श्लोक 21पंचविंशाधिकशतद्वयात्पुष्टे महत्फलम् ।आतदर्धं समं वाच्यं तन्न्यूने सौख्यनाशनम् ॥ 21 ॥
  22. श्लोक 22रेखाभिः सप्तभिर्युक्ते मासे मृत्युभयं नृणाम्‌ ।सुवर्णं विंशतिपलं दद्याद्‌ द्वौ तिलपर्वतौ ॥ 22 ॥
  23. श्लोक 23रेखाभिरष्टभिर्युक्ते मासे मृत्युवशो नरः ।असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ 23 ॥
  24. श्लोक 24रेखाभिर्नवभिर्युक्ते मासे सर्पभयं वदेत्‌ ।अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ 24 ॥
  25. श्लोक 25रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम्‌ ॥ 25 ॥
  26. श्लोक 26अभिशापभयं तत्र रेखा रुद्रसमा द्विज ! ।दिक्पलस्वर्णघटितां प्रदद्यात्‌ प्रतिमां विधोः ॥ 26 ॥
  27. श्लोक 27युक्ते द्वादश रेखाभिर्जले मृत्युभयं वदेत्‌ ।सशस्यभूमिं विप्राय दत्त्वा शुभं फलं भवेत्‌ ॥ 27 ॥
  28. श्लोक 28विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं भवेत्‌ ।विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्छुभाप्तये ॥ 28 ॥
  29. श्लोक 29शक्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ 29 ॥
  30. श्लोक 30तिथिभिश्च नृपाद्भीतिर्दद्यात्‌ तत्र गजं द्विज ! ।रिष्टं षोडशभिर्दद्यात्‌ मूर्तिं कल्पतरोस्तथा ॥ 30 ॥
  31. श्लोक 31सप्तेन्दुभिर्व्याधिभयं दद्यात्‌ धेनुं गुडं तथा ।कलहोऽष्टेन्दुभिर्दद्याद्‌ रत्नगोभूहिरण्यकम्‌ ॥ 31 ॥
  32. श्लोक 32अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद्यथाविधि ।विंशत्या बुद्धिनाशः स्यात्‌ गणेशं तत्र पूजयेत्‌ ॥ 32 ॥
  33. श्लोक 33रोगपीडैकविंशत्या दद्याद्धान्यस्य पर्वतम्‌ ।यमाश्विभिर्बन्धुपीडा दद्याद्वादशकं द्विज ॥ 33 ॥
  34. श्लोक 34त्रयोविंशतिसंयुक्ते मासे क्लेशमवाप्नुयात् ।सौवर्णीं प्रतिमां दद्याद् रवेः सप्तपलैर्बुधः ॥ 34 ॥
  35. श्लोक 35वेदाश्विभिर्बन्धुहीनो दद्याद्‌ गोदशकं नृपः ।सर्वरोगविनाशार्थं जपहोमादिकं चरेत्‌ ॥ 35 ॥
  36. श्लोक 36धीहानिः पंचविंशत्या पूज्या वागीश्वरी तदा ।षड्विंशत्यार्थहानिः स्यात् स्वर्णं दद्याद् विचक्षणः ॥ 36 ॥
  37. श्लोक 37तथा च सप्तविंशत्या श्रीसूक्तं तत्र संजपेत्‌ ।अष्टाविंशति संयुक्ते मासे हानिश्च सर्वथा ॥ 37 ॥
  38. श्लोक 38सूर्यहोमश्च विधिना कर्तव्यः शुभकांक्षिभिः ।एकोनत्रिंशता चापि चिन्ताव्याकुलितो भवेत्‌ ॥ 38 ॥
  39. श्लोक 39घृतवस्त्रसुवर्णानि तत्र दद्याद्‌ विचक्षणः ।त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ 39 ॥
  40. श्लोक 40रामवह्नियुते मासे व्यापाराद्धनमाप्नुयात्‌ ।उद्योगसिद्धिश्च भवेन्मान्यते च नृपैरपि ॥ 40 ॥
  41. श्लोक 41सहेमवस्त्रलाभश्च चतुस्त्रिंशत्समन्विते ।कुरामे धनसंप्राप्तिर्यमवह्नियुते सुतः ॥ 41 ॥
  42. श्लोक 42अक्षाग्निभिर्भवेच्छ्रीमान्‌ धनावाप्तिर्नगानलैः ।गजवह्निमिते मासे मनसा चिन्तितं फलम्‌ ॥ 42 ॥
  43. श्लोक 43अंक गुणोन्मिते मासे धनं द्रव्यं सरत्नकम्‌ ।धनवान्‌ कीर्तिमांश्चैव चत्वारिंशति वर्धते ॥ 43 ॥
  44. श्लोक 44अत उर्ध्वं यशोऽर्थाप्तिः पुण्यश्रीरुपचीयते ।भूवेद संयुते मासे नानालाभं प्रपद्यते ॥ 44 ॥
  45. श्लोक 45पक्षवेदैः पुनः श्रीमानुदारो बहुसेवितः ।महाधनो महाभोगो महीमण्डलसंस्थितः ॥ 45 ॥
  46. श्लोक 46तत उर्ध्वं सुखं वित्तं विभवं च समन्ततः ।वेदवेदमिते मासे राजमान्यो भवेन्नरः ॥ 46 ॥
  47. श्लोक 47पंचवेदमिते मासे ज्ञानवान् धनिको भवेत् ।पुण्यसागरसंयुक्तः परमात्मा स्वयं भवेत् ॥ 47 ॥
  48. श्लोक 48तत उर्ध्वं नृपत्वं स्यात्‌ पुण्यवृद्धिः सुशोभते ।एवं ग्रहाणां रेखैक्यं कुर्यादिष्टे दिने ततः ॥ 48 ॥
  49. श्लोक 49अष्टविंशे फलं मध्यमधिकोने शुभाशुभम्‌ ।फलं सर्वं विज्ञेयमिति जातकनिर्णयः ॥ 49 ॥
  50. श्लोक 50कुंडली के 1 नियमअष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।अतोऽष्टवर्गसंशुद्धिरन्वेष्या सर्वकर्मसु ॥ 50 ॥
  51. श्लोक 51कुंडली के 1 नियमतावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम्‌ ।अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत्‌ ॥ 51 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।