अध्याय 78: पंचमहाभूतफलाध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 78 (Panch Mahabhoot Phal)
18 श्लोक
- श्लोक 1अथ पंचमहाभूतच्छाया ज्ञानं वदामि ते ।ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ 1 ॥
- श्लोक 2शिखिभूखाम्बुवातानामधिपामङ्गलादयः ।तत्तद्बलवशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ 2 ॥
- श्लोक 3सबले मंगले वह्निस्वभावो जायते नरः ।बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ 3 ॥
- श्लोक 4शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ 4 ॥
- श्लोक 5सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ 5 ॥
- श्लोक 6क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।तीक्ष्णो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ 6 ॥
- श्लोक 7कर्पूरोत्पलगन्धाढ्यो भोगी स्थिरसुखी बली ।क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ 7 ॥
- श्लोक 8शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ 8 ॥
- श्लोक 9कान्तिमान् भारवाही च प्रियवाक्पृथिवीपतिः ।बहुमित्रो मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ 9 ॥
- श्लोक 10वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ 10 ॥
- श्लोक 11स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।विजयो धनलाभश्च वह्निभायां प्रजायते ॥ 11 ॥
- श्लोक 12इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ 12 ॥
- श्लोक 13स्वच्छा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ 13 ॥
- श्लोक 14मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।तदाऽभीष्ट रसास्वादसुखं भवति देहिनः ॥ 14 ॥
- श्लोक 15मालिन्यं मूढता दैन्यं रोगाश्च पवनोद्भवाः ।तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ 15 ॥
- श्लोक 16एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ 16 ॥
- श्लोक 17नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ 17 ॥
- श्लोक 18तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ 18 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।