अध्याय 76: सुदर्शनचक्राध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 76 (Sudarshan Chakra)
29 श्लोक
- श्लोक 1अथोच्यते मया विप्र ! रहस्यं ज्ञानमुत्तमम् ॥जगतामुपकाराय यत् प्रोक्तं ब्रह्मणा स्वयम् ॥ 1 ॥
- श्लोक 2विश्वचक्रं कालचक्रदिव्यचक्रसुदर्शनम् ।विष्णोः कराम्बुजावासमीडे तज्ज्ञानमद्भुतम् ॥ 2 ॥
- श्लोक 3चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् ।नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ 3 ॥
- श्लोक 4जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् ।शुभं वाप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ 4 ॥
- श्लोक 5एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज ! ।द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ 5 ॥
- श्लोक 6तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः ।तदूर्ध्ववृत्ते चन्द्राच्च भावाः खेटसमन्विताः ॥ 6 ॥
- श्लोक 7तदूर्ध्ववृत्ते सूर्याच्च क्रमाद्भावा ग्रहान्विताः ।एवमेकैकभावेऽत्र भवेद् भानां त्रयं त्रयम् ॥ 7 ॥
- श्लोक 8अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः ।तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ 8 ॥
- श्लोक 9तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः ।तनुभावे शुभः सूर्यो ज्ञेयः पापः स्वभोच्चगः ॥ 9 ॥
- श्लोक 10शुभो ज्ञेयोऽन्यथा खेटो न शुभोऽसत्खगो मतः ।एवं शुभाशुभं ज्ञात्वा तत्तद्भावफलं वदेत् ॥ 10 ॥
- श्लोक 11यो भावः स्वामिसौम्याभ्यां युक्तोदृष्टोऽयमेधते ।पापैर्दृष्टो युतो वा स्यात् तस्य हानिः प्रजायते ॥ 11 ॥
- श्लोक 12ज्ञेयं सग्रहभावस्य ग्रहयोग समं फलम् ।अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ 12 ॥
- श्लोक 13शुभैरेव शुभं पापैरशुभं मिश्रखेचरैः ।शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ 13 ॥
- श्लोक 14एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च ॥तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ 14 ॥
- श्लोक 15यत्र नैव ग्रहः कश्चिन्न दृष्टिः कस्यचिद्भवेत् ।तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ 15 ॥
- श्लोक 16शुभोऽप्यशुभवर्गेषुह्यधिकेष्वशुभप्रदः ।पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ 16 ॥
- श्लोक 17स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभावहाः ।शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ 17 ॥
- श्लोक 18एवं सर्वेषु खेटेषु भावेष्वपि द्विजोत्तम ! ।शुभाशुभत्वं संचिन्त्य ततस्तत्फलमादिशेत् ॥ 18 ॥
- श्लोक 19यदा सुदर्शनादेव फलं सिद्ध्यति देहिनाम् ।तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ 19 ॥
- श्लोक 20इति मे संशयो जातस्तं भवान् छेत्तुमर्हति ।पृथग्भगौ यदार्केन्दू लग्नादन्यत्र संस्थितौ ॥ 20 ॥
- श्लोक 21तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः ।एकभे द्वौ त्रयो वा चेत् तदा लग्नात्फलं वदेत् ॥ 21 ॥
- श्लोक 22अथ विप्र ! प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् ।अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ 22 ॥
- श्लोक 23तन्वादयो वर्षमाससार्धद्विकघस्रान् प्रवर्तयेत् ।भावेशादि द्वादशानां दशा वर्षेषु कल्पयेत् ॥ 23 ॥
- श्लोक 24तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् ।तं तं भावं प्रकल्प्याङ्गं तत्तत्तन्वादिकं द्विज ॥ 24 ॥
- श्लोक 25तत्तल्लग्नात्केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः ।यत्र भावे भवेद् राहुस्तद्भावस्य नाशकृत् ॥ 25 ॥
- श्लोक 26पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ।विरिःफारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ 26 ॥
- श्लोक 27एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् ।द्वादशानां दशावृत्त्या दशाश्चायुषि चिन्तयेत् ॥ 27 ॥
- श्लोक 28एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ।ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ 28 ॥
- श्लोक 29उभयत्र समत्वे हि सम्पूर्णं तत्फलं वदेत् ॥विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ 29 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।