अध्याय 99: प्रसवविकारशान्त्यध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 99 (Prasav Vikar Shanti)
20 श्लोक
- श्लोक 1अथाहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् ॥येनारिष्टं समस्तस्य ग्रामस्य च कुलस्य च ॥ 1 ॥
- श्लोक 2अत्यल्पे वाधिके काले प्रसवो यदि जायते ।हीनांगो वाधिकांगो वा विशिरा द्विशिरास्तथा ॥ 2 ॥
- श्लोक 3नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः ।प्रसवस्य विकारोऽयं विनाशायोपजायते ॥ 3 ॥
- श्लोक 4वडवाहस्तिनी गौर्वा यदि युग्मं प्रसूयते ।विजात्यं वा विकारं वा मासैः षड्भिर्नृपक्षयः ॥ 4 ॥
- श्लोक 5यस्य स्त्रिया पशूनां वा विकारः प्रसवोद्भवः ।अनिष्टं भवने तस्य कुलेऽपि च महद्भवेत् ॥ 5 ॥
- श्लोक 6तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः ।अकृत्वा नास्तिकोलोभादश्नुते बहुसंकटान् ॥ 6 ॥
- श्लोक 7गवादीनां विकारे ताः परित्याज्या हितार्थिना ।निर्धनाय प्रदातव्या परदेशेषु शान्तये ॥ 7 ॥
- श्लोक 8त्यक्त्वा दिवाशनं होमं पूर्ववत्कारयेज्जपम् ।प्राजापत्येन मन्त्रेण समिदाज्यचरु हुनेत् ॥ 8 ॥
- श्लोक 9ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ।सर्वहोमादिकं कार्यं त्रिखलोक्तं द्विजोत्तम ॥ 9 ॥
- श्लोक 10द्विजान्सन्तर्पयेदन्नैरभिषेकादि पूर्ववत् ।एवं यः कुरुते सम्यक् सर्वपापैः प्रमुच्यते ॥ 10 ॥
- श्लोक 11भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते ।मरणं तस्य निर्दिष्टं षड्भिर्मासैर्द्विजोत्तम ॥ 11 ॥
- श्लोक 12माघे बुधे च महिषी श्रावणे वडवा दिवा ।तदारिष्टं भवेच्छान्तिमाचरेद्दोषशान्तये ॥ 12 ॥
- श्लोक 13गवादीनां परित्यागः कर्तव्यः शुभकांक्षया ।ततो होमं प्रकुर्वीत घृताक्तैः राजसर्षपैः ॥ 13 ॥
- श्लोक 14महाव्याहृतिभिर्होमःप्रोक्तोऽष्टयुतसंख्यया ।सोपवासमयत्नेन दद्याद् विप्राय दक्षिणाम् ॥ 14 ॥
- श्लोक 15तुलायां दशमे भागे स्थिते कमलबोधने ।सहस्रं राजयोगानां नाशयत्याशु जन्मनि ॥ 15 ॥
- श्लोक 16सौराद्द्विगुणतो भौमो बुधस्तस्माच्चतुर्गुणः ।ततो जीवस्ततः शुक्रस्तस्माच्चन्द्रो बलाधिकः ॥ 16 ॥
- श्लोक 17बुधादष्टगुणो जीवस्तस्मादष्टाधिको भृगुः ।शुक्रात्कलाधिकश्चन्द्रस्तस्माद्भानुर्बलाधिकः ॥ 17 ॥
- श्लोक 18नीचे नीचांशके चेन्दौ सर्वसौख्यं विनश्यति ।एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः ॥ 18 ॥
- श्लोक 19सर्वान् कामानवाप्नोति चिरजीवी सुखी भवेत् ॥ब्रह्मविष्णुमहेशानां ग्रहाणां पूजनं तथा ॥ 19 ॥
- श्लोक 20त्र्यम्बकरुद्र प्रीत्यर्थं पूजाहोमादिकं चरेत् ।सर्वहोमादिकं कर्म कुर्यात् त्रिखलशान्तिवत् ॥ 20 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।