अध्याय 79: सत्त्वादिगुणाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 79 (Sattvadi Gun)

22 श्लोक

  1. श्लोक 1अथो गुणवशेनाहं कथयामि फलं द्विज ! ।सत्वग्रहोदये जातो भवेत्‌ सत्वाधिकः सुधीः ॥ 1 ॥
  2. श्लोक 2रजः खेटोदये विज्ञो रजोगुणसमन्वितः ।तमः खेटोदये मूर्खो भवेज्जातस्तमोधिकः ॥ 2 ॥
  3. श्लोक 3गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।एवं चतुर्विधा विप्र! जायन्ते जन्तवो भुवि ॥ 3 ॥
  4. श्लोक 4उत्तमो मध्यमो नीच उदासीन इति क्रमात्‌ ।तेषां गुणानहं वक्ष्ये नारदादिप्रभाषितान्‌ ॥ 4 ॥
  5. श्लोक 5शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।अलोभः सत्यवादित्वं जने सत्वाधिके गुणाः ॥ 5 ॥
  6. श्लोक 6शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम्‌ ।साधूनां रक्षणं चेति गुणा ज्ञेया रजोधिके ॥ 6 ॥
  7. श्लोक 7लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।सेवाकर्मपटुत्वं च गुणा एते तमोऽधिके ॥ 7 ॥
  8. श्लोक 8कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।सत्याऽसत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ 8 ॥
  9. श्लोक 9एतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।उदासीनश्च विप्रेन्द्र ! तं तत्कर्मणि योजयेत्‌ ॥ 9 ॥
  10. श्लोक 10द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ 10 ॥
  11. श्लोक 11सेव्यसेवकयोरेवं कन्यकावरयोरपि ।गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ 11 ॥
  12. श्लोक 12उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।मध्यमस्योत्तमो विप्र! प्रभवत्याश्रयो मुदे ॥ 12 ॥
  13. श्लोक 13अतोऽवरा वरात्‌ कन्या सेव्यतः सेवको नरः ।गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ 13 ॥
  14. श्लोक 14वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।उत्तमादि गुणे हेतुर्बलवानुत्तरोत्तरम्‌ ॥ 14 ॥
  15. श्लोक 15अतः प्रसूतिकालस्य सदृशो जातके गुणः ।जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ 15 ॥
  16. श्लोक 16कालः सृजति भूतानि पात्यथो संहरत्यपि ।ईश्वरः सर्वलोकानामव्ययो भगवान्‌ विभुः ॥ 16 ॥
  17. श्लोक 17तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम्‌ ॥ 17 ॥
  18. श्लोक 18चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।जायन्ते ह्युत्तमो मध्य उदासीनोऽधमः क्रमात्‌ ॥ 18 ॥
  19. श्लोक 19उत्तमे तूत्तमो जन्तुर्मध्याङ्गे च मध्यमः ।उदासीने ह्युदासीनो जायते चाऽधमेऽधमः ॥ 19 ॥
  20. श्लोक 20उत्तमाङ्गं शिरस्तस्य मध्यमाङ्गमुरःस्थलम्‌ ।जंघाद्वयमुदासीनमधमं पदमुच्यते ॥ 20 ॥
  21. श्लोक 21एवं गुणवशादेव कालभेदः प्रजायते ।जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराऽचरे ॥ 21 ॥
  22. श्लोक 22एवं भगवता सृष्टं विभुना स्वगुणैः समम्‌ ।चतुर्विधेन कालेन जगदेतच्चतुर्विधम्‌ ॥ 22 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।