अध्याय 75: रश्मिफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 75 (Rashmi Phal)
25 श्लोक
- श्लोक 1अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम ! ।दिङ्नवेष्विषु सप्ताष्टशराः स्वोच्चे कराः रवेः ॥ 1 ॥
- श्लोक 2नीचे खं चान्तरे प्रोक्ता रश्मयश्चानुपाततः ।नीचोनं तु ग्रहं भार्धाधिक्ये चक्राद् विशोधयेत् ॥ 2 ॥
- श्लोक 3स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः ।अपरैरत्र संस्कारविशेषः कथितो यथा ॥ 3 ॥
- श्लोक 4स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः ।स्वभे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ 4 ॥
- श्लोक 5वेदघ्ना रामसंभक्ता मित्रभे षड्गुणास्ततः ।पंचभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ 5 ॥
- श्लोक 6अधिशत्रुगृहे द्विघ्नाः पंचभक्ताः समे समाः ।शनि शुक्रौ विना ताराग्रहा अस्तं गता यदि ॥ 6 ॥
- श्लोक 7विरश्मयो भवन्त्येवं ज्ञेया स्पष्टकरा इति ।रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ 7 ॥
- श्लोक 8एकादि पंचपर्यन्तं रश्मिसंख्या भवेद्यदि ।दरिद्राः दुःखसन्तप्ता अपि जाता कुलोत्तमे ॥ 8 ॥
- श्लोक 9परतो दशकं यावत् निर्धना भारवाहकाः ।स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ 9 ॥
- श्लोक 10एकादश स्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः ।द्वादश स्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ 10 ॥
- श्लोक 11चौर्य कर्मरता नित्यं चेत् त्रयोदश रश्मयः । ॥चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ 11 ॥
- श्लोक 12कुलोचित क्रियासक्तो धनविद्यासमन्वितः ।रश्मिभिः पंचदशभिः सर्वविद्यागुणान्वितः ॥ 12 ॥
- श्लोक 13स्ववंशमुख्यो धनवानित्याह भगवान् स्वयम् ।परतश्च कुलेशाना बहुभृत्याः कुटुम्बिनः ॥ 13 ॥
- श्लोक 14कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् ।पंचाशज्जनपालश्चेदेकविंशतितो बलात् ॥ 14 ॥
- श्लोक 15दानशीलः कृपायुक्तो द्वाविंशतिषु रश्मिषु ।सुखयुक्सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ 15 ॥
- श्लोक 16आत्रिंशत्परतः श्रीमान् सर्वसत्त्वसमन्वितः ।राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ 16 ॥
- श्लोक 17अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत्करावधि ।जनानां शतमारभ्य सहस्रावधि पोषकः ॥ 17 ॥
- श्लोक 18अत ऊर्ध्वं तु भूपालः पंचाशत्किरणावधि ।तत ऊर्ध्वं करैर्विप्र चक्रवर्ती नृपो भवेत् ॥ 18 ॥
- श्लोक 19एवं प्रसूतिकालोत्थं नभोगकरसम्भवम् ।कुलक्रमानुसारेण जातकस्य फलं वदेत् ॥ 19 ॥
- श्लोक 20क्षत्रियश्चक्रवर्ती स्याद् वैश्यो राजा प्रजायते ।शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ 20 ॥
- श्लोक 21उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः ।नीचाभिमुखखेटस्य ततो न्यून फलप्रदाः ॥ 21 ॥
- श्लोक 22सर्वेषामेव खेटानामेवं रश्मिवशाद् द्विज ! ।शुभं वाप्यशुभं चापि फलं भवति देहिनाम् ॥ 22 ॥
- श्लोक 23रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति ।तस्माद् रश्मीन् प्रसाध्यैवं फलं वाच्यं विचक्षणैः ॥ 23 ॥
- श्लोक 24स्थानवीर्याधिके देशे मुख्यः स्यादनुपाततः ।दिग्बली विजयी चेष्टावीर्याधिक्ये प्रभुर्भवेत् ॥ 24 ॥
- श्लोक 25कालवीर्याधिके कार्ये सदोत्साही तथायने ।स्ववंशोत्कर्षता स्वोच्चे वर्गमुख्यो निसर्गतः ॥जात्यादिगुणसंयोगात्कार्ये युक्तः प्रजायते ॥ 25 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।