अध्याय 80: नष्टजातकाध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 80 (Nasht Jatak)

16 श्लोक

  1. श्लोक 1जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने! ।यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम्‌ ॥ 1 ॥
  2. श्लोक 2शुभं वाप्यशुभं वापि मनुजस्य पुराकृतम्‌ ।अस्ति कश्चिदुपायश्चेत्‌ तं भवान्‌ वक्तुमर्हति ॥ 2 ॥
  3. श्लोक 3साधु पृष्टं त्वया विप्र ! लोकानुग्रहमानसा ।कथयामि तव स्नेहात्‌ फलमज्ञातजन्मनाम्‌ ॥ 3 ॥
  4. श्लोक 4वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।यदज्ञातं च तज्ज्ञानं ज्ञायते प्रश्नलग्नतः ॥ 4 ॥
  5. श्लोक 5प्रश्नांग द्वादशांशर्क्षस्थिते जन्म वदेद्‌ गुरौ ।अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ 5 ॥
  6. श्लोक 6ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शिशिरादयः ।शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ 6 ॥
  7. श्लोक 7अयनर्तुविरोधे तु परिवर्त्याः परस्परम्‌ ।बुधचन्द्रसुराचार्याः कुजशुक्रशनैश्चराः ॥ 7 ॥
  8. श्लोक 8मासो दृकाणपूर्वार्धे पूर्वोऽन्यस्तु परार्धके ।अनुपातात्तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ 8 ॥
  9. श्लोक 9तद्वशादिष्टकालो यो जन्मकालसमो हि सः ।तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ 9 ॥
  10. श्लोक 10गुरुर्द्वादशभिर्वर्षैः पुनस्तद्राशिगो भवेत् ।तदा कस्मिन् पर्याये ज्ञेयः संवत्सरो मुने ॥ 10 ॥
  11. श्लोक 11संवत्सरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम ।वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ 11 ॥
  12. श्लोक 12तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः ।कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत्‌ ततः ॥ 12 ॥
  13. श्लोक 13ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् ।भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ 13 ॥
  14. श्लोक 14संक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम ।रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम्‌ ॥ 14 ॥
  15. श्लोक 15कलीकृत्य खषण्निघ्नं स्फुटार्कगतिभाजितम् ।लब्धं घट्यादि मानं यत् तावान् सूर्योदयात्परम् ॥ 15 ॥
  16. श्लोक 16पूर्वं जन्मेष्टकालो हि क्रमाज्ज्ञेयो विपश्चिता ।साधितौदयिकादर्कादिष्टेऽर्केऽधिकहीनके ॥ 16 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।