अध्याय 98: त्रिखलजन्मशान्त्यध्यायः

बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 98 (Trikhal Janma Shanti)

9 श्लोक

  1. श्लोक 1अथान्यत्‌ सम्प्रवक्ष्यामि जन्मदोषप्रदं शिशोः ।सुतत्रये सुता जन्म तत्त्रये सुतजन्म चेत्‌ ॥ 1 ॥
  2. श्लोक 2तदारिष्टभयं ज्ञेयं पितृमातृकुलद्वये ।तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ॥ 2 ॥
  3. श्लोक 3सूतकान्तेऽथवा शुद्धे समये च शुभे दिने ।आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम्‌ ॥ 3 ॥
  4. श्लोक 4ब्रह्मविष्णुमहेशेन्द्र प्रतिमाः स्वर्णजाः शुभाः ।पूजयेद्‌ धान्यराशिस्थ कलशोपरि भक्तितः ॥ 4 ॥
  5. श्लोक 5चत्वारिरुद्रसूक्तानिशान्तिसूक्तानिसर्वशः ।विप्र एको जपेद्‌ होमकाले च शुचिसंयतः ॥ 5 ॥
  6. श्लोक 6आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुन्‌ ।अष्टोत्तर सहस्रं वा शतं वाष्टौ च विंशतिम्‌ ॥ 6 ॥
  7. श्लोक 7ब्रह्मादि सर्वदेवेभ्यःस्वस्वगृह्योक्तमन्त्रतः ।ततः स्विष्ट कृतं हुत्वा बलिं पूर्णाहुतिं ततः ॥ 7 ॥
  8. श्लोक 8अभिषेकं च जातस्य सकुटुम्बस्य कारयेत्‌ ।ऋत्विग्भ्यो दक्षिणां दद्याद्‌ ब्राह्मणांश्चापि भोजयेत्‌ ॥ 8 ॥
  9. श्लोक 9कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत्‌ ।एवं शान्त्या च मैत्रेय ! सर्वारिष्टं विलीयते ॥ 9 ॥

यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।