अध्याय 97: ज्येष्ठादिगण्डशान्त्यध्यायः
बृहत् पाराशर होराशास्त्र · Brihat Parashara Hora Shastra, chapter 97 (Jyeshtha Gand Shanti)
21 श्लोक
- श्लोक 1ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः ।तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नहरी द्विज ॥ 1 ॥
- श्लोक 2मूलशान्तिसमं सर्वमत्रापि मण्डपादिकम् ।इन्द्रोऽत्रदेवतातद्वदधिदेवोऽनलस्तथा ॥ 2 ॥
- श्लोक 3विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदेवता ।वज्राङ्कुशधरं देवमैरावतगजान्वितम् ॥ 3 ॥
- श्लोक 4कुर्याच्छचीपतिं रम्यं देवेन्द्रं सुरनायकम् ।यथाशक्ति सुवर्णेन वित्तशाठ्यं न कारयेत् ॥ 4 ॥
- श्लोक 5इन्द्रायेन्दो मरुत्वते इति मन्त्रेण मन्त्रवित् ।गन्धपुष्पैर्धूपदीपैर्नानाभक्ष्यनिवेदनैः ॥ 5 ॥
- श्लोक 6पूजयेद् विधिना विप्रो लोकपालसमन्वितम् ।पूजयेद् वारुणैर्मन्त्रैः कुम्भान्धीमान्प्रयत्नतः ॥ 6 ॥
- श्लोक 7त्वं नो अग्ने जपेदादौ सत्वं नोपि द्वितीयकम् ।समुद्रज्येष्ठा इति चेमम्मे गंगेति चतुर्थकम् ॥ 7 ॥
- श्लोक 8पूजयेद् वस्त्रयुग्माद्यैश्चतुरः कलशानपि ।इन्द्र सूक्तं रुद्रजाप्यं जपं मृत्युंजयं ततः ॥ 8 ॥
- श्लोक 9सुसंकल्पविधानेन होमं कुर्यात्तु मूलवत् ।अभिषेकं प्रकुर्वीत सूक्तैर्वरुणसंज्ञितैः ॥ 9 ॥
- श्लोक 10इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । ऋतस्य योनिमासदम् ।अभिषेकनिवृत्तौ तु यजमानः समाहितः ।शुक्लाम्बराणि धृत्वा च कुर्यादाज्यावलोकनम् ॥ 10 ॥
- श्लोक 11रूपं रूपेति मन्त्रेण चित्रं तच्चक्षुरेव च ।देवतापुरतः स्थित्वा पुनः पूजनमाचरेत् ॥ 11 ॥
- श्लोक 12नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते ! ।गृहाणार्घ्यं मया दत्तं गण्डदोषप्रशान्तये ॥ 12 ॥
- श्लोक 13दानेनानेन देवेश गण्डदोषं विनाशय ।स्वसामर्थ्यानुसारेण सद्यः श्रोत्रियभोजनम् ॥गण्डदोषं विनिर्जित्य आयुष्मांजायते नरः ॥ 13 ॥
- श्लोक 14मूलर्क्षोक्त प्रकारेण कुम्भान् कृत्वा प्रपूजयेत् ।तत्तद्भेशस्य प्रतिमाः नक्षत्रेशस्य मन्त्रतः ॥ 14 ॥
- श्लोक 15मूल नक्षत्रवत् कुर्यात् सर्वां शान्तिं स्वनामतः ॥ 15 ॥
- श्लोक 16ज्येष्ठानक्षत्रजा कन्या विनिहन्ति धवाग्रजम् ।विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ॥ 16 ॥
- श्लोक 17आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ।कन्यासुतौ हतः श्वश्रुं श्वशुरं च यथाक्रमम् ॥ 17 ॥
- श्लोक 18तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ।तत्तद्दोषविनाशाय यथावित्तानुसारतः ॥धवाग्रजाद्यभावे तु न दोषाय प्रजायते ॥ 18 ॥
- श्लोक 19अथवा शक्त्यभावे तु कुर्याद् गोदानमेव च ।यतः समस्तभूदानाद्गोदानमतिरिच्यते ॥ 19 ॥
- श्लोक 20मूलेन्द्राहि मघागण्डे जाते दद्याद् गवां त्रयम् ।गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ॥ 20 ॥
- श्लोक 21अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् ।गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ॥ 21 ॥
अपनी कुंडली देखें (मुफ़्त)लग्न, राशि, नक्षत्र-पद और दशा — आपके फ़ोन परव्यावहारिक कुंडली विज्ञानकुंडली पढ़ने की चरणबद्ध हिंदी अध्ययन-पुस्तक
यह पुस्तक शैक्षिक अध्ययन-सामग्री है। इसमें दी गई ज्योतिषीय व्याख्याएँ पारंपरिक और सांस्कृतिक अध्ययन के लिए हैं; वे निश्चित भविष्यवाणी, चिकित्सा, कानूनी या वित्तीय सलाह नहीं हैं।