अध्याय 77: पंचमहापुरुषलक्षणाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 77 (Panch Mahapurush Yog)

22 श्लोक

  1. श्लोक 1कुंडली के 5 नियमअथ वक्ष्याम्यहं पंचमहापुरुषलक्षणम्‌ ।स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ 1 ॥
  2. श्लोक 2कुंडली के 5 नियमक्रमशो रुचको भद्रो हंसो मालव्य एव च ।शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ 2 ॥
  3. श्लोक 3कुंडली के 1 नियमदीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ 3 ॥
  4. श्लोक 4कुंडली के 1 नियमरक्तश्यामोऽरिहन्ता च मन्त्रविच्चोग्रनायकः ।क्रूरो भर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ 4 ॥
  5. श्लोक 5कुंडली के 1 नियमवीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।मन्त्राभिचारकुशली दैर्घ्ये चैव शतांगुलः ॥ 5 ॥
  6. श्लोक 6कुंडली के 1 नियममुखं दैर्घ्यं समं मध्यं समं विज्ञैः प्रकीर्तितम् ।तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ 6 ॥
  7. श्लोक 7कुंडली के 1 नियमभुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।शस्त्रेण वह्निना वाऽपि स प्रयाति सुरालयम्‌ ॥ 7 ॥
  8. श्लोक 8कुंडली के 1 नियमशार्दूलप्रतिमः पीनवक्षा गजगतिः पुमान्‌ ।पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित्‌ ॥ 8 ॥
  9. श्लोक 9कुंडली के 1 नियमसात्त्विकः शोभनांघ्रिश्च शोभनश्मश्रुसंयुतः ।कामी शंखगदाचक्रशरकुंजरचिह्नकैः ॥ 9 ॥
  10. श्लोक 10कुंडली के 1 नियमध्वजलांगलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।सुनासश्शास्त्रविद्धीरः कृष्णकुंचितकेशभृत् ॥ 10 ॥
  11. श्लोक 11कुंडली के 1 नियमस्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ 11 ॥
  12. श्लोक 12कुंडली के 1 नियमतुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ 12 ॥
  13. श्लोक 13कुंडली के 1 नियमहंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ 13 ॥
  14. श्लोक 14कुंडली के 1 नियमपीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।मत्स्याङ्कुशधनुःशंखकंजखट्वाङ्गचिह्नकैः ॥ 14 ॥
  15. श्लोक 15कुंडली के 1 नियमचिह्नितांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम्‌ ।षण्णवत्यङ्गुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ 15 ॥
  16. श्लोक 16कुंडली के 1 नियमगङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ 16 ॥
  17. श्लोक 17कुंडली के 1 नियमसमौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान्‌ ।सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ 17 ॥
  18. श्लोक 18कुंडली के 1 नियमसमस्वच्छरदो हस्तिनाद आजानुबाहुधृक्‌ ।मुखं विश्वाङ्गुलं दैर्घ्ये विस्तारे दशाङ्गुलम्‌ ॥ 18 ॥
  19. श्लोक 19कुंडली के 1 नियममालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुरालयम् ॥ 19 ॥
  20. श्लोक 20कुंडली के 1 नियमतनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।मध्ये क्षामः सुजंघश्च मतिमान्‌ पररन्ध्रवित्‌ ॥ 20 ॥
  21. श्लोक 21कुंडली के 1 नियमशक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।चंचलो धातुवादी च स्त्रीसक्तोऽन्यधनान्वितः ॥ 21 ॥
  22. श्लोक 22कुंडली के 1 नियममालावीणामृदङ्गास्त्ररेखाङ्कितकरांघ्रिकः ।भूपोऽयं वसुधां पाति जीवन् खाद्रिसमाः सुखी ॥ 22 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।